महाराष्ट्रेषु प्रागजनि शरदां यस्त्रिशतकात् तुरीयो वर्णानामपि तदितरैः पूजितगुणः।
तपस्वी निस्स्वोऽपि क्षितिपतिशिरोभ्यर्चितपदस्तुकारामस्सोऽयं जयति शृणुतैतस्य चरितम् ॥ १॥
इदं हि राष्ट्रं महतां मुनीनामासीत्पुरा पावनजन्मभूमिः।
ज्ञानेश्वराद्याः किल संयमीन्द्रास्तद्ध्यवात्सुस्तपसां विभूत्यै ॥२॥
इन्द्रायणी यत्र वरस्रवन्ती सुरस्रवन्तीव परिस्रवन्ती ।
शिवङ्करी स्पृष्टशिवोदकानां विराजते भूरि भुवं पुनाना ॥ ३॥
तस्यां तटिन्यां पुरमस्ति देहूरिति श्रुतं यत्र चकार वासम् ।
योगी तुकारामकुलप्रपूर्वो विश्वम्भरो नाम तपस्विवर्यः ॥ ४॥
वाणिज्यवृत्ति नगरे हि कुर्वन्नवाचि भात्रा सहसैष पुत्रः।
वत्साचिरात्पण्द्रपुरीमुपेत्य ध्यायैकचित्तेन परावरेशम् ॥ ५॥
इति प्रसूवाक्यमसौ गृहीत्वा गुरोर्वरः शिष्य इवोपदेशम् ।
ययौ पुरी तद्दिनमेव पद्भ्यां शुचिप्रदेशेऽथ कृतासनोऽभूत् ॥ ६॥
निरुध्य वृत्ति निखिलेन्द्रियाणां निवेश्य तत्तन्निजगोलकान्तः।
निधाय चित्तं जगतामधीशे निरन्तरध्यानपरोऽयमासीत् ॥ ७ ॥
समाहितस्यास्य पुरः प्रकाशः सहस्रभानूपम आविरासीत् ।
आनन्दमूर्तिः स च पाण्डुरङ्गः साक्षाभूदिष्टमवाप भक्तः ॥ ८॥
निवत्य देहूपुरमात्मगेहे संवर्णयामास रहो जनन्यै ।
महाद्धतां भागवतीं विभूतिं साक्षात्कृतां प्राग्भवपुण्ययोगात् ॥९॥
जगाद साकर्ण्य सुहृष्टगात्री सवेपथुर्बाष्पसमाकुलाक्षी।
अहो परं धन्यतमामि वत्स स्थिरास्तु ते भक्तिरियं परेशे ॥ १०॥
तदीयमालोक्य सुगाढभक्तेर्महान्तमावेशमुवाच लोकः ।
बद्धादरोऽसौ यदि पाण्डुरङ्गे तदन्तिके तिष्ठति किं न नित्यम् ॥ ११ ॥
जगाद कश्चित्पिशुनः सहासं वणिकिलायं धनलाभदृष्टिः।
कुशिम्भरिर्नेच्छति वेश्म हातुं विश्वम्भराख्यास्य विडम्बनैव ॥ १२ ॥
खलप्रलापैहुताडितोऽपि प्रशान्तधीरेष निशम्य चैतान् ।
अनेडमूकः स्थितवानकम्पः प्रचण्डवात्याहतशैलतुल्यः ॥ १३॥
श्रीपाण्डुरङ्गस्तपसा प्रसन्नः प्रादुर्बभूवास्य पुनः पुरस्तात् ।
दीप्तानलाकैद्युतिमेष दृष्ट्वा पादारविन्दे न्यपतत्सकम्पः ॥ १४॥
स चाह विस्मेरविलोचनं तं प्रीतोऽस्मि भक्त्या मयि ते महत्या ।
अलं तवात्रागमनेन भूयः स्वग्राम एवार्चय मां यथेष्टम् ॥ १५॥
निपीय वाक्यामृतमञ्जुधारां सुष्वाप हर्षार्णवमग्नचेताः।
स्वप्ने ददर्श स्वपुरान्तिकस्थे वनेऽम्बिकाख्ये शयितं स्वदेवम् ॥ १६॥
क्षणात्प्रबुद्धस्तमसि प्रगाढे स्खलन्नगाधोत्कलिकाप्रणुन्नः।
ययो निजग्रामटिकां विदूरामचेतयन्नध्वगतिप्रयासम् ॥ १७॥
प्रातहं प्राप्य वनं प्रतस्थे मात्रान्वितः केशवदर्शनाय ।
ङ्केअनिवस्यमाणोऽपि सा पाण्डर शो मा कापि तदृष्टिपथं जगाम ॥ १८ ॥
क्वचित्स्थली दृष्टिविलोभनीयामपश्यतां तौ तुलसीपवित्राम् ।
यतो वहन् धूपमनोज्ञगन्धः समाजुहावेव समीपमेतौ ॥ १९ ॥
भूगर्भलीनः करुणानिधिः स्यादत्रैव मन्दार इवाब्धिलीनः।
गवेषणीयो भगवानिहवेत्युवाच पुत्रं जननी बहुज्ञा ॥ २० ॥
आकाशवाण्येव तया प्रयुक्तो यावत्स भक्तः खनति क्षमान्तः।
तावत्तयोईक्रपथमेति किंचित्सुपुण्यवद्भिश्च न दृष्टपूर्वम् ॥ २१ ॥
भूगर्भलीनं ददृशे हि ताभ्याममूल्यभास्वन्मणिवृन्दनद्धम् ।
देदीप्यमानं शुभमूर्तियुग्मं श्रीरुक्मिणीमाधवयोः पवित्रम् ॥ २२ ॥
अत्यद्भुतं वृत्तमिदं सुपुण्यं सर्वत्र लोके बहुलीवभूव।
इन्द्रायणीरोधसि मूर्तियुग्मं न्यवेशि तत्सापि कृता पवित्रा ॥ २३ ॥
न्यधायि सा पौरजनैः सुगेहे विभोः सजानेस्तपनीयमूर्तिः।
व्यधायि विप्रैरथ वेदविद्भिः प्राणप्रतिष्ठा विधिवद्विधिः ॥ २४॥
पादारविन्दे किल विश्वमूर्तेावृत्तसंसारसुखोपभोगः।
निनाय विश्वम्भर एष शेषं निजायुषो नित्यतपोभिरुप्रैः ॥ २५॥
तपोधनः केशवलोककामी समाप्य सर्वामिहलोकयात्राम् ।
भार्याममाख्यां तनयौ च हित्वा तत्याज देहं मलभाण्डतुल्यम् ॥ २६॥
दिवंगते भर्तरि पुण्यपुजे वियोगशोकाग्निनितान्तद्ग्धा ।
आमा निवृत्ताखिलभोगचिन्ता ध्यानामृतेनैव पुपोष देहम् ॥ २७ ॥
हरिर्मुकुन्दश्च सुतौ प्रकृल्या पितुः स्वभावात्प्रविभिन्नशीलो।
हरिस्मृति दूरत एव कृत्वा भोगाशयाकृष्टहदावभूताम् ॥ २८॥
आमा तु माता पतिवत्तपस्यां श्रद्धावती चक्रधरे चचार।
धनार्जनोपायविधि तु पुत्रौ परस्परं चिन्तयतः स नित्यम् ॥ २९॥
क्षत्रस्य वृत्तिं यदि संश्रयावस्तदा भवेदस्मदभीष्टसिद्धिः।
इत्याशया देशमहीपतेस्तावुद्योगकामी ययतुः सकाशम् ॥ ३०॥
असौ महीन्द्रः शरणागतानां मनोरथवर्गमहीरुहेन्द्रः।
संग्रामशिक्षाविधुरावपीमौ चकार सेनाधिकृतौ कृपालुः ॥ ३१ ॥
तयोः प्रसूः केशवनामतुष्टा पराङ्मुखी लौकिकवित्तभोगे ।
प्रस्थानमन्यत्र निवारयन्ती सुवत्सला तौ निजगाद पुत्रौ ॥ ३२ ॥
किमित्यये वत्स हरे मुकुन्द दुराग्रहो वां पुरमेव हातुम् ।
