न्यायबोधिनी - पदार्थान् विभजते
पदार्थान् इत्यस्य द्रव्यादिः अर्थः । द्वितीयायाः विषयत्वं अर्थः । द्रव्यादेः विषयत्वे आधेयतासम्बन्धेन अन्वयः । तथा च द्रव्यादिनिष्ठा विषयता । विभजते इत्यत्र वि-उपसर्ग-पूर्वक-भज-सेवायां इति धातोः स्वसमभिव्याहृतपदार्थतावच्छेदकव्याप्यमिथोविरुद्धयावद्धर्मप्रकारकज्ञानानुकूलव्यापारः अर्थः । आख्यातस्य आश्रयत्वं अर्थः । विभागस्य आश्रयत्वे निरूपितत्वसम्न्धेन अन्वयः । विषयत्वस्य निरूपकत्वसम्बन्धेन स्वसमभिव्याहृतपदार्थतावच्छेदकव्याप्यमिथोविरुद्धयावद्धर्मप्रकारकज्ञानानुकूलव्यापारः अन्वयः । तथा च पदार्थनिष्ठविषयतानिरूपकस्वसमभिव्याहृतपदार्थतावच्छेदकव्याप्यमिथोविरुद्धयावद्धर्मप्रकारकज्ञानानुकूलव्यापारनिरूपिता आश्रयता । आश्रयतावतः अभेदसम्बन्धेन अन्नम्भट्टे अन्वयः । तथा च पदार्थनिष्ठविषयतानिरूपकस्वसमभिव्याहृतपदार्थतावच्छेदकव्याप्यमिथोविरुद्धयावद्धर्मप्रकारकज्ञानानुकूलव्यापारनिरूपिताश्रयतावदभिन्नः अन्नम्भट्टः इति शाब्दबोधः ।