1. Bhagavatvimsathi
कृष्णं मम प्रियतमं सदाहं चिन्तयामि सततं यतो अहं
पश्यामि सर्वत्र तमेव सो मां श्रावयतु तद् गानसुधारसेन
मधुरभक्तियुताः गोपिकाः ! कृष्णं वल्लभं मन्यमानाः
यथा प्राप्ता श्रेष्ठतमां गतिं तथा अनुगृह्नातु मामपि माधवः
वेणुरन्ध्रपूरितामारुतः केशवमुखात् उत्थितः वहति
मधुशीकरकर्णरसायनं यत् भवति तत् भवतापनभेषजम्
कालिन्दीतटसैकत विलसतीं सौन्दर्यलहरीं पश्यन्तः तस्यां
वल्लवीजनहम्सिन्यः अवगाह्य संसारसागरात उत्थीर्णा बभूवुः
मधुरगानप्रदम् मथुरा नायकं त्रिदशशक्तिप्रदं देवकीसुतं
भक्तिज्ञानप्रदं भागवतपीयूषं वाग्वैदग्ध्यप्रदं वासुदेवं भजे
दामोदरो परंधामः यमलोद्धर्था बिम्बाधर मुरली न्यस्त संकेतकः
जलधारा इव यथा सरति निम्नपदं तथा यान्ति सर्वे उत्कृष्टं तत् पदं
उलूकले बद्धः बद्धान् मोचयति नवनीतं चोरयन् इव हरति दुरितानि
गोपी वल्लभः सन् अपोहति सर्वकामान् कृष्ण एव एष अज्ञानध्वान्तहन्ता
कालियशिरलाञ्छितपादः न्यसतु मम शिरसि पदं मुकुन्दः
पन्चेन्द्र्याहिभिः पीडितं त्रातुं पूर्वकर्मविषवेगमूर्चितम्
नवनीतं इव कबलितःदावाग्निः येन हरिणा तस्य किं न शक्यं
मे पापं कामानिलवर्धितं अग्निं स एव भक्षयेत् सर्वस्य अत्ता
उपशमयेत् भवतापं करुणावर्षं जनयन् अभयमुद्रितकरः यः पुरा
धारयन् गोवर्धनगिरिं ररक्ष गोपान् अतिभीषण वर्षधाराभिरार्तान्
वंशीप्रसर्पितमधुरस्वरो वा आभीरसखाभिर्मधुरालापनं वा
गोपीजनमनोहरमधुरहसितं वा सर्वं भवति भगवत्गीतासारमेव
सूकराकृतिना सागरमग्नधरा समुद्धृत्य निवेशिता जले यथा
तथा अस्मान् अपि उद्धृत्य भवार्णवात न्यवेशयतु सः तद्भक्तिसलिले
सूकररूपो वा मत्स्यवपुर्द्धरो वा नरहरिवेषो वा कूर्मशरीरो वा
कांस्चिदपि भूमिकां धारयति मायी कमलनयनैरेव गृह्यते भक्तैः
सहस्रनाम्नः नाम अनेकं कारणंद्योतकं
तेषु एकः एव रमणीयं तत् राम इति नाम
विविधा हि रूपाणि हरिणा धृतानि चिदचिदात्मकविशिष्टजगति
तथापि तद्रूपं एक एव न नाना आदर्सहस्रप्रतिबिम्बित मुखमिव
नानावर्णापुष्पैः हरिं पूजयन्तः न जानन्ति किं तस्य सुमं प्रियतमं
न तुष्यन्ति तथा अच्युतः अन्यैः हृद्पद्मसमर्पणेन मोदते यथा
कर्पूरनीराजनदर्शनेन अलं न धूपदीपादिभिः लब्दा कृपार्हता
भक्त्यादग्धा यदि ह्रुदयदुर्वासनाः नीराजनं च तत् धूप दीपं च
अभीष्टवरद अतिशयसुखद भक्ताभयप्रद करुणावारिद
भवार्तिमुक्तिप्रद सुहृदप्रियंवद मुरहरे मुकुन्द प्रसीद प्रसीद
नृसिंह करुणापाङ्ग प्रहसितमुख अज्ञानतिमिरनाशन भास्कर भास्वर
वाञ्छिताधिक फलद कल्पकपादप तव दयार्द्रहृदयं न जानन्ति सर्वे
शेषाद्रिनायक तव पादमूलं गृह्णन् अपि अघप्राचुर्यात् मनो मे
वेपते न विश्वासाभावात् परन्तु धैर्यार्भावात् हि मे योग्यता अभावात्