On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
॥ श्री ॥
अथ श्री त्रिविक्रमपण्डिताचार्यसुत श्री नारायणपण्डिताचार्यविरचितः
श्री मध्व विजयः प्रारभ्यते
कांताय कल्याण-गुणैक-धाम्ने नव-द्युनाथ-प्रतिम-प्रभाय ।
नारायणायाखिल-कारणाय श्री-प्राण-नाथाय नमस्करोमि ॥ ॥ १ ॥
अनाकुलं गोकुलमुल्ललास यत्-पालितं नित्यमनाविलात्म ।
तस्मै नमो नीरद-नील-भासे कृष्णाय कृष्णा-रमण-प्रियाय ॥ ॥ २ ॥
अपि त्रिलोक्या बहिरुल्लसंती तमो हरंती मुहुरांतरं च ।
दिश्याद् दृशं नो विशदां जयंती मध्वस्य कीर्तिर्दिन-नाथ-दीप्तिम् ॥ ३ ॥
तमो-नुदाऽऽनंदमवाप लोकः तत्व-प्रदीपाकृति-गो-गणेन ।
यदास्य-शीतांशु-भुवा गुरूंस्तान् त्रिविक्रमार्यान् प्रणमामि वर्यान् ॥४॥
मुकुंद-भक्त्यै गुरु-भक्ति-जायै सतां प्रसत्त्यै च निरंतरायै ।
गरीयसीं विश्व-गुरोर्विशुद्धां वक्ष्यामि वायोरवतार-लीलाम् ॥५॥
तां मंत्र-वर्णैरनु-वर्णनीयां शर्वेंद्र-पूर्वैरपि वक्तु-कामे ।
संक्षिप्नु-वाक्ये मयि मंद-बुद्धौ संतो गुणाढ्याः करुणां क्रियासुः ॥ ६ ॥
उच्चावचा येन समस्त-चेष्टाः किं तत्र चित्रं चरितं निवेद्यं ।
किंतूत्तम-श्लोक-शिखा-मणीनां मनो-विशुद्ध्यै चरितानु-वादः ॥७॥
माला-कृतस्तच्चरिताख्य-रत्नैः असूक्ष्म-दृष्टेः स-कुतूहलस्य ।
पूर्वापरीकारमथापरं वा क्षाम्यंतु मे हंत मुहुर्महांतः ॥८॥
श्री-वल्लभाज्ञां स-सुरेंद्र-याज्ञां संभाव्य संभाव्य-तमां त्रिलोक्याम् ।
प्राणेश्वरः प्राणि-गण-प्रणेता गुरुः सतां केसरिणो गृहेऽभूत् ॥९॥
ये-ये गुणा नाम जगत्-प्रसिद्धाः यं तेषु तेषु स्म निदर्शयंति ।
साक्षान्महा-भागवत-प्रबर्हं श्रीमंतमेनं हनुमंतमाहुः ॥१०॥
कर्माणि कुर्वन् परमाद्भुतानि सभासु दैवीषु सभाजितानि ।
सुग्रीव-मित्रं स जगत्-पवित्रं रमा-पतिं राम-तनुं ददर्श ॥११॥
पादारविंद-प्रणतो हरींद्रः तदा महाभक्ति-भराभिनुन्नः ।
अग्राहि पद्मोदर-सुंदराभ्यां दोर्भ्यां पुराणेन स पूरुषेण ॥१२॥
अदार्य-सालावलि-दारणेन व्यापादितेंद्र-प्रभवेन तेन ।
प्राद्योतनि-प्रीति-कृता निकामं मधुद्विषा संदिदिशे स वीरः ॥१३॥
कर्णांतमानीय गुण-ग्रहीत्रा रामेण मुक्तो रण-कोविदेन ।
स्फुरन्नसौ वैरि-भयंकरोऽभूत् सत्-पक्षपाती प्रदरो यथाऽग्र्यः ॥१४॥
गोभिः समानंदित-रूपसीतः स्व-वह्नि-निर्दग्ध-पलाशि-राशिः ।
अहो हनूमन्नव-वारिदोऽसौ तीर्णांबुधिर्विष्णु-पदे ननाम ॥१५॥
अपक्ष-पाती पुरुषस्त्रिलोक्यां अभोग-भोक्ता पतगाधि-राजम् ।
विश्वंभरं बिभ्रदसौ जिगाय त्वरा-पराक्रांतिषु चित्रमेतत् ॥१६॥
निबद्ध्य सेतुं रघु-वंश-केतु-भ्रू-भंग-संभ्रांत-पयोधि-मध्ये ।
मुष्टि-प्रहारं दश-काय सीता-संतर्जनाग्र्योत्तरमेषकोऽदात् ॥१७॥
जाज्वल्यमानोज्ज्वल-राघवाग्नौ चक्रे स सुग्रीव-सु-यायजूके ।
आध्वर्यवं युद्ध-मखे प्रतिप्र-स्थात्रा सुमित्रा-तनयेन साकम् ॥१८॥
