मम प्रिय व्यालि!
मम प्रिय व्यालि!
मम प्रिय व्यालि!
त्वं कथम् असि? तत्र सर्वं कुशलं इति मन्ये| मम समीपे किञ्चित् जनाः किमर्थं संस्कृतं पठनीयम् इति पृच्छन्ति | अतः अहं तद्विषये किञ्चित् वक्तुम् इच्छामि |
साधारणजनानां कल्पना अस्ति यत् संस्कृते केवलं मन्त्राः स्तोत्राणि च भवन्ति इति | संस्कृतशब्दस्य अर्थः भवति परिष्कृतम् इति, पवित्रीकृतम् इति च । तस्य विपरीतार्थकः शब्दः भवति प्राकृतम् इति ।
यद्यपि अत्यन्तसंस्कारयुक्तं परिपक्वं च भवति संस्कृतं तथापि पठितुम् अतीव सरलं तद् इति कति जनाः जानन्ति?
भारते इदानीम् अनेके ग्रामाः सन्ति यत्र सर्वा अपि जनता धाराप्रवाहवत् भाषणं संस्कृतेन कुर्वन्ति। विविधराष्ट्रेषु विद्यमानाः भूयिष्ठाः भाषाविज्ञाः एकमनसा संस्कृतभाषां सर्वथा पूर्णा भाषा इति अभिज्ञातवन्तः ।
तस्याः अत्युत्तमं व्याकरणं, श्रेष्ठा ध्वनिघटना, असङ्ख्यशब्दनिधिश्च सन्ति । ततोऽपि विशेषतः भारतस्य प्राचीनं ज्ञानविज्ञानकोशम् उद्घाटयितुं सैव कुञ्चिका भवति।
भारते सुवर्णयुगे प्रशस्तानाम् नृपाणां शासनकाले जनैः भाषितम् आसीत् संस्कृतमिति ज्ञानं कस्य वा कुतूहलं न जनयेत् ।तथा आसीत् संस्कृतस्य सारल्यम् |
आवां शीघ्रमेव मिलावः | जयतु भारतम्! जयतु मनुकुलम्!
सस्नेहम्,
पुष्कला