इहास्ति विष्णुः कुलदेवता नः कल्पद्रुमः सर्वमनोरथानाम् ॥ ३३ ॥
अलं विदेशभ्रमणेन लोभान्मा विस्मृतिर्भूजगदीश्वरस्य।
यदीयकल्याणपदाब्जसेवा वज्रायते विश्वविपद्गिरीणाम् ॥ ३३॥
इहैव भक्त्या हरिसंनिधाने यथा गुरुवा जनकः स्थितोऽभूत्।
तथा युवाभ्यामपि वर्तितव्यं स एव धर्मः स च सिद्धिहेतुः ॥ ३५॥
एतावदुक्त्वा विरराम माता वचस्तु तस्या हुतमपसु जातम् ।
त्यक्त्वा पुरं जग्मतुरेव दूरे महीपतेस्तस्य हि राजधानीम् ॥ ३६॥
प्राप्तप्रतिष्ठौ नचिरादभूतां संभाव्यमानौ नृपतेः प्रसादात् ।
प्रामं प्रति प्राहिणुतां च यानमानेतुमम्बां स्ववधूसमेताम् ॥ ३७॥
वात्सल्यदोषात्सुतदर्शनाय निरुद्ध बाप्पा नृपराजधानीम् ।
सा देहमात्रेण जगाम गेहान्निधाय चेतो भगवत्पदाब्जे ॥ ३८॥
मेने यथा निर्धनतामपि स्वां विभोः समक्षं महतीं विभूतिम् ।
सा तत्परोक्षे सुतयोर्धनित्वं दारिन्यकल्पं मनुते स्म माता ॥ ३९ ॥
ऐश्वर्यभोगाद्विमुखी स्थितैषा विचिन्तयन्ती सततं महेशम् ।
ददर्श साक्षादथ पाण्डुरङ्गं स चाक्षिपन वाचमिमां बभाषे ॥ ४०॥
जानासि देहूपुरमागतोऽहं त्वद्भर्तुराराधनतः प्रसन्नः।
पुत्राभिषङ्गान्ममतानिमग्ना लग्नासि मद्विस्मृतिकर्दमे त्वम् ॥४१॥
संसारविभ्रान्तिमिमां विहाय स्मृत्वा पुनर्मामुपशान्तचित्ता।
देहूपुरं याहि भजस्व नित्यं विशिष्टसान्निध्यकर पुरे माम् ॥ ४२ ॥
अथ प्रगे सा शयनोपविष्टा सुतौ समाहूय नितान्तहृष्टा ।
तामद्भुतस्वप्नकथामुदात्तां निवेदयामास निशान्तवृत्तम् ॥ ४३॥
निशम्य तावूचतुरात्तहासौ स्वप्नेऽप्यहो मुग्धजनप्रतीतिः।
जामदशायामनुभूतमेव स्वप्ने जनः पश्यति किं विचित्रम् ॥ ४४ ॥
माता सुताभ्यामुपहस्यमानाप्यचञ्चला भक्तिमती च तस्थौ।
भावस्थिराणामितरोक्तिजालैः कदापि चेतांसि न विक्रियन्ते ॥ ४५॥
कुपुत्ररुद्धा स्वपुरं प्रयातुं शशाक नैषा बत मन्दभागा।
भाग्यवत्या अपि सजनन्याः सुपुत्रयोगो हि सुभाग्ययोगः॥४६॥
अन्ते पुनः कुद्ध इवाविरासीत्प्रकम्पमानां च जगाद देवः।
वात्सल्यपाशेन हतासि बद्धा मोहं विजानीहि विनाशहेतुम् ॥ ४७ ॥
जरातुरैषा न विचारशीला यियासति स्वप्नकथाप्रलापैः।
इत्यात्मजा वित्तविधूर्णिताक्षौ सावज्ञमास्तां विमुखौ जनन्याः॥४८॥
समाप्तमाध्याहिकभोजनेषु सुखोपविष्टेषु जनेषु गेहे।
नृपस्य दूतस्तुरगादिरूढो जवात्परेधुः समुपस्थितोऽभूत् ॥ ४९॥
आह्वानसंदेशमवाप्य राज्ञस्तदन्तिकं भ्रातृयुगं जगाम।
तावब्रवीद्भूमिपतिः स्वराज्ये महाविपत्तिर्न चिराद्भवित्री ॥५०॥
शत्रुः समन्तादवरुध्य राष्ट्र प्रतीक्षते काल मिहाभियोक्तुम् ।
हस्त्यश्वपादातिवरूथिनीभिः सोऽयं युवाभ्यामभिषेणनीयः ॥ ५१॥
आदाय मूर्धा नृपतेर्निदेशमापृच्छय भायें जननीञ्च नत्वा ।
सहोदरौ तौ चतुरङ्गसेनायुजौ पुरादीयतुरञ्जसैव ॥ ५२॥
दिनद्वयान्ते रणभूमिशय्यामुपेत्य खेदादिव तौ शयानौ ।
प्रायेण पुण्यापितुरात्मनो वा सुराङ्गनालिङ्गनमन्वभूताम् ॥ ५३॥
उदन्तमेतं जननी निशम्य दुःखानलप्लुष्टमना रुरोद ।
अहो मयैवात्मनि पातितोऽयं गुरुप्रमादाद्विषमो विपाकः ॥ ५४ ॥
ममापराधाकिमु दीनबन्धो ममात्मजो दण्डितवानसि त्वम् ।
यद्रोचते तत्कुरु पाण्डुरङ्ग सर्व सहे त्वत्पदपद्मभृङ्गी ॥ ५५॥
अथ स्नुषैका यशसे कुलस्य चितां स्वभतुतमारोह।
अन्या ययौ गर्भवती स्वमातुहं खवंशाङ्कुररक्षणाय ॥ ५६ ॥
शोकाग्निनाम्बा परिदह्यमाना कृच्छ्रेण देहूपुरमाससाद ।
सोऽग्निः शनैः शान्तिमुपाजगाम ध्यानामृतैः श्रीमधुकैटभारेः ॥ ५७ ॥
अकिञ्चना बन्धुजनैर्विहीना पर्यश्रुरम्बा हरिमन्वयुद्ध।
विनष्टपुत्रां विवशां विभो मां कस्त्रायते वार्धकजर्जराङ्गीम् ॥ ५८ ॥
तपखिनी तां निजगाद वाचं पीयूषकल्पामथ पाण्डुरङ्गः।
अवेहि मां भक्तशरण्यमीशं तवैव भक्तिः परिरक्षति त्वाम् ॥ ५९॥
प्रवर्तयन्ती नयनप्रवाहं निरन्तरं साभवदन्धदृष्टिः ।
शरीरयात्रामपि नित्यमेषा न वार्धके साधयितुं शशाक ॥ ६०॥
तथाप्यहो दृष्टमिदं तदीये सजीकृतं सद्मनि सर्वमासीत् ।
आहारपानादिकसंविधानं केनापि तत्र क्रियते स्म काले ॥ ६१ ॥
शुश्रूषितुं भक्तिमती स्नुषेयं श्वश्रूजनं हन्त समागतेति ।
ङ्केपुताली प्रामजनो बझाष पइयान ग्रहे व्यक्तिमदस्साशाम ॥ ६२ ॥
तपस्विनी वृद्धतरा च रुग्णा प्रयाणकालं प्रतिवीक्षमाणा।
निष्क्रम्य देहात्पदमाप भर्तुः शैलाञ्च्युता वारिनिधि नदीव ॥ ६३ ॥
श्वश्रूगतिं लोकमुखादवेत्य तुषातिशोकान्निजगाद बन्धून् ।
हा घिङ् मया मातृगृहे निवासान्नित्याभिवन्द्यापि न सेविताऽऽर्या ॥६॥
ग्रामे त्वसेवि स्नुषया मयेषा रुग्णान्धवृद्धति बहुः प्रवादः ।
देवेन भक्तावनदीक्षितेन मायास्नुषा कापि विनिर्मिता स्यात् ॥ ६५ ॥
कुतोऽन्यथा मत्समरूपनारी गृहे विलोकेत जनस्तदीये ।
इति व्यलापीदनुतापविद्धा कर्तव्यलोपो हि कृणाति चेतः ॥ ६६ ॥
