न्यायबोधिनी - द्रव्याणि विभजते
द्रव्याणि इत्यस्य पृथिव्यादिः अर्थः । द्वितीयायाः विषयत्वं अर्थः । पृथिव्यादेः विषयत्वे आधेयतासम्बन्धेन अन्वयः । तथा च पृथिव्यादिनिष्ठा विषयता । विभजते इत्यत्र वि-उपसर्ग-पूर्वक-भज-सेवायां इति धातोः सर्वानुगतैकद्रव्यत्वावच्छिन्नपृथिव्यादिधर्मिकपृथिवीत्वाद्यवान्तरधर्मप्रकारकप्रतिपादनानुकूलवर्तमानकालीनकृतिः अर्थः । आख्यातस्य आश्रयत्वं अर्थः । विभागस्य आश्रयत्वे निरूपितत्वसम्न्धेन अन्वयः । विषयत्वस्य निरूपकत्वसम्बन्धेन सर्वानुगतैकद्रव्यत्वावच्छिन्नपृथिव्यादिधर्मिकपृथिवीत्वाद्यवान्तरधर्मप्रकारकप्रतिपादनानुकूलवर्तमानकालीनकृतौ अन्वयः । तथा च द्रव्यनिष्ठविषयतानिरूपकसर्वानुगतैकद्रव्यत्वावच्छिन्नपृथिव्यादिधर्मिकपृथिवीत्वाद्यवान्तरधर्मप्रकारकप्रतिपादनानुकूलवर्तमानकालीनकृतिनिरूपिता आश्रयता । आश्रयतावतः अभेदसम्बन्धेन अन्नम्भट्टे अन्वयः । तथा च द्रव्यनिष्ठविषयतानिरूपकसर्वानुगतैकद्रव्यत्वावच्छिन्नपृथिव्यादिधर्मिकपृथिवीत्वाद्यवान्तरधर्मप्रकारकप्रतिपादनानुकूलवर्तमानकालीनकृतिनिरूपिताश्रयतावदभिन्नः अन्नम्भट्टः इति शाब्दबोधः ।