If you feel it is useful Please
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
अन्वयः-
तु यः सर्वाणि भूतानि आत्मनि एव अनुपश्यति च सर्वभूतेषु आत्मानम् अनुपश्यति ततः न विजुगुप्सते ॥
अनुवादः-
==========
=========================
उपसर्गः : वि
धातुः : गुप् [गुपँ गोपने निन्दायां च]
गणः : १ [भ्वादि]
पदम् : आत्मनेपदम्
प्रकारः : तिङन्तम्
प्रयोगः : कर्तरि
जातिः : क्रियापदम्
लकारः : लट्
पुरुषः : प्रथमः
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
वि+ गुप् vt.1.A.
निन्दा करणे, द्वेष करणे
=====================
वि-गुप् भ्वा*आत्म.
निन्दा करना, द्वेष करना
===================
वि-√2. गुप् Desid. -जुगुप्सते,
to shrink away from, wish to conceal from.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
न विजुगुप्सते विजुगुप्सां घृणां न करोति । सर्वा हि
घृणा आत्मनोऽन्यद्दुष्टं पश्यतो भवत्यि;
आत्मानमेवात्यन्तविशुद्धं निरन्तरं पश्यतो न
घृणानिमित्तमर्थान्तरमस्तीति प्राप्तमेव - ततो न
विजुगुप्सत इति ॥
=====================