अथामा साध्वी या परमपदमाता भगवतः
पदाम्भोजद्वंद्वाविरतपरिसेवाबलवशात् ॥
बुधास्तां श्रीविश्वम्भरमपि तदीयं वरपति
तुकारामस्याहुः कुलविटपिनोर्मूलपुरुषौ ॥ ६७ ॥
इति सौ. क्षमायाः कृतिषु श्रीतुकारामचरिते मूलपुरुषप्रशंसनो नाम प्रथमः सर्गः ।
विश्वम्भरस्य समभूदथ पौत्रपौत्रो वंशार्णवात्पुरुषरत्नमुदारकीर्तिः।
विप्रेतरोऽपि कुलमुन्नतिमागमय्य सिद्धोऽयमध धुरि तिष्ठति योगभाजाम् ॥ १॥
बोलाजिनामास्य पिता बभूव माता कनाकी कनकाङ्गयष्टिः।
प्रसूतमात्रस्य शिशोः शरीर कयापि दिव्यप्रभया चकासे ॥२॥
स्नाता ययौ द्वादशवासरे सा श्रीपाण्डुरङ्गालयमात्मजेन ।
समर्प्य तं देवपदाब्जमूले दण्डप्रणाम विदधे प्रहृष्टा ॥३॥
अयाचतैषाध तवार्भकस्य प्रभो त्वया नामकृतिर्विधेया।
श्रुता खवाणी त्वमवेहि नाम्नः कृतिस्तु का राम इवोज्वलस्य ॥ ४॥
निवृत्य गेहं मुदितान्तरा सा शिशुं न्यधान्मङ्गलदोलिकायाम् ।
चक्रे शुभाचारपुरःसरं च पुत्रं तुकारामसुनामधेयम् ॥ ५॥
समाप्य तां नामकृति कनाकी वृद्धेषु बालेषु सुवासिनीषु ।
ताम्बूलमन्नं कुसुमं विभज्य स्वयं कृतां गीतिमगाय देताम् ॥ ६॥
जात सुस्वपिहि यत्र शाश्वतो नामरूपरहितो विभात्यजः।
यत्र सिद्धपुरुषा गृणन्ति यत्सत्यमेव परमास्ति देवता ॥ ७॥
आलये च परमात्मनः शिशो पाण्डुरङ्गचरणारविन्दयोः।
जात सुखपिहि तत्र शान्तिमान् यत्र भाति सुखसिन्धुरुज्ज्वलः ॥ ८॥
समभूत्तपसा प्रसिद्धिमान् अनतिकान्तमनोज्ञयौवनः।
ययतुस्त्वपरौ यशःपथादतिदूरेऽस्य सहोदरावुभौ ॥९॥
बाल्ये विवाहं कृतवान् पितास्य ग्रामस्थया कन्यकया कयाचित्।
सा श्वासरोगाच्छयनीयलग्ना कदापि संसारसुखं न भेजे ॥१०॥
अतः कुमार्यावलिनामभाजा पुनर्विवाहोऽस्य कृतः पितृभ्याम् ।
एवं तुकारामसिमे प्रपद्य व्यराजतां सिन्धुमिवापगे द्वे ॥ ११॥
ज्येष्ठाग्रजस्तस्य विनष्टमार्यो विसृज्य वन्धून् निरगाद्विरक्तः।
पिता तुकारामकरे निधाय क्षेत्रादिभारं दिवमारोह ॥ १२ ॥
पितुर्निदेशं शिरसा गृहीत्वा स कार्यभारं वहति म धीरः ।
कृषौ च वाणिज्यविधी च दक्षःप्रशंसितोऽभूदखिलप्रजाभिः ॥१३॥
तस्याथ माता परमुत्लुकेव स्वरालयं पत्युरियाय साध्वी ।
एवं वियुक्तः प्रिय बन्धुलोकैर्युवाभवदुःखपयोधिमनः ॥ १४ ॥
मनोहतस्यास्य वणिकक्रियासु प्रभूतमासीदविणं विनष्टम् ।
इत्थं हताशोऽपि धनागमस्य व्यचिन्तयन्मार्गमधर्मबाह्यम् ॥ १५॥
वाणिज्यनाशाद्वसुना वियुक्तो विशङ्कमानो विपदं भवित्रीम् ।
कुसीदिकेभ्यः कुलपोषणाय पर्याप्तमर्थ स ऋणीचकार ॥ १६॥
ततश्च गोणीबहुधान्यपूर्णा बह्वीः समारोप्य वृषेषु धीरः।
पुरात्पुरं पर्यटद्ध्वखिन्नः श्रीपाण्डुरङ्गं कलयनजनम् ॥ १७ ॥
भारमालोक्य निवर्तमानं मार्ग बलीवर्दसहायमेकम् ।
भार्ये उभे अप्यभिजग्मतुस्तं प्रमोदसंफुल्लमुखारविन्दे ॥ १८॥
प्रयाणवृत्तान्तममू प्रियस्य प्रष्टुं शनैर्यावदुपाक्रमिष्टाम् ।
दृष्ट्वा विवर्ण मुखमस्य तावद्भीरू स्थिते भ्रान्तहृदौ मुहूर्तम् ॥ १९ ॥
पर्युत्सुकाभ्यां परिपृच्छ्यमानो वृत्तं तुकाराम उवाच तथ्यम् ।
सप्ताहतः पूर्वमितः प्रयातो वाणिज्यहेतोरहमित्यवेथः ॥ २०॥
सार्धं सुहृद्भिः पथि गच्छतो मे प्रचण्डवात्या समभूत्पुरस्तात् ।
अत्युग्रवृष्टिः क्षणमात्रकाले समुद्रकल्पामकरोद्धरित्रीम् ॥ २१ ॥
अलिंपदंगानि महान्धकारो वभौ च सर्व प्रलयान्तकल्पम् ।
कुत्राप्यनश्यत्सहयायिवर्गों वृषद्वितीयो ह्यहमत्र जीवे ॥ २२॥
मनुष्यलोके शरणं न पश्यन्नाक्रन्दितुं तारमहं प्रवृत्तः ॥
हरे विपन्नोऽस्मि गतिर्न मेऽन्या दयख देव द्रुतमेहि पाहि ॥ २३ ॥
मयेति बद्धाञ्जलिना रमेशे संप्रार्थिते कश्चन मामवोचत् ।
कुतोऽवरुन्त्से नु जनस्य मार्ग को वा भवानत्र वने प्रवासी ॥२४॥
एवं ब्रुवाणाय कथाममुष्मै न्यवेदयं भीकरवृत्तसारम् ।
अथास्य साहायकमप्ययाचे संरक्षितुं मदृषभं च भाण्डम् ॥ २५ ॥
अथ स पुरुषः श्रुत्वा जोषं वचः करुणं मम
स्वयमुपगतः पङ्के मग्नं मदीयवृषोत्तमम् ।
झटिति च बलाच्छङ्गग्राहं निगृह्य समुद्धरन्
भुवि निपतितां गोणी पृष्ठे पशोर्निदधे पटुः ॥ २६॥
तदनु च कर धृत्वा मेऽग्रे निनाय स मां शनैः
परिचितपथेनेव ध्वान्तेऽप्यगादचलाचलः ।
तमसि सहसा विद्यद्दीप्तौ मदीक्षणगोचरा
रुचिरमणिभाः श्रीवत्साङ्का बभूव तदाकृतिः ॥ २७ ॥
तनुरजनि मे हृष्टा स्विन्ना प्रकम्पसमाकुला
नयनयुगलादश्रुत्रोतः पपात निरगलम् ।
अहह चपला तावन्नष्टा ममाक्षिसुखं च तत्
तद्नु सरितस्तीरं प्राप्य क्षणात्स तिरोधे ॥ २८ ॥
जानीतमार्य पुरुषोत्तमं तं साक्षादनन्यं खलु पाण्डुरङ्गात् ।
सोऽयं शरण्यः शरणागतानां दयाब्धिरागान्मम तारणाय ॥ २९॥
इति प्रियाभ्यां स निवेद्य वृत्तं ननर्त मार्ग विवशः प्रहर्षात् ।