रामार्चने यो नयतः प्रसूनं द्वाभ्यां कराभ्यामभवत् प्रयत्नः ।
एकेन दोष्णा नयतो गिरींद्रं संजीवनाद्याश्रयमस्य नाभूत् ॥१९॥
स दारितारिं परमं पुमांसं समन्वयासीन्नर-देव-पुत्र्या ।
वह्नि-प्रवेशाधिगतात्म-शुद्ध्या विराजितं कांचन-मालयेव ॥२०॥
श्यामं स्मितास्यं पृथु-दीर्घ-हस्तं सरोजनेत्रं गजराज-यात्रम् ।
वपुर्जगन्मंगलमेष दृग्भ्यां चिरादयोध्याधिपतेः सिषेवे ॥२१॥
राज्याभिषेकेऽवसितेऽत्र सीता प्रेष्ठाय नस्तां भजतां दिशेति ।
रामस्य वाण्या मणि मंजु-माला-व्याजेन दीर्घां करुणां बबंध ॥२२॥
हृदोरु-सौहार्द-भृताऽधिमौलि न्यस्तेन हस्तेन दयार्द्र दृष्ट्या ।
सेवा-प्रसन्नोऽमृत-कल्प-वाचा दिदेश रामः सह-भोगमस्मै ॥२३॥
प्रेष्ठो न रामस्य बभूव तस्मात् न राम-राज्येऽसुलभं च किंचित् ।
तत्-पाद-सेवा-रतिरेष नैच्छत् तथाऽपि भोगान् ननु सा विरक्तिः ॥२४॥
नमो नमो नाथ नमो-नमस्ते नमो नमो राम नमो नमस्ते ।
पुनः-पुनस्ते चरणारविंदं नमामि नाथेति नमन् स रेमे ॥२५॥
किं वर्णयामः परमं प्रसादं सीतापतेस्तत्र हरि-प्रबर्हे ।
मुंचन् महीं नित्य-निषेवणार्थं स्वात्मानमेवैष ददौ यदस्मै ॥२६॥
स्वानंद-हेतौ भजतां जनानां मग्नः सदा राम-कथा-सुधायाम् ।
असाविदानीं च निषेवमणो रामं पतिं किंपुरुषे किलाऽस्ते ॥२७॥
तस्यैव वायोरवतारमेनं संतो द्वितीयं प्रवदंति भीमम् ।
स्पृष्टैव यं प्रीतिमताऽनिलेन नरेंद्र-कांता सुषुवेऽत्र कुंती ॥२८॥
इंद्रायुधं हींद्र-कराभिनुन्नं चिच्छेद पक्षान् क्षितिधारिणां प्राक् ।
बिभेद भूभृद्-वपुरंग-संगात् चित्रं स पन्नो जननी-कराग्रात् ॥२९॥
पुरे कुमारानलसान् विहारात् निरीक्ष्य सर्वानपि मंद-लीलः ।
कैशोर-लीलां हत-सिंह-संघां वृत्तां वने प्राक् स्मरति स्म सूत्कः ॥३०॥
भुक्तं च जीर्णं परिपंथि-दत्तं विषं विषण्णो विष-भृद्-गणोऽतः ।
प्रमाण-कोटेः स हि हेळयाऽगात् नेदं जगज्जीवन-देऽत्र चित्रम् ॥३१॥
दग्ध्वा पुरं योग-बलात् स निर्यन् धर्मानिव स्वान् सहजान् दधानः ।
अदारि-भावेन जगत्सु पूज्यो योगीव नारायणमाससाद ॥३२॥
समर्प्य कृत्यानि कृती कृतानि व्यासाय भूम्ने सुकृतानि यावत् ।
करिष्यमाणानि च तस्य पूजां संकल्पयामास स शुद्ध-बुद्धिः ॥३३॥
विष्णोः-पद-श्रिद् बक-सन्निरासी क्षिप्तान्य-पक्षि-प्रकरः सु-पक्षः ।
स-सोदरोऽथाऽदित राज-हंसः स राज-हंसीमिव राज-कन्याम् ॥३४॥
इंदीवर-श्री-जयि-सुंदराभं स्मेराननेंदुं दयितं मुकुंदम् ।
स्व-मातुलेयं कमलायताक्षं समभ्यनंदत् सु-चिराय भीमः ॥३५॥
महा-गदं चंड-रणं पृथिव्यां बार्हद्रथं मंक्षु निरस्य वीरः ।
राजानमत्युज्ज्वल-राज-सूयं चकार गोविंद-सुरेंद्रजाभ्याम् ॥३६॥
दुःशासनेनाऽकुलितान् प्रियायाः सूक्ष्मानराळानसितांश्च केशान् ।
जिघांसया वैरि-जनस्य तीक्ष्णः स कृष्ण-सर्पानिव सं-चिकाय ॥३७॥
जाज्वल्यमानस्य वने वनेऽलं दिधक्षतः पार्थिव-सार्थमुग्रम् ।
