श्रीगुरुभ्यो नमः हरिः ओम्
व्याप्तिस्वरूपम्
1
साध्यसामानाधिकरण्यं (साध्याधिकरणवृत्तित्वं) व्याप्तेः स्वरूपं व्याप्यस्य लक्षणम् । इदं लक्षणं पर्वतो वह्निमान् धूमात् इत्यत्र धूमे समन्वेति । तथा हि - साध्यो वह्निः । तदधिकरणं महानसः । तत्रैव धूमस्य सत्वात् साध्याधिकरणवृत्तित्वरूपसाध्यसामानाधिकरण्यं आयातं इति लक्षणसमन्वयः ।
2
तथापि धूमवान् वह्नेः इत्यत्र वह्नौ अतिव्याप्तिः । अत्र साध्यो धूमः । तदधिकरणं महनासः । तत्रैव वह्निसद्भावात् अतिव्याप्तिः । तद्वारणाय साध्याधिकरणवृत्तित्वरूपलक्षणघटके साध्ये हेत्वधिकरणवृत्त्यात्यन्ताभावाप्रतियोगि-त्वरूपविशेषणं देयम् । तथा च हेत्वधिकरणवृत्त्यत्यन्ताभावाप्रतियोगिसाध्याधिकरणवृत्तित्वं इति लक्षणं फलितम् । तथा सति वह्नौ न अतिव्याप्तिः । तथा हि - अत्र हेतुः वह्निः । तदधिकरणं महानसवत् अयोगोलकमपि । तद्वृत्त्यभावपदेन धूमाभावस्यापि ग्रहणसम्भवेन धूमाभावं प्रति धूमरूपसाध्यः प्रतियोग्येव न तु अप्रतियोगी । अतः पूर्वोक्त-अप्रतियोगिसाध्यपदेन धूमस्य ग्रहणासम्भवेन नातिव्याप्तिः ।
3
अत्र हेतुपदमनिवेश्य तत्स्थाने यत्किञ्चित्पदं निवेश्य लक्षणविवक्षणे यत्किञ्चिदधिकरणवृत्त्यत्यन्ताभावाप्रति-योगिसाध्याधिकरणवृत्तित्वरूपं लक्षणं वह्निमान् प्रमेयत्वात् इत्यत्र हेतुभूतप्रमेयत्वे अतिव्याप्तम् । तथा हि - अत्र यत्किञ्चित्पदेन प्रमेयत्ववत् धूमस्यापि ग्रहणसम्भवेन तदधिकरणं महानसादिः । तत्र सर्वत्र वह्नेरेव सत्वेन हेत्वधिकरणवृत्त्यभावपदेन वह्न्यभावग्रहणासम्भवात् महानसे अवर्तमानस्य घटादेरेवाभावो ग्राह्यः । तादृशाभावं प्रति घटादिः प्रतियोगी । अप्रतियोगि वह्निरूपसाध्यो भवति । तदधिकरणं महानसादिः । तत्रैव प्रमोयत्वस्य सत्वात् अतिव्याप्तिः । तत्परिहाराय यत्किञ्चित् पदं अनिवेश्य हेतुपदं निवेशनीयम् । तथा सति हेतुः प्रमेयत्वं तदधिकरणं महानसवत् हृदोपि । तत्र वह्नेरभावेन तं प्रति वह्निरूपसाध्यस्य प्रतियोगित्वान्नातिव्याप्तिः ।
4
एतल्लक्षणे सध्यपदानिवेशे तु हेत्वधिकरणवृत्त्यत्यन्ताभावाप्रतियोगियत्किञ्चित्सामानाधिकरण्यं इति लक्षणविवक्षायां वह्निमान् प्रयेत्वात् इत्यत्र प्रमेयत्वे अतिव्याप्तिः । हेतुः प्रमेयत्वम् । तदधिकरणं हृदादिः । तद्वृत्त्यभावः वह्न्यभावः । तत्प्रतियोगी वह्निः । तदप्रतियोगी यत् अभिधेयत्वं तत्समानाधिकरण्यस्य प्रमेयत्वे सत्वात् अतिव्याप्तिः । अत एव लक्षणे साध्यपदनिवेशः । तथा सति प्रकृतहेतुभूतप्रमेयत्वाधिकरणहृदवृत्ति-अभावपदग्राह्यवह्न्यभावं प्रति साध्यस्य वह्नेः प्रतियोगित्वात् अप्रतियोगिसाध्यपदेन तद्ग्रहणासम्भवात् नातिव्याप्तिः । अत्र हेत्वधिकरणं नाम हेतुनिष्ठाधेयतानिरूपित-अधिकरणतावत्वमित्यर्थः ।