उन्मत्तमेते पतिमाकलय्य शिरः सनिःश्वासमताडयेताम् ॥ ३० ॥
अथ स गमनात्पूर्व येभ्यो धनानि गृहीतवान् ।
खकुलभृतये वाणिज्यार्थी क्रुधा किल ते जनाः।
तदुपरि बलात्पेतुःप्राप्तुं वितीर्णधनं निजम् ।
श्रमनिपतितं श्येनाः क्रौञ्च यथाऽऽमिषलोभतः॥ ३१॥
भृशं तमाचुक्रुशुरुत्तमर्णा अवञ्चकं दैवनिगीर्णभाग्यम् ।
चिकीर्षुरप्येष ऋणस्य शुद्धिं दशां स्वकीयामनुशोचति स्म ॥ ३२॥
केचित्तुकारामगृहाङ्गपास्थाः कुसीदिकाः सज्जनसान्व्यमानाः।
निर्भर्त्सयन्तो वचनैः कठोरैरनागसं तं गृहतोऽपजग्मुः। ॥ ३३॥
हितैषिणस्तत्सुहृदस्तमूचुर्विपत्तिरेषा जनिता त्वयैव ।
न कोऽपि नारायणनामपाठादुपैति लोकाभ्युदयं जगत्याम् ॥ ३४ ॥
तूर्ण तुकाराम जहीहि तस्मादुन्मादिनी विष्णुपदप्रसक्तिम् ।
अमी जपध्यानसमाधियोगा विप्रस्य धर्मा वणिजो न युक्ताः ॥ ३५ ॥
वाणिज्यवृत्त्या किल पूर्वजास्ते समर्जयन्ति म धनं प्रयत्नैः।
सनातनं धर्ममपास्य दूरे वृणोषि दारिद्यपिशाचमुग्रम् ॥ ३६॥
त्वदीयवालाः परमक्षुधार्ताः पुरा विचिन्वन्ति पथि प्रकीर्णान् ।
अवस्करे धान्यकणानपास्तान कुटुंबिभिः कुक्कुटशावकेभ्यः ॥ ३७ ॥
प्रतिवेशिवचोघातैः पीडितोऽपि पुनः पुनः।
न चचाल तुकारामो हरिपादाब्जसेवनात् ॥ ३८॥
इति सौ० क्षमायाः कृतिषु श्रीतुकारामचरिते जन्मादिसंकीर्तनो नाम द्वितीयः सर्गः।
प्रचलति ततः काले सोऽभूत्तपस्विपुरोगमः
सकलविषयव्यावृत्तात्मा गृहाच पराङ्मुखः।
अयजत जपध्यानस्तोत्रैरनारतमीश्वरं
परिहृतनिजाहारस्वप्नः प्रबोधसमुज्वलः॥१॥
अथास्य गृहिणी ज्येष्ठा नित्यकार्पण्यपीडिता।
परित्यक्तवणिग्वृत्तिं तुकाराममकुत्सयत् ॥ २॥
बुभुक्षया मरिष्यामो वयं त्वदुपजीविनः ।
गृहिणः प्रथमो धर्मः स्वकुटुम्बस्य पोषणम् ॥ ३॥
स्वजनं क्षुधया तप्तं वीक्षितुं सहसे कथम् ।
पाण्डुरङ्गोऽपि ते देवः करुणालववर्जितः॥४॥
किमेतादृशमाराध्य लभ्यते त्वत्परिश्रमैः ।
अलं तव जपैया॑नः कीर्तनैः कण्ठशोषणैः ॥५॥
उपेक्षितः स्वधर्मस्त्वं गृहक्लेशपराङ्मुखः।
ईदृशं त्वा महापापं महेशः क्षमते कथम् ॥ ६॥
हा धिगावामटिष्यावः कन्यां धृत्वा गृहागृहम् ।
रक्षितुं मरणाद्वालांस्त्वदीयान् क्षुधयार्दितान् ॥ ७॥
गेहिन्यैवमुपालब्धोऽप्यतस्थिरमानसः।
तुकारामोऽब्रवीद्भार्या सान्त्वयन्निदमुत्तरम् ॥ ८॥
अहं सर्व करोमीति प्राणी मुह्यति तद्वथा।
योगक्षेममशेष नः पाण्डुरङ्गो वहत्यसौ ॥ ९॥
तत्प्रेरितहृदा भूयः करिष्येऽहं वणिक्रियाम् ।
अचिरात्तत्प्रसादेन कार्पण्यं नः पलायते ॥ १०॥
इत्थमाश्वासिते भार्य मन्त्रयित्वा परस्परम् ।
चन्मूलभाण्डाय चक्रतधनसञ्चयम॥११॥
ततः क्रीत्वा मरीचानि वृषेष्वारोप्य यत्नतः।
कुलदैवं तुकारामः स्मरन् गेहाद्विनिर्ययौ ॥ १२॥
गच्छतो वनमार्गेण भक्तस्यास्य मुखाम्बुजात् ।
हरिनामामृतस्रोतः सवति स्म निरर्गलम् ॥ १३॥
प्रविष्टोऽथ क्रमेणासौ कोकणावनिमण्डलम् ।
आसच्चांबुधेलां तुङ्गतालसुशोभिताम् ॥ १४ ॥
पिप्पलद्रुममूलेऽथ शिवमन्दिरसंनिधौ।
रिकभारान् बलीवदान विश्रमाय मुमोच सः॥१५॥
प्रसार्य भूतले पण्यं स्वयमास्त तदन्तिके।
विस्मृत्य चाखिलं बाह्यं हरिध्यानपरोऽभवत् ॥ १६॥
पण्यस्य पृच्छतो मूल्यं ग्रामीणान् प्रत्यभाषत ।
गृह्यतां यद्यदिष्ट वः किं मूल्यस्य विचारणात् ॥१७॥
इत्युक्ता ग्रामिका निन्युर्मरीचानि यथेप्सितम्।
खानीतपरिमाणैस्ते मिमाना ध्यायतो मुनेः॥१८॥
अस्मानेष निगृह्णीयाद्वञ्चकानिति तेऽत्रसन्।
स तु विस्मृतबाह्यार्थः स्थितोऽभूद् ध्यानतत्परः॥ १९ ॥
वदान्यत्वमुदारस्य श्रुत्वा मरिचकाङ्क्षिणः।
वृन्दीभूय समाजग्मुः स्वस्वभाजनपाणयः॥ २०॥
मूल्यं पश्चादिति प्रोचुः स चोवाच तथास्त्विति ।
अगृह्णन् मुष्टिभिः केचिदपरे मानतोऽधिकम् ॥ २१॥
जगादेकः शठः सर्वा गोणीश्चिक्रीषुरस्म्यहम् ।
गृहमेहि प्रदास्यामि तस्य मूल्यमशेषतः॥ २२॥
स विश्वस्य तुकारामो ग्रामीणस्य वचोऽग्रहीत्।
देवस्याप्याशयं भक्तो विद्यान्न तु दुरात्मनाम् ॥ २३ ॥
तावञ्च निशि वात्यायां येन साह्यं पुरा कृतम् ।
स एव ग्राममासाद्य विनयादब्रवीजनान् ॥२४॥
एष प्रतिनिधिस्तस्य वणिजोऽस्मि निशम्यताम् ।
अद्य तेन प्रयातव्यं पण्यमूल्यं प्रदीयताम् ॥ २५॥
इत्युक्ता ग्रामिकाः प्राहुन किञ्चित्तेन मापितम् ।
कियन्मूल्यमितीदानी को वा प्राज्ञोऽवधारयेत् ॥ २६ ॥
इत्युक्ते पुरुषः प्राह प्रत्यक्षं दृष्टवानिव ।
येन यावगृहीतं तजानास्येव यथायथम् ॥ २७॥
इति ब्रुवन् प्रतिव्यक्तिस्वीकृतं निजगाद सः।
श्रुत्वेदं विस्मिताः सर्वेऽप्यन्तर्विभ्रान्तिमाययुः ॥२८॥
गृहाबृहमटन्मूल्यं पुरुषः संगृहीतवान् ।
अथान्ते क्रीतगोणीकमन्विष्यास्य गृहं ययौ ॥ २९ ॥
देयं दातुमनिच्छन्तं धूर्तमागन्तुकोऽब्रवीत् ।
कण्ठपाशैर्मरिष्यामि न चेन्मूल्यं प्रयच्छसि ॥ ३०॥