सत्त्वानि पुंसां भयदानि नाशं वृकोदराग्नेर्गुरु-तेजसाऽऽपुः ।३८॥
भोगाधिकाभोग-वतोऽरुणाक्षान् इतस्ततः संवलतो धरेंद्रे ।
बहून् द्विजिह्वान् मणिमत्-पुरोगान् असौ कटून् क्रोध-वशान् जघान ॥३९॥
अथैष वेषांतर-भस्म-लीनः क्रमेण वायु-प्रभवः सु-तेजाः ।
रुद्धाखिलाशं मुखरं प्रचंडं भस्मी-चकाराखिल-कीचकौघम् ॥४०॥
स कृष्ण-वर्त्मा विजयेन युक्तो मुहुर्महा-हेति-धरोऽप्रधृष्यः ।
भीष्म-द्विजाद्यैरति-भीषणाभं विपक्ष-कक्षं क्षपयन् विरेजे ॥४१॥
तरस्विनः प्रोच्चलितानधीरान् निर्दग्ध-पक्षानतितीक्ष्ण-कोपान् ।
स धार्तराष्ट्रान् बहु-हेति-लीलो विनाश्य विश्वान् परया श्रियाऽभात् ॥४२॥
कृष्णांघ्रि-पंकेरुह-भृंग-राजः कृष्णा-मुखांभोरुह-हंस-राजः ।
प्रजा-सरोजावलि-रश्मि-राजः स-सोदरोऽराजत वीर-राजः ॥४३॥
पौत्रे पवित्राह्वय-जामि-पौत्रे धरां निधायासुर-धीषु तापम् ।
कीर्तिं त्रिलोक्यां हृदयं मुकुंदे भेजे पदं स्वं सहजैः स भीमः ॥४४॥
विष्णोः पदांतं भजताऽनिलेन घोर-प्रघातैरिति नाशितास्ते ।
रसोज्झिताश्चंचल-वृत्तयोऽलं शोभां न भेजुः सुर-वैरि-मेघाः ॥४५॥
एतत्-प्रतीपं किल कर्तुकामाः नष्टौजसः संकटमेवमाप्य ।
मुकुंद-वैगुण्य-कथां स्व-योग्यां काले कलावाकलयंत तेऽलम् ॥४६॥
यो भूरि-वैरो मणिमान् मृतः प्राग् वाग्मी बुभूषुः परितोषितेशः ।
स संकराख्योऽंघ्रि तळेषु जज्ञे स्पृधा परेऽप्यासुरिहासुरेंद्राः ॥४७॥
सान्नाय्यमव्यक्त-हृदाखु-भुग् वा श्वा वा पुरोडाशमसार-कामः ।
मणिस्रजं वा प्लवगोऽव्यवस्थो जग्राह वेदादिकमेष पापः ॥ ४८ ॥
जनो नमेन्नापरथेति मत्त्वा शठश्चतुर्थाश्रममेष भेजे ।
पद्माकरं वा कलुषी-चिकीर्षुः सु-दुर्दमो दुष्ट-गजो विशुद्धम् ॥४९॥
अवैदिकं माध्यमिकं निरस्तं निरीक्ष्य तत्-पक्ष-सुपक्ष-पाती ।
तमेव पक्षं प्रति-पादुकोऽसौ न्यरूरुपन्मार्गमिहानुरूपम् ॥ ५० ॥
असत्-पदेऽसन् सदसद्-विविक्तं मायाख्यया संवृतिमभ्यधत्त ।
ब्रह्माप्यखंडं बत शून्य-सिद्ध्यै प्र-च्छन्न-बौद्धोऽयमतः प्र-सिद्धः ॥ ५१ ॥
यद् ब्रह्मसूत्रोत्कर-भास्करं च प्रकाशयंतं सकलं स्व-गोभिः ।
अचूचुरद् वेद-समूह-वाहं ततो महा-तस्करमेनमाहुः ॥ ५२ ॥
स्व-सूत्र-जातस्य विरुद्ध-भाषी तद्-भाष्य-कारोऽहमिति ब्रुवन् यः ।
तं तत्-क्षणाद् यो न दिधक्षति स्म स व्यास-रूपो भगवान् क्षमाब्धिः ॥ ५३ ॥
निगम-सन्मणि-दीप-गणोऽभवत् तदुरु-वाग्-गण-पंक-निगूढ-भाः ।
अविदुषामिति संकरता-करः स किल संकर इत्यभि-शुश्रवे ॥ ५४ ॥
विश्वं मिथ्या विभुरगुणवानात्मनां नास्ति भेदो ।
दैत्या इत्थं व्यदधत गिरां दिक्षु भूयः प्रसिद्धिम् ॥
आनंदाद्यैर्गुरु-गुण-गणैः पूरितो वासुदेवो ।
मंदं-मंदं मनसि च सतां हंत नूनं तिरोऽभूत् ॥५५॥
इति श्रीमत्कवि-कुल-तिलक-त्रिविक्रम-पंडिताचार्य-सुत-श्री-नारायण-पंडिताचार्य-विरचिते श्री-मध्-वविजये महा-काव्ये आनंदांकिते प्रथमः सर्गः