धन्वन्तरिस्तोत्रम्

ॐ शङ्खं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्मिः

सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमम्भोजनेत्रम ।

कालाम्भोदोज्ज्वलाङ्गं कटितटविलसच्चारूपीताम्बराढ्यम

वन्दे धन्वन्तरिं तं निखिलगदवनप्रौढदावाग्निलीलम ॥ १॥

ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वन्तरायेः

अमृतकलश हस्ताय सर्व भयविनाशाय सर्व रोगनिवारणाय्

त्रिलोकपथाय त्रिलोकनाथाय श्री महाविष्णुस्वरूप

श्रीधनवन्तरी स्वरूप श्री श्री श्री औषधचक्र नारायणाय नमः ॥ २॥

इति श्रीधन्वन्तरिस्तोत्रं सम्पूर्णम् ।