भविष्यसि स्वपापेन सर्व ग्रामविनाशकः।
एतावत्युक्तमात्रे तु धिक् त्वां रे वंचकाधम ॥ ३१ ॥
इत्याक्रोशजनस्तोमस्तं निपात्य शठं बलात् ।
प्राहरन्मुष्टिभिः पादैर्यावदेष धनं ददौ ॥ ३२॥
आदाय मूल्यसर्वस्वमाजगाम स पूरुषः ।
साय सन्ध्यामुपासीनं तुकारामं तरोरधः ॥ ३३॥
समर्प्य कृतसंध्याय द्रव्यमस्मै पुरः स्थितः।
त च प्रामाधिपं मत्वा तुकारामोऽब्रवीद्वचः ॥ ३४॥
सौम्य किञ्चिद्धृतं ग्रामान्मह्यमानेतुमर्हसि ।
इत्युक्तः पुरुषः शीघ्रं प्रभूतं घृतमाहरत् ॥ ३५॥
अल्पेन पणकेनाहो कथं लब्धमियद्धृतम् ।
प्रायेणात्र हि मन्दोऽ? गव्यसंपत्तिकारणात् ॥ ३६॥
सह भोक्ष्यावहे तावत्स्थीयतामिति वादिनि ।
तुकारामे नरः सोऽपि स्वीचकार निमन्त्रणम् ॥ ३७॥
निर्गते पुरुषे भुक्त्वा तुकाराममुपाययुः।
पौराः पप्रच्छुरेते च क ते प्रतिनिधिर्गतः ॥ ३८॥
न्ययोजि न मया कोऽपि प्रातिनिध्येन पूरुषः।
इति श्रुत्वा जनो भूयः पृच्छति स सुविस्मितः ॥ ३९ ॥
पण्यमूल्यं तदस्मत्तो ग्रहीतुं कोऽयमागतः।
ग्रामणीरिति सोऽवादीनेति नेत्यब्रवीजनः ॥ ४० ॥
विस्मितो विस्मितानेतांस्तुकारामोऽभणत्ततः ।
अचिन्त्याद्भुतकर्माणि पाण्डुरङ्गस्य के विदुः ॥४१॥
अथ वजन निर्जनवर्त्मनासौ ददर्श कंचित्पथिक पुरस्तात् ।
शनैस्तुकाराममुपेत्य सोऽपि प्रावर्तताभाषितुमिङ्गितज्ञः ॥ ४२ ॥
क्षणादसौ विक्रयलब्धवित्तं वणिग्वशेऽस्तीति विवेद धूर्तः।
जिहीर्षुरस्मादखिलं तदेतज्जगाद तं विश्वसनीयवृत्तिः॥४३॥
सन्त्यत्र कार्तखरकङ्कणानि पत्न्यै महा णि मया कृतानि ।
तान्यर्धमूल्येन समुद्यतोऽस्मि विक्रेतुमापत्तिनिवारणाय ॥४४॥
अवक्रयाओं भवतः सकाशे दिष्ट्या यदि स्यात्तदहं कृतार्थः ।
इमानि ते हस्तगतानि चेति प्रादर्शयत्प्रोज्वलभूषणानि ॥ ४५ ॥
देदीप्यमानैर्वलयैर्मनोऽस्य प्रसह्य जढे सरलप्रवृत्तेः ।
मन्दोऽपि हेमव्यवहारयोगे स क्रेतुमेतानि वचो बबन्ध ॥ ४६॥
ततः कटिस्थाद् गुरुचीरवन्धादुन्मुच्य नाण्यानि वणिक् तदने ।
प्रसारयामास सखे तवैतद्विलोकार्यत्मीयमिति ब्रुवाणः ॥ ४७॥
विस्तारितं तद्धनमेष धूर्ती निरूपयन गृभुरपि स्थिरात्मा ।
अतृप्तमात्मानमिव च्छलेन प्रदर्शयन्मन्दमुवाच साधुम् ॥ ४८॥
अत्यल्पमेतद्भवदीयवित्तं तथाप्यहं कृच्छ्रगतो ग्रहीष्ये।
इत्येष वाचा निबबन्ध मुग्धं जालेन नीलङ्गुमिवोर्णनाभः ॥ ४९॥
धनमगणयन्नुद्धृत्य द्राक् पलायत धूर्तराड्
रभसपतितः श्येनः शावं कपोतमिव क्षणात् ।
तदनु च तुकारामो ग्रामं प्रविश्य मुदान्वितः
कनकवलयान्यादायागात्कुसीदिकमन्दिरम् ॥ ५०॥
एकत्र सर्वानथ मेलयित्वा निजोत्तमर्णानिरवद्यचेताः ।
अदर्शयत्क्रीतसुवर्णमेतत्तेभ्यः प्रदानादृणशुद्धिमिच्छुः ॥५१॥
कुसीदिका दर्शितकङ्कणानां कृत्वा परीक्षा निकषोपलेन ।
सुवर्णलेपैरुपरञ्जितं तत्सर्व ह्यहो पित्तलमित्यवोचन् ॥ ५२॥
प्रोच्चैस्ततस्तैरुपहस्यमानो जनप्रवादैरतिलजमानः।
प्रतीक्ष्यमाणोत्सुकगेहिनीभ्यामदर्शि गेहं गतवान् विषण्णः ॥५३॥
विनष्टसर्वखममुं विलोक्य ज्येष्ठा विचुक्रोश तदीयभार्या ।
मुमोच नेत्राम्बुझरी द्वितीया पतिं सुतप्तं परितापयन्त्यौ ॥ ५४॥
निरुध्य शोकं निजभूषणानि न्यासेन दत्त्वा धनदायकेभ्यः।
कनीयसी धीरतरास्य जाया सम्पाद्य वित्तं विततार भत्रे ॥ ५५॥
शतद्वयेनाथ स रुप्यकाणां क्रीत्वा प्रभूतं लवणं विपण्याम् ।
वृषे समारोप्य च विक्रयाय ग्रामात्तुकाराम इयाय भूयः॥५६॥
। बालेघटाख्यं नगरं प्रविष्टो विक्रीय गोणीलवणं समस्तम् ।
सुशर्करायाः क्रयविक्रयाभ्यां लेभे स मूल्यादधिकं शतार्धम् ॥५७॥
सङ्कीर्तयन्नाम हरेः प्रयायी क्वचित्पुरे विप्रमदर्शदने।
गले हलं दारुमयं वहन्तं विमुण्डनं ग्रन्थिलदीर्घकूर्चम् ॥५८॥
स च द्विजो गद्गदकण्ठमुच्चैर्देहि प्रभो किञ्चिदिति बुवाणः।
अनिच्छयादीयत कैश्चिदल्पं तिरस्कृतश्चान्यजनैर्वराकः ॥ ५९॥
द्रवीकृतात्मा करुणवरेण सौम्यस्तुकाराम उपेत्य विप्रम् ।
पप्रच्छ कि रोदनकारणं ते वदेति सोऽपि द्विज इत्युवाच ॥ ६०॥
रिक्थापहाराय निरागसं मां सम्बन्धिनो राजकुलेऽभियुज्य ।
सर्वखनाशं जनयाम्बभूवुहतो विधिस्तुष्यति नेयतापि ॥ ६१॥
दण्डश्च राज्ञा मयि पातितोऽभूच्छतत्रयं राजतमुद्रिकाणाम् ।
अशोधयं कृच्छ्रगतोऽपि तस्मात्पञ्चाशतं दैवकृपावशेन ॥ ६२॥
अद्यापि सार्धद्वितयं शतानामस्ति प्रदेयं न च दातुमीशे ।
तदर्थमेते यमकिङ्कराभाः परीत्य मां राजभटास्तुदन्ति ॥ ६३ ॥
आपत्कथां तस्य निशम्य भक्तो हरेः सपद्येव दयार्द्रचेताः।
विश्राण्य सर्व तभीष्टमर्थ व्यमोचयद्वन्धनतस्तमार्तम् ॥ ६४॥
ततस्तुकाराम इमं खवासे द्विजं समानीय कृताभिषेकम् ।
अभोजयत्तं दश भूसुरांश्च भुक्तोत्तरं प्राप तदाशिषश्च ॥ १५ ॥
अथ विरहिताशेषद्रव्यः कृपाम्बुनिधिः पुनः .