5
हेतुनिष्ठाधेयतानिरूपिताधिकरणताववन्निष्ठात्यन्ताभावप्रतियोगिसाध्यसामानाधिकरण्यं इत्येवं लक्षणनिवेशेपि वह्निमान् धूमात् इत्यत्र अव्याप्तिः । तथा हि - हेतुः धूमः । अत्र हेतुनिष्ठाधेयतायां हेतुतावच्छेदक-सम्बन्धावच्छिन्नत्वानिवेशेन समवायसम्बन्धावच्छिन्नत्वं निवेश्य तन्निष्ठाधेयतानिरूपिताधिकरणतावत्पदेन धूमावयवस्य स्वीकारसम्भवेन तत्र वह्नेरभावेन तद्वृत्ति-अभावपदेन वह्न्यभावस्यापि ग्रहणसम्भवात् तं प्रति साध्यस्य वह्नेः प्रतियोगित्वेन अव्याप्तिः । तदपनोदाय हेतुनिष्ठ-आधेयतायां हेतुतावच्छेदकसम्बन्धा-वच्छिन्नत्वनिवेशः । एवं च अत्र धूमस्य संयोगेन हेतुत्वविवक्षणात् हेतुतावच्छेदसम्बन्धः संयोगसम्बन्धो भवति । न तु समवायः । तथा च हेतुतावच्छेदकसम्बन्धपदगृहीत-संयोगसम्बन्धावच्छिन्न-धूमात्मकहेतुनिष्ठ-आधेयतानिरूपत-अधिकरणतावान् महानसादिरेव तत्र वह्नेरेव सत्वेन तद्वृत्ति-अभावपदेन घटाद्यभावानामेव ग्राह्यत्वेन तान् प्रति साध्यस्य वह्नेः अप्रतियोगित्वेन न अव्याप्तिः ।
6
तथा च – हेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुनिष्ठाधेयतानिरूपिताधिकरणताववन्निष्ठात्यन्ताभावप्रतियोगिसाध्य-सामानाधिकरण्यं व्याप्तिः इत्युक्तं भवति । एवंमुक्तेपि घटः द्रव्यं गुणकर्मान्यत्वविशिष्टसत्तावत्वात् इत्यत्राव्याप्तिः । अत्र हेतुः विशिष्टसत्ता । हेतुतावच्छेदकसम्बन्धः समवायसम्बन्धः । तत्सम्बन्धावच्छिन्नहेतुनिष्ठा-आधेयतायां हेतुतावच्छेदकावच्छिन्नत्वानिवेशेन सत्तात्वावच्छिन्नत्वं निवेश्य तादृशाधेयतानिरूपति-अधिकरणतावत्पदेन विशिष्टं शुद्धान्नातिरिच्यते इति न्यायेन शुद्धसत्ताधिकरणीभूतं गुणादिकमपि ग्रहीतुं शक्यते । तत्रैव द्रव्यत्वस्याभावेन तद्वृत्ति-अभावपदेन द्रव्यत्वाभावग्रहणसम्भवेन तं प्रति द्रव्यत्वरूपसाध्यस्य प्रतियोगित्वात् अव्याप्तिः । तदर्थं हेतुनिष्ठाधेयतायां हेतुतावच्छेदकावच्छिन्नत्वं निवेशनीयम् । तदा तु हेतुतावच्छेदकं विशिष्टसत्तात्वमेव न सत्तामात्रम् । तथा च सत्तात्वेन रूपेण विशिष्टसत्तायाः गुणकर्मवृत्तित्वेपि विशिष्टसत्तात्वेन रूपेण सा तत्र न वर्तते । किन्तु तेन रूपेण द्रव्यमात्रवत्तिः । अतः तदधिकरणं द्रव्यमात्रम् । तत्रैव द्रव्यत्वस्य सत्वेन तदभावग्रहणासम्भवेन गुणत्वाद्यभावानामेव सत्वेन तान् प्रति गुणत्वादीनां प्रतियोगित्वेपि द्रव्यत्वरूपसाध्यस्याप्रतियोगित्वात् नाव्याप्तिः ।
7