पुरमनडुहा सार्ध प्राप्तो व्यलोकि निवासिभिः।
धनविनशनाख्यानं श्रुत्वा तदीयमुखोद्गत
समजनि किलोन्मत्तः सोऽयं हहेत्यहसन्नमी ॥ ६६॥
तद्ग्रीवायामधमचरितो ग्रामलोकः पलाण्डून
मालीकृत्याक्षिपत पिशुनैरुत्तमणैः प्रदिष्टः ।
आरोप्यैनं सुजनमहितं रासभस्याथ पृष्ठे
ग्रामेऽनैषीत् सकलजनधिकारपात्रं चिकीर्षुः॥ ६७॥
इति सौ० क्षमायाः कृतिषु श्रीतुकारामचरिते वाणिज्यविनाशो नाम तृतीयः सर्गः ।
अथ यावदुपायचिन्तनं पुनरर्थाधिगमाय स व्यधात् ।
उदभूत्पुरि तावदुल्बणं गुरुदुर्भिक्षमतीवदारुणम् ॥ १॥
वर्षोदकामावत एव सर्वग्रामेषु नेशुः पशवो नराश्च ।
साधुः स कौटुम्बविपत्तिशङ्की मुधा ययाचे प्रतिवेशिसाह्यम् ॥२॥
पटश्चरैः पल्ययनैश्च जीर्णैः क्रीत्वापणे काश्चन धान्यमुष्टीः ।
ताभिर्विनिष्पाद्य मितां यवागूमसूनरक्षत्स्वकुटुम्बकस्य ॥ ३॥
निःशेषिते धान्यकणे जनास्तं प्रोचुस्तवाद्य क नु पाण्डुरङ्गः।
सदा हितैषी किल ते शरण्यः किं रक्षति त्वामथ वा जहाति ॥४॥
पर मर्मन्तुदं वाचमिमां निशम्य स्वदेवतायाः परिवादलध्वीम् ।
निकृत्तमात्मानमिवाकलय्य श्रोत्रे पिधाय प्रतिवाचमूचे ॥५॥
कृषीवलः श्राम्यति भूरि सौम्याः कृषः समारम्भविधौ प्रसक्तः।
प्रमोदते सस्यविपाककाले विस्मृत्य कष्टं ह्यनुभूतपूर्वम् ॥ ६॥
आध्यात्मिकश्चापि तथा प्रयासो दीर्धेस्तपोभिः क्रियते नरेण ।
स च खकाले परमात्मनैक्यं प्रपद्य शश्चत्सुखमेत्यहार्यम् ॥ ७॥
अथ विंशतिवर्षीयो दुर्भिक्षव्यसनादितः।
ऋणवाधाकुलश्चासौ निरुपायः स्थितोऽभवत् ॥ ८॥
ज्येष्ठा च पत्नी तनयश्च तस्य क्षुधार्तितौ कालवशं प्रयाती।
सवात्मनासौ शरणं प्रपन्नो हरि ययाचे करुणासमुद्रम् ॥ ९॥
हरे प्रसीद द्रुतमेहि नाथ क्षमख मत्पापमधप्रणाशिन् ।
वृथव कालः क्षपितो मयाभूदितश्च कार्य वद् निश्चितं मे ॥ १० ॥
यदत्र कृत्यं मम जीवलोके तदादिश त्वं कृपया मुकुन्द ।
विषानले मां पतितं भवाब्धौ हे पाण्डुरङ्गोधर पाहि पाहि ॥११॥
एवं स भक्तः परिदेवनेन श्रीपण्ढरीशं कलयन् हृदन्तः ।
सप्ताहमेकाग्रतयावतस्थे विनिश्चल: सामिनिमीलिताक्षः॥१२॥
अभिधतास्य प्रसभं समाधिः कयापि विस्पष्टगिरा नभस्तः ।
स चापि सानन्दसमुजवलास्यः समुत्थितोऽभूदवधारितार्थः॥१३॥
श्रद्धाभक्तियुतः स्थितोऽस्मि भवतः पादाम्बुजैकाश्रयः ।
पुण्यं यत्तपसार्जितं तदिह मे वित्तं हरे शाश्वतम्।
तद्वित्तस्य तपोधनाः किल विदुर्दिव्याममोघक्रिया
मित्येवं स दिवानिशं कलयते तृप्तः स्वयं स्वात्मनि ॥ १४॥
सायं स्वीयपुरं पुनः प्रतिगतं केचिजना वीक्ष्य तं
प्राशंसन बहुभिर्वचोभिरितरे निन्दास्पदं मेनिरे।
अस्पृष्टस्तुतिनिन्दनः स्थिरमतिर्याति स्म वीथ्यां यति
वुक्कद्भिः शुनकव्रजैरनुगतो राजाध्वनीव द्विपः ॥ १५॥
आसाद्य स्वगृहं स लेख्यनिचयग्रन्थि पितुः पेटका
दुद्धृत्यागमदापगामथ बलाच्चिक्षेप तं तजले।
तत्रासीजनकाय देयमितरैर्द्रव्यं बहु व्यञ्जयनिर्दुष्टः
करणव्रजस्तदपि तं मेने तृणायैव सः॥१६॥
स्नात्वा पूतजलं वहन् स गतवान् श्रीपाण्डुरङ्गालयं
देवं तत्र समर्थ्य शान्तमनसा भण्डारशैलं ययौ ।
तत्रासीत्समभूतले सुविमले प्रच्छायशीता स्थली
सोऽत्र ध्यानपरायणः समभवद्योगाय बद्धासनः ॥ १७ ॥
तत्समाधिवनसन्निधावभूत्क्षेत्रमेकमवदच्च तत्पतिः।
रक्ष सस्यमिह भोस्तपश्चरन् धान्यमाढकयुगं ददामि ते ॥ १८॥
वाढ मित्युपचिकीर्षुरजसा भिन्दिपालमुररीचकार सः।
गम्यतामयि सखेस्थितोऽस्म्यहं सावधानमिति चाब्रवीदमुम्॥१९॥
क्षेत्रतस्तद्नु निर्ययौ पतिः पालकश्च लघु मञ्चकं गतः।
तत्क्षण च विनिपेतुरञ्जसा सस्यवृन्दमधि वृन्दशः खगाः॥२०॥
वीक्ष्य पत्रिनिवह व्यचिन्तयत्प्राणिनः खलु बुभुक्षिता इमे।
पापमापतति तन्निवारणादित्यशब्दमधिविष्टरं स्थितः॥२१॥
यामयुग्ममथ निन्युरत्र ते कूजनं च मधुरं वितेनिरे ।
भक्तधान्यकणिका यथेप्सितं प्रत्यहं च विदधर्गतागतम् ॥ २२.॥
तत्कलनमथ चिन्तया वने मार्गणाय पितुरादिशत्सुताम् ।
नैच्छदेष किल गन्तुमालयं सत्यवाक् चलति न प्रतिश्रुतात् ॥२३॥
आवली तदनु सा सुगेहिनी प्रत्यहं च नयति स्म भोजनम् ।
सोऽध्युवास वनिकामहर्निशं प्रातरर्चितहरिः सुरालये ॥ २४॥
सायमेष निजगाद पक्षिणो गम्यतामयि कुलायकानि वः।
आवृते हि तमसा वने भवेनीडकप्रतिगमो हि दुष्करः ॥ २५॥
वीक्ष्य तान् स चलतः पतत्रिणो विस्मयान्वितमना व्यचिन्तयत् ।
भक्षयन्ति किमपि द्विजा इमे न द्विजा इव नयन्ति तद्वहम् ॥२६॥
जीव्यतेऽण्डजसमं कदा मया संमृतिभ्रममतिकमे कदा ।
नामरूपमपहाय वेनि च खं कदा वरद सर्वभूतगम् ॥ २७॥
जीर्णपर्णमिव वायुना हतं जीव एव कुरुतां गतागतम् ।
काष्ठलोष्टकनकेषु मे समा बुद्धिरस्तु जहि देव मे तृषाम् ॥ २८ ॥
मा पतन्तु वचनानि कर्णयोर्निन्दकस्य न च चाटुवादिनः।
ज्योतिरस्ति हृदयेषु यत्परं देहिनां मम पुरोऽस्तु तद्विभो ॥ २९ ॥
ध्यायतीत्थमनुवासरं मुनौ भुंजते स्म किल धान्यमण्डजाः।
तेनिरेऽस्य च मुदं यथा द्विजा भोजनेन परितृप्तमानसाः ॥ ३० ॥
वत्सरान्तमनुपाल्य कर्षको धान्यसम्पदमवेक्षितुं मुदा ।
क्षेत्रमागमदथावलोकयन् धान्यशून्यमखिलं विसिमिये ॥ ३१॥
सर्वदिक्षु विचरन्तमण्डजास्तं विलोक्य सहसा विनिर्ययुः।
अन्त्यजं निकटमागतं यथा वीक्ष्य भूसुरगणो जुगुप्सया ॥ ३२॥
क्षेत्रवृत्तिरथ रोषवह्निना प्रज्वलन्मुनिवरं प्रधावितः।
धिर विदुष्ट तव कारणादह नाशितोऽस्मि बत धर्मकञ्चकिन् ॥३३॥
इत्यसौ परुषवार विगर्जयन् ग्रामसंघसविधं चकर्ष तम् ।
वृत्तमस्य समितिर्निशम्य तत्प्रोच्चकैर्विहसितं चकार सा ॥ ३४॥
अन्वयुत कृषिकं सभापति शितं कियद्नेन कथ्यताम् ।
खारिकाद्वयमिति प्रतीरिते क्षेत्रमनजदसौ परीक्षितुम् ॥ ३५॥
यावदेष सगणः समीक्षितुं क्षेत्रमाप किल तावदक्षतम् ।
पक्कधान्यपरिपूर्णमञ्जरीपुञ्जमञ्जुलमदृश्यताखिलम् ॥ ३६॥
साधिते सपदि धान्यसंग्रहे तस्य सप्तदश खारिकाः स्थिताः।
दिव्यचेष्टितमचिन्त्यमद्भुतं को हि वेद नृपशुर्जगत्पतेः ॥ ३७॥
क्षेत्रमक्रियत सत्समृद्धिमद्रक्षणाय हरिणा मुनेरिति ।
खारिकाद्वयमदायि केवलं कर्षकाय तद्पेक्षितं यथा ॥ ३८ ॥
धान्यशेषमथ दित्सति प्रभौ संसदोऽस्य मुनये समहते।
तत्तु सर्वममुना निराकृतं हेम कत्तृणमकामचेतसाम् ॥ ३९॥
अब्रवीच्च स वशी स्वकर्मणां यो न वाञ्छति फलानि कहिचित् ।
सोऽयमेव सदुपासको हरेः शान्तिमेष भजते च सन्ततम् ॥ ४०॥
श्रीमहादाजिपन्तेन ग्रामकोशाधिकारिणा ।
ग्रामलोकोपयोगाय तद्धान्यमभिरक्षितम् ॥ ४१॥
इति सौ० क्षमायाः कृतिषु श्रीतुकारामचरिते शकुन्तसन्तर्पणो नाम चतुर्थः सर्गः ।
अथावली तस्य मुनेः कलत्रं त्यागेन धान्यस्य चुकोप पत्यै ।
परिग्रहात्तापमुदीक्ष्य धीराः सदा प्रहृष्यन्त्यपरिग्रहेण ॥१॥
उपेक्षितं ग्रामजनैश्चिराय श्रीपाण्डुरङ्गालयमाकलय्य ।
उद्धर्तुमेतं बहुजीर्ण मिच्छन् भक्तः स साक्षात्कटिमाबबन्ध ॥ २॥
खनित्रपाणिर्भुवमुञ्चखान बिभेद लोष्टानि स कोटिशेन ।
मृदं जलेन स्नपयाञ्चकार निर्माणहेतोनवमन्दिरस्य ॥ ३॥
तावन्महादाजिरपश्यदीशं स्वप्ने समादेशमुदीरयन्तम् ।
भक्तस्य मे पुण्यकृतः कुरु त्वं साहायकं मट्टहकर्मणीति ॥ ४॥
ग्रामाधिपः कर्मकरान् सुशीघ्रं संप्रेषयामास मुनेः सकाशम् ।
नवीकृते देवगृहेऽथ हर्षादैच्छद् द्विजान् भोजयितुं महात्मा ॥५॥
निराकृतं धान्यमदायि तस्मै ग्रामाधिपेन द्विजभोजनाय ।
पुण्याहमयैरथ वाचयित्वा व्यधान्मुनिस्तत्र हरिप्रतिष्ठाम् ॥६॥
मुकुन्दसंकीर्तनमत्र कर्तुं पठन् स पद्यानि दधार कण्ठे ।
ज्ञानेश्वरप्रौढकबीरनामदेवैकनाथादिबुधैः कृतानि ॥७॥
अभ्यस्यतस्तानि गिरौ प्रभाताद् भार्यावली भोज्यमुपाजहार ।
या कोपनापि खपतौ विनीता हरिं निनिन्दास्य विरागहेतुम् ॥८॥
अथैकदा पूपमियं वहन्ती तथोदकुम्भं च गिरौ स्वभर्ने।
अध्वश्रमाञ्चण्डकरप्रतापे मूर्छाभिभूता निपपात भूमौ ॥९॥
भग्नो घटः पादतलं च विद्धं दुष्कण्टकैर्गाढरुजामतानीत् ।
अपारयन्ती क्रमितुं पुरस्ताद्ध्यक्षिपत्स्खैरमसौ मुकुन्दम् ॥ १०॥
तस्याः पुरः प्रादुरभूदकाण्डे स्फुरन्मणिः कोऽपि लसहुकूलः।
आलोक्य तं कर्कशवाग्भिरेषा चुक्रोश रोषादृशमुज्वलन्ती ॥१॥
भर्तारमुन्मादहतं विधाय रे जाल्म कस्मादित आगतोऽसि ।
प्रागेव दुःखार्णवमग्नमेनं कुतो जनं दुःखयसे दुरात्मन् ॥ १२ ॥
एवं तमाक्रुश्य पराङ्मुखी सा जुगुप्समानेत बभूव यावत् ।
तावत्पुरस्तात्प्रतिबिंबितेव दिव्याऽऽकृतिः कापि तया व्यलोकि॥१३॥
उदैरयत्कोऽपि निमीलिताक्षी किं मन्यसे मां तव शत्रुतुल्यम्।
यदि खभर्ता नितरां विरक्तो वत्से कुतोमांपरिनिन्दसि त्वम् ॥१४॥
यथैव वृक्षः फलति वकाले वायुर्यथा वाति फलं पते ।
तथा पतिस्ते परिपक्वबुद्धिर्विरज्यते चेन्मम कोऽत्र दोषः॥ १५ ॥
तथोक्तमात्रे तु तदीयपादादपागलनायतकण्टकानि ।
जलाशयं तत्र च सावलोक्य भर्तारमागात्किल सोदकुम्भा ॥१६॥
अथैकदा स्नानगृहं ययौ सा शङ्कौ समुल्लम्ब्य निजैकवस्त्रम् ।
तस्थौ तुकाराम उदीरयन् श्रीपतिस्तुर्ति विस्मृतबाह्यलोकः॥१७॥
अत्रान्तरे प्रापदकिश्चना स्त्री तारध्वनिः शीतनिपीडिताङ्गी।
प्रदर्शयन्ती निजजीर्णवस्त्रं नवाम्बरं सा च मुनिं ययाचे ॥ १८॥
दृष्ट्वार्धनग्नामनुकम्पमानः पत्न्याः स वस्त्रं प्रददावमुष्य ।
हृष्टा तदादाय ययौ कृतज्ञा ततस्तुकाराम इयाय शैलम् ॥ १९ ॥
दृष्टवाऽथ शङ्कोर्वसनं विनष्टं भार्यावली भ्रान्तमना बभूव ।
वृत्तं विदित्वाथ शशाप नारी रोषान्विता च खपति निनिन्द ॥२०॥
हा धिक् खलः कीदृश एष भी ज्ञात्वापि मां सन्ततमेकवस्त्राम् ।
ददाति तद्भूर्तवनीपकायै खैरं गृहाद्याति च मत्परोक्षम् ॥ २१॥
क्रीतं मदर्थे न हि तेन किञ्चिन्मया न भुक्तं च तदर्जितान्नम् ।
धन्या सपत्नी मम या प्रमीता क्लेशैश्च सर्वैर्युगपद् विमुक्ता ॥२२॥
माङ्गल्यसूत्रं विनिबध्य कण्ठे मम प्रभुनिष्करुणः स जातः ।
तदाप्रभृत्यस्मि गृहेऽस्य दासी दारिन्धपाशेन दृढं निबद्धा ॥ २३ ॥
तावत्समीयुर्निजबन्धवस्तामाह्वातुमुद्वाहमहोत्सवाय ।
तदेतदेधोऽजनि कोपवह्नः क्षते पुनः क्षारमधाञ्च तस्याः ॥२४॥
तत्रान्तरे सा सहसा पुरस्तादालोकयत्कञ्चन दिव्यरूपम् ।
नरं करेणोपहरन्तमस्यै दुकूलमेकं कनकोज्वलात्तूम् ॥ २५ ॥
क्षौमाम्बरं सा परिधाय हृष्टा ययौ विवाहालयमावली द्राक् ।
आलोक्य तस्याः कमनीयवेषं नारीगणस्तत्र चमत्कृतोऽभूत् ॥२६॥
विकूणिताक्षी निजगाद काचित्प्रच्छन्नगुप्तं तदिदं किलासीत् ।
अन्याब्रवीत्पत्युरयं प्रसादो वाणिज्यलाभेन तदर्जितं स्यात् ॥ २७॥
विन्देत वस्त्रं कथमीदृशं यतिः प्रतारकोऽयं वणिगेव नूनम् ।
1कौशेयवासांसि बहूनि रक्षेदसाविति व्याहरदगनान्या ॥ २८ ॥