तथा च – हेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुतावच्छेदकावच्छिन्नहेतुनिष्ठाधेयतानिरूपिताधिकरणताव-वन्निष्ठात्यन्ताभावाप्रतियोगि-साध्यसामानाधिकरण्यं व्याप्तिः इत्युक्तं भवति । एवमुक्तेपि वह्निमान् धूमात् इत्यत्रैव अव्याप्तिः । यतो हि अत्र संयोगेन धूमत्वेन धूमाधिकरणने महानसादौ कालिकेन वह्न्यभावस्य सत्वेन तत्प्रतियोग्येव वह्निरित्यव्याप्तिः । अतः अभावनिष्ठ-आधेयतायां स्वरूपसम्बन्धावच्छिन्नत्वं निवेशनीयम् । एवं चेत् हेत्वधिकरणे महानसे कालिकेन वह्न्यभावसत्वेपि संयोगेन वह्नेरेव सत्वेन तदभावस्य स्वरूपेण वक्तुमशक्यत्वात् स्वरूपेण विद्यमानाभावपदेन घटाद्यभाव एव ग्राह्यः । तं प्रति वह्नेः अप्रतियोगित्वात् अव्याप्तिपरिहारः ।
8
तथा च – हेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुतावच्छेदकावच्छिन्नहेतुनिष्ठाधेयतानिरूपिताधिकरणताव-वन्निष्ठस्वरूपसम्बन्धावच्छिन्ना-त्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः इत्युक्तं भवति । अत्र लक्षणघटकात्यन्ताभावाप्रतियोगित्वं नाम भेदप्रतियोगितानवच्छेकत्वं इत्यर्थः । एवं अविवक्ष्य यथाश्रुतार्थग्रहणे वृक्ष कपिसंयोगी एतद्वृक्षत्वात् इत्यत्राव्याप्तिः । तथा हि - एतद्वृक्षत्वरूपहेतोः अधिकरणे एतद्वृक्षे अग्रावच्छेदेन कपिसंयोगस्य सत्वेपि मूलावच्छेदेन कपिसंयोगाभावस्यापि स्वरूपेण सत्वेन हेत्वधिकरणवृत्ति-अभावपदेन कपिसंयोगाभावस्यापि स्वीकर्तुं शक्यत्वेन तं प्रति साध्यभूतस्य कपिसंयोगस्य प्रतियोगित्वात् अव्याप्तिः । अत एव अभावप्रतियोगिपदं भेदप्रतियोगितानवच्छेकार्थकम् । तथा सति हेत्वधिकरणे एतद्वृक्षे (कपिसंयोगाभावस्य अव्याप्यवृत्तित्वेन) मूलावच्छेदेन कपिसंयोगाभावसत्वेपि अग्रावच्छेदेन कपिसंयोगसद्भावात् व्याप्यवृत्ति-कपिसंयोगवद्भेदः हेत्वधिकरणवृत्तिभेदपदेन स्वीकर्तुं न शक्यते । किन्तु (वृक्षे) हेत्वधिकरणे एतद्वृक्षे यत्र कुत्रापि यो नास्ति घटादिः तद्वद्भेदः एव स्वीकर्तव्यः । तं प्रति घटादिमत्प्रतियोगि । प्रतियोगितावच्छेदकं घटादिकं तदनवच्छेदकं कपिसंयोगरूपं साध्यम् । अतो नाव्याप्तिः ।
9
तथा च – हेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुतावच्छेदकावच्छिन्नहेतुनिष्ठाधेयतानिरूपिताधिकरणताव-वन्निष्ठस्वरूपसम्बन्धावच्छिन्नभेद-प्रतियोगितानवच्छेदकसाध्यसामानाधिकरण्यं व्याप्तिः इत्युक्तं भवति । एवं विवक्षणेपि पटः घटभेदवान् द्रव्यत्वात् इत्यत्रातिव्याप्तिः । यतो हि अत्र द्रव्यत्वरूपहेत्वधिकरणीभूतः घटः वस्तुतः घटभेदवान्न किन्तु घटभेदवत् (पटादि) भेदवानेव । तथापि हेत्वधिकरणे स्वरूपेणविद्यमानभेदपदेन (हेत्वधिकरणे घटे) घटभेदवद्भेदग्रहणं न सम्भवति । यतो हि यथा भेदाभावः भेदप्रतियोगितावच्छेदकस्वरूपमिति (घटभेदाभावः घटत्वस्वरूपम्) नियमः तथा भेदवद्भेदः प्रथमभेदप्रतियोगितावच्छेदकस्वरूपम् इति नियमसद्भावात् प्रकृते घटभेदवद्भेदः घटभेदप्रतियोगितावच्छेदकीभूतघटत्वस्वरूपं भवति । घटत्वं तु हेत्वधिकरणे घटे स्वरूपेण न वर्तते । अत एव तत्स्वरूपभूतः घटभेदवद्भेदोपि । अतः भेदपदेन घटे यो न वर्तते पटादि तद्वद्भेदो ग्राह्यः । तथा सति पटादिमद्भेदं प्रति पटादिमत् प्रतियोगि । प्रतियोगितावच्छेदकं पटादिकम् । तदनवच्छेदकं घटभेदरूपं साध्यम् । अतः अतिव्याप्तिः । तत्परिहाराय भेदनिष्ठाधेयतायां स्वरूपसम्बन्धावच्छिन्नत्वं अनिवेश्य साध्यवत्ताग्रहविरोधितानि-यामकसम्बन्धावच्छिन्नत्वं निवेश्यम् । तन्निवेशेन अत्र अतिव्याप्तिपरिहारो भवति । स यथा - अत्र हेतौ द्रव्यत्वरूपहेत्वधिकरणे घटे स्वरूपेण (घटत्वस्वरूपस्य) घटभेदवद्भेदस्य अभावेपि साध्यवत्ताग्रविरोधिता-नियामकसम्बन्धेन स भेदः घटे वर्तते एव । अत्र साध्यवत्ताग्रहविरोधितानियामकसम्बन्धः समवायसम्बन्धो भवति । तथा हि - घटः स्वरूपेण घटभेदवान् इत्याकारकसाध्यवत्ताग्रहं प्रति घटः समवायेन घटभेदवद्भेदवान् इत्याकारकज्ञानं विरोधि । येन सम्बन्धेन ज्ञानस्य विरोधित्वमङ्गीक्रियते स सम्बन्धः विरोधितानियामकसम्बन्धः इति नियमसद्भावात् । प्रकृते घटभेदवत्ताज्ञानं प्रति समवायेन घटभेदवद्भेदज्ञानस्य विरोधित्वात् समवायसम्बन्धः साध्यवत्ताग्रविरोधितानियामकसम्बन्धो भवति । तेन सम्बन्धेन यथा घटत्वं घटे वर्तते तद्वत्स्वरूपभूतः घटभेदवद्भेदोपि घटे वर्तते । अतः घटभेदरूपं साध्यं भेदप्रतियोगितावच्छेदकमेव सञ्जातम् । अतो नातिव्याप्तिः ।
10
तथा च – हेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुतावच्छेदकावच्छिन्नहेतुनिष्ठाधेयतानिरूपिताधिकरणताव-वन्निष्ठसाध्ववत्ताग्रविरोधिता-नियामकसम्बन्धावच्छिन्नभेदप्रतियोगितानवच्छेदकसाध्यसामानाधिकरण्यं व्याप्तिः इत्युक्तं भवति । भेदनिष्ठ-आधेयतायां साध्यवत्ताग्रहविरोधितानियामकसम्बन्धावच्छिन्नत्वनिवेशेनैव वह्निमान् धूमात् इत्यत्रापि पूर्वोक्त-अव्याप्तेर्नावकाशः । तथा हि अत्र धूमरूपहेत्वधिकरणे महानसे संयोगेन वह्नेरेव सत्वेन संयोगेन वह्निमान् इति ज्ञानं प्रति विरोधिभूतं यत्संयोगेन वह्निमान्न तन्नाम स्वरूपेणवह्निमद्भेवान् इति ज्ञानं यत् तन्न जायते । अतः विरोधितानियामकस्वरूपसम्बन्धेन वह्निमद्भेदस्याभावात् उदासीन-घटादिमद्भेदस्यैव ग्राह्यत्वेन तत्प्रतियोगितावच्छेदकं घटादिकं तदनवच्छेदकं वह्निरूपं साध्यं अतो नाव्याप्त्यवकाशः ।
11
एवमुक्तेपि वह्निमान् धूमादित्यत्र अव्याप्तिः । तथा हि - हेत्वधिकरणं महानसः । साध्यवत्ताग्रहविरोधितानियामकसम्बन्धेन तद्वृत्तिः यः भेदः इत्युक्ते समवायेन वह्निमान्न इत्याकाकरकप्रतीतिसिद्धसमवायसम्बन्धावच्छिन्नवह्निनिष्ठप्रतियोगितावच्छेदकताकवह्निमन्निष्ठ-प्रतियोगिताकभेदस्य ग्रहणसम्भवेन तस्य प्रतियोगी समवायेन वह्निमान् प्रतियोगितावच्छेदकः समवायेन वह्निरूपः साध्यः अत अव्याप्तिः । तत्परिहाराय भेदप्रतियोगितानवच्छेदकत्वं नाम भेदनिरूपितप्रतियोगितावच्छेदकतानाश्रयत्वमित्यर्थः । एतादृश (भेदनिरूपित) प्रतियोगितावच्छेदकतायां साध्यतावच्छेदसम्बन्धावच्छिन्नत्वं निवेश्यते । तेनाव्प्याप्तिपरिहारो भवति । तथा हि - हेत्वधिकरणे महानसादौ समवायेन वह्निमद्भेदस्य साध्यवत्ताग्रहविरोधितानियामकसम्बन्धीभूतस्वरूपसम्बन्धेन सत्वेपि यन्निष्ठप्रतियोगितावच्छेदकता साध्यतावच्छेदकसम्बन्धावच्छिन्ना भवति तादृश-अवच्छेदकताकतद्वन्निष्ठ-प्रतियोगिताकभेदस्यैव भेदपदेन ग्राह्यत्वेन प्रकृते च समवायेन वह्निमद्भेदः स्वीकर्तुं न शक्यते । यतो हि वह्निनिष्ठप्रतियोगितावच्छेकतायाः साध्यतावच्छेदकसम्बन्धीभूतसंयोगेतरसमवायसम्बन्धावच्छिन्नत्वात् । अतः संयोगेन घटवान् न इत्याकारकप्रतीतिसिद्ध-संयोगसम्बन्धावच्छिन्न-घटनिष्ठप्रतियोगितावच्छेदकताकभेद एव ग्राह्यः । तादृश (पटवद्भेद) भेदनिरूपितप्रतियोगितावच्छेदकतायाः साध्यतावच्छेदकसम्बन्धीभूत संयोगसम्बन्धावच्छिन्नत्वात् । एतादृश (घटवद्भेदनिरूपित .... अवच्छेदकतायाः) भेदनिरूपितप्रतियोगितावच्छेदकतायाः आश्रयः घटः । तदनाश्रयः वह्निरूपः साध्यः । अतो नाव्याप्तिः ।
12
एवुमुक्तेपि वह्निमान् धूमात् इत्यत्र धूमे अव्याप्तिः । तथा हि - हेत्वधिकरणं पर्वतः । तद्वृत्तिभेदपदेन पर्वतः संयोगेन महानसीयवह्निमान् न इत्याकारकप्रतीतिसिद्धः संयोगसम्बन्धावच्छिन्न-महानसीयवह्निनिष्ठ-प्रतियोगितावच्छेदकताक-तद्वन्निष्ठप्रतियोगिताकभेदः स्वीकर्तुं शक्यते । अतः एतादृशभेदनिरूपित-संयोगसम्बन्धावच्छिन्न-प्रतियोगितावच्छेदकतायाः आश्रयः महानसीयवह्निर्भवति । अतोव्याप्तिः । तत्परिहाराय भेदप्रतियोगितावच्छेदकताना-श्रयसाध्यपदेन भेदप्रतियोगितान्वच्छेदकसाध्यतावच्छेदकावच्छिन्नसाध्यं ग्राह्यम् । तथा सति उक्ताव्याप्तिपरिहारो भवति । तथा हि अत्र अव्याप्तिकाले भेदपदेन महानसीयवह्निमद्भेदग्रहणेपि तादृशभेदनिरूपितसाध्य-तावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकता महानसीयवह्नौ वर्तते । अतः तन्निष्ठप्रतियोगितावच्छेदकतायाः अवच्छेदकं भवति महानसीयवह्नित्वम् । तादृश (महानसीयवह्नित्वनिष्ठ) अवच्छेदकतायाः अनवच्छेदकं भवति साध्यतावच्छेदकभूतं केवलवह्नित्वम् । तदवच्छिन्नं वह्निरूपं साध्यम् । तत्समानाधिकरण्यस्य धूमे सत्त्वात् न अव्याप्तिः ।
13
एवमुक्तेपि पर्वतः वह्निमान् वह्नित्वात् इत्यत्राव्याप्तिः । तथा हि - अत्र (लक्षणे) साध्यसामानाधिकरण्यं नाम साध्यनिष्ठ-आधेयतानिरूपि-अधिकरणतावद्वृत्तित्वं इत्यर्थः । प्रकृते साध्यनिष्ठाधेयतायां सम्बन्धविशेषावच्छिन्नत्व (साध्यतावच्छेदकसम्बन्धावच्छिन्नत्व) अनिवेशेन समवायसम्बन्धावच्छिन्नत्वं निवेश्य अव्याप्तिः प्रदर्श्यते । पूर्वोक्तवह्निरूपसाध्यस्य (साद्यता...साध्य) समवायेन अधिकरणं वह्न्यवयवः । तत्र धूमस्यासत्त्वात् अव्याप्तिः । अत्र साध्यनिष्ठ-आधेयतायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वं निवेश्यते । तेन न धूमे अव्याप्त्यवकाशः । तथा हि - पूर्वोक्तसाध्यं प्रति समवायेन वह्न्यवयवस्य अधिकरणत्वेपि साध्यतावच्चेदकसम्बन्धपदग्रहीत-संयोगेन वह्न्यधिकरणं महानसादिकमेव न तु वह्न्यवयवः । तत्र धूमस्य सत्त्वात् न अव्याप्तिः ।
14
एवं विवक्षणेपि वह्निः तादात्म्येन वह्निमान् इत्यत्र अव्याप्तिः । तथा हि अत्र साध्यीभूतो वह्निः अधिकरणीभूतः वह्निश्च एक एव । आधेयता-अधिकरणभावस्य तु भेदव्याप्तत्वमते वह्निरूपसाध्यस्य तादात्म्येन अधिकरणं अप्रसिद्धमेव । अतः साध्याधिकरणप्रसिद्धिनबन्धन-अव्याप्तिः । तत्परिहाराय साध्यनिष्ठ-आधेयतायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वं अनिवेश्य साध्यसामानाधिकरण्यं नाम साध्यसम्बन्ध इत्यर्थो विवक्ष्यते । तथा सति अत्र अव्याप्तिपरिहारो भवति । तथा हि - वह्निरूपसाध्यस्य तादात्म्येन अधिकरणस्य अप्रसिद्धेपि वह्निरूपसाध्यस्य यः तादात्म्यरूपस्सम्बन्धः तदधिकरणं वह्निः इति वक्तुं शक्यते । अत्र आधेयस्य वह्नितादात्म्यस्य अधिकरणस्य वह्नेश्च भेदसद्भावात् वह्नितादात्म्याधिकरणं वह्निर्भवति । तत्र वह्नित्वस्य सत्वात् नाव्याप्तिः । एवं लक्षणविवक्षणादेव वह्निमान् धूमादित्यत्रापि अव्याप्तिपरिहारः तथा हि - अत्र साध्यसम्बन्धो नाम साध्यनिष्ठसाध्यतानियामकः सम्बन्धः इत्यर्थः । स च प्रकृते संयोगः एव न तु समवायः तेन समवायेन वह्न्यधिकरणत्वस्य अथवा वह्नि समवायस्य वा वह्न्यवयवे सत्वेपि वह्निसंयोगस्य अधिकरणं तु महानसादिकमेव । अतो न अव्याप्तिः ।
15
एवमुक्तेपि वह्निमान् धूमात् इत्यत्र रासभादौ अतिव्याप्तिः । तथा हि - पूर्वोक्त-साध्यनिष्ठसाध्यता-नियामकसम्बन्धनिष्ठ-अधेयतानिरूपित-अधिकरणतानिरूपित-तन्निष्ठ-अधिकरणतानिरूपित-आधेयतायां सम्बन्धविशावच्छिन्नत्वानिवेशात् कालिकसम्बन्धा-वच्छिन्नत्वं विवक्ष्य उदासीन-रासभादौ अतिव्याप्तिः वह्निमान् धूमात् इत्यत्र अव्याप्तिः । साध्यसम्बनधाधिकरणे महानसे संयोगेन धूमसत्त्वेपि समवायेन धूमस्याभावात् अव्याप्तिश्च । उभयदोषवारणाय अन्तिम-आधेयतायां हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वं निवेश्यते । तेन न रासभादौ अतिव्याप्तिः न वा धूमे अव्याप्तिश्च । तता हि यद्यपि वह्निरूपसाध्यसम्बन्धाधिकरणे महानसे कालिकेन रासभस्य सत्त्वेपि विवक्षितहेतुतावच्छेकसम्बन्धपदगृहीतसंयोगेनाभावात् न अतिव्याप्तिः । वह्निसंयोगाधिकरणे महानसे समवायेन धूमस्याभावेपि हेतुतावच्छेदकसम्बन्धीभूतसंयोगेन तस्य सत्त्वात् नाव्याप्तिश्च ।
16
एवमुक्तेपि महानसादिस्थपाचकादौ अतिव्याप्तिः । तथा हि - पूर्वोक्तसाध्यसम्बन्धीभूतवह्निसंयोगाधिकरणे महानसे धूमवत् पाचकोपि संयोगेन वर्तते । अतो अतिव्याप्तिः । तत्परिहाराय साध्यसम्बन्धाधिकरणयावन्निष्ठ-अधिकरणतानिरूपित-हेतुतावच्छेदसम्बनधावच्छिन्नवृत्तित्वं इति लक्षणं विवक्षणीयम् । एवं सति न पाचकादौ अतिव्याप्तिः । तथा हि - पचकादीनां पूर्वोक्त-साध्यसम्बन्धाधिकरणमहानसादियत्किञ्चितपदार्थवृत्तित्वेपि साध्यसम्बन्धाधिकरण-यावद्देशवृत्तित्वाभावान्नातिव्याप्तिः । धूमस्तु वह्निसंयोगाधिकरणयावद्देशवृत्तिः । अतः लक्षणसमन्वयश्च ।
17
एवमुक्तेपि वह्नौ अतिव्याप्तिः । तस्यापि वह्निसंयोगाधिकरणयावद्देशवृत्तित्वात् । एवं पूर्वोक्त (हेतुसहित) साध्यसम्बन्धाधिकरणयावद्देशवृत्तित्वं धूमोत्पत्तिकारणीभूत-आर्द्रेन्धनसंयोगादौ वर्तते । अतः तत्रापि अतिव्याप्तिश्च । उभयत्र दोषवारणाय अन्तिमाधेयतायां हेतुतावच्छेदकावच्छिन्नत्वं निवेशनीयम् । तथा सति नातिव्याप्तिः । तथा हि - साध्यसम्बन्धाधिकरणे महानसादौ वह्निः वह्नित्वेन वर्तते । आर्द्रेन्धनसंयोगोपि आर्द्रेन्धनसंयोगत्वेन वर्तते । वह्निः आर्देन्धनसंयोग एतदुभयमपि हेतुतावच्छेदकीभूतधूमत्वेन न वर्तते । अतो न उभयत्राव्याप्तिः । धूमस्तु संयोगेन धूमत्वे न वर्तते । अतः तत्र लक्षणसमन्वयश्च ।
तथा च -
हेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुतावच्छेदकावच्छिन्नहेतुनिष्ठाधेयतानिरूपिताधिकरणतावन्निष्ठसाध्ववत्ताग्रविरोधितानियामकसम्बन्धावच्छिन्नभेदप्रतियोगितानवच्छेदकसाध्यसम्बन्धाधिकरणयावन्निष्ठ-अधिकरणतानिरूपितहेतुतावच्छेदकसम्बनधावच्छिन्नहेतुतावच्छेदकावच्छिन्नवृत्तित्वं व्याप्तेः स्वरूपं व्याप्यस्य लक्षणं इति फलितम् ।