कालेन वैष्णवशिरोमणिरेष धीमान् ग्रामेऽखिले द्विजवरैरपि मानितोऽभूत् ।
न त्यक्तवान् गुणभरैर्निजनम्रभावं पूर्णः फलैरिव महान् पृथिवीरुहेन्द्रः ॥ २९ ॥
भक्ता यदा समगमन् परितस्तमेनं देवालये निशि रमाधवकीर्तनाय ।
'पश्चात्तुकाप्रथमराम उपासकानां स्थित्वा श्रुतिं परिजगौ भजनीयगीतेः ॥ ३०॥
सिद्धस्य चेष्टितमिवाखिलमस्य सर्वालोके प्रवृत्तिरभवद् व्यवहारयोगे ।
सिद्धस्य लक्षणमिदं विदुषां वरेण्यः कश्चिन्महीपतिसमाह्वय इत्थमूचे ॥ ३१ ॥
सिद्धः स एव परकीयशिशुं रुदन्तं दृष्ट्वा खकीयमिव चेतसि दूयते यः।
चोरैर्हृतेऽपि निखिले निजवित्तकोशे न क्लिश्यते खपरवस्तुभिदाविहीनः ॥ ३२॥
सन्तुष्यति क्षितिपदत्तमहाहरनै येद्वत्तथैव कृषिकेण वितीर्णशाकैः।
इंडक् तुकाप्रथमराममुनेश्च वृत्ति रासीदिति प्रणिगदन्ति पुराविदोऽपि ॥ ३३॥
नधास्तटे दिनमसौ नयति स्म भक्तः सर्वात्मना हरिपदाम्बुरुहं प्रपन्नः।
आमध्यरात्रमितरैर्भजनं विधाय सार्धेकयाममवनीतल एव शिश्ये ॥ ३४ ॥
एवं हरौ प्रणिहितोऽपि सदा स्वभक्ते मैने निशि वपनमेष महान्तरायम् ।
योगी भवेत्कथमनिर्जितपञ्चवृत्ति निद्राप्यभावकलनात्प्रतिवन्ध एव ॥ ३५ ॥
रात्रिन्दिवं हरिपदाजपरायणोऽपि साहायकं स विदधे पथि यात्रिकाणाम् ।
ऊष्मागमेऽददत सजलमध्वगेभ्यो रुग्णान् क्वचित्पथि विलोक्य चिकित्सति स्म ॥ ३६॥
पश्यन् वने पशुगणं विकलं जरन्तम् आनीय घासमुदकं च ददौ कृपालु।
काले विलोक्य सकलानपि हृष्टपुष्टान् आलिङ्गनेन सुतरां ललयाञ्चकार ॥ ३७॥
अथैकदा तं सरितस्तटे स्थितं समेत्य तद्रामजनोऽब्रवीदिदम् ।
वयं प्रयातुं विपणिं समुद्यता भवांश्च साहाय्यकृदेतु नः कृते ॥३८॥
जनैस्तुकाराम इति प्रचोदितो भवत्विति दागनुमोद्य तैर्ययो।
अनीहमानः क्षणमप्यपासितुं जगौ हरेर्वमनि नाम पावनम् ॥ ३९॥
ो निरीक्ष्य वृद्धां पथिकेषु दुर्बलां द्विजां दयालुनिजगाद पुत्रवत् ।
मदीयपृष्ठेऽम्ब निषीद रक्षिता सुदुर्गमोऽध्वा विपणिश्च दूरतः॥४०॥
अथैवमेषा स्थविरा प्रबोधिताब्रवीच्छ्रम मा कुरु भद्र' मत्कृते।
मदर्थमत्रैव तु तैलमाहरेर्भवामि तेनैव कृतार्थिता त्वया ॥ ४१॥
भवत्विति द्रागुपगम्य वाटिका प्रतिश्रुतं तैलमुपाहरत्खयम् ।
तदेतदक्षय्यमभूदहो इति प्रहर्षमाणा स्थविराब्रवीजनान् ॥ ४२ ॥
निशम्य लोकाः परमाद्भुतां कथां तदीयहस्ते कलशान् निधाय च ।
प्रतिवमानेतुममुं ययाचिरे मिताणकैस्तैलमतीव पुष्कलम् ॥४३॥
पुनः स ओमित्यभिधाय मस्तके निधाय भाण्डानि ययौ तमापणम् ।
समागतं वीक्ष्य जनो वणिक्पथे निजे निजे कर्मणि तं न्ययोजयन् ॥४४॥
हयान् स केषांचिबंधयगृहेष्वथापरेषां वृषभानमोचयत् ।
प्रदाय तेभ्यश्च तृणोदकं मुदा जगाम देवालयमचनाय सः ॥ ४५ ॥
ततश्च तैलेन सुपात्रसञ्चयं वणिम्भिरापूर्य वितीर्य च क्रयम् ।
य! पुनर्निजनाममगादसौ मुनिर्वहन्बृहद्भाजनभारमश्रमः ॥ ४६॥
कुटुम्बसौख्यं विगणय्य नित्यशः श्ववृत्तिमालम्ब्य परोपकारिणे ।
चुकोप भर्ने भृशमावली ततो हितैषिणस्तामशिषन् सदुक्तिभिः॥४७॥
खगुणविभवाद्भद्रे साधुर्भवत्यति दुःखभाग वचनपटुतैवास्ते हेतुः शुकस्य हि बन्धने ।
धवलरुचिरं गोर्लाङ्गलं जनो द्यति कौतुकादिति सुवचनैः सान्त्वं कर्तुं वृथा किल येतिरे ॥४८॥
इति सौ० क्षमायाः कृतिषु श्रीतुकारामचरिते दिनचर्यावर्णनो नाम पञ्चमः सर्गः ।
कदाचिदथ साऽऽवली पतिमुवाच धर्मप्रिया प्रियाद्य समुपागता गुरुजनस्य पुण्या तिथिः।
न किश्चिदपि मन्दिरे ननु भवेत्कथं पूजनं यथाविधि हि पैतृकं प्रणिगदन्ति कार्य बुधाः॥१॥
जगाद स च मा कुरु प्रियतमे विषादं वृथा
वनं हि नचिरादितो हरितकाय गच्छाम्यहम् ।
विधाय पचनं ततः पितृगणं समाराधयेः
खयं तदवशेषितं प्रियजनैश्च भोक्ष्यामहे ॥२॥
इति स्वगृहिणीमसौ मृदुगिरा समाश्वास्य तां
गृहान्निरगमद्विभोलिमलनाम सङ्कीर्तयन् ।
जगाद स पदाम्बुजे तव निधाय सर्व भरं
स्थितोऽस्मि भगवन् हरे भुवि निरस्तचिन्तागणः ॥३॥
अथाध्वनि समुद्यतान् खनितुमेष केदारके
ददर्श पुरुषान् क्वचित्परमनुष्णमन्द क्रियान् ।
अमी च तमुपायन्नयि करोतु साह्यं भवान्
इति प्रणयतोऽर्थितः खनितुमुद्यतः सोऽभवत् ॥ ४॥
अथाल्पसमयोत्तरं स परिगृह्य धान्यं जनैः
प्रदत्तमभियान् गृहं मधुचषालमभ्रामयत् ।
ततः सपदि षट्पदाः पटलतो विनिष्क्रम्य तं
दंशुरतिनिर्भरं शिरसि वृन्दशः पातुकाः ॥ ५॥
स तानतिरुजाकृतोऽप्यवगणय्य धीराग्रणी
wचिन्तयदियं तनुः क्षणविनश्वरी नश्यतु ।
परोपकृतिरस्तु मे पितृदिनं हि सेयं तिथि
नेनु भ्रमररूपिणः पितर एव दृष्टा इमे ॥ ६॥
न यावदुदभावयन्मनसि वाक्यमेतादृशं
स तावदलिनां गणो गगनमुत्पपात क्षणात् ।
मुनिस्तदनु धान्यवान् गृहमुपागतः स्वां वधू
मुवाच पच धान्यतः पितृगणाय सद्धोजनम् ॥ ७॥
निधाय परिवेषितां तदनु भुक्तिपात्रद्वयी
मयाचत हरिं हठात्स किल भक्तिनम्रस्थिरः ।
विभो सह मयाशनं कुरु मुकुन्द नो चेदहं
चरनिरशनवतं परिजहामि तुच्छं वपुः ॥ ८॥
क्षणाञ्च ददृशे हरिः समुपकल्पिते विष्टरे
गृही च गृहदेवताप्यथ च सग्धिमाचेरतुः।
युगान्तरतपस्विनामसुलभोऽपि विश्वेश्वरः
कलौ भवति गोचरः परमभक्तिभाजां दृशः॥९॥
अथास्य मतिरुज्वला प्रतिभया चकासेऽअसा
ददर्श स च केशवं शयनगः क्षपायां स्वपन् ।
अभूत्तमनुगामुको विनुतनामदेवः कविः
शनैस्तद्नु शुश्रुवे प्रणयपूर्णवाणी यथा ॥ १०॥
अयि द्रुतसमुत्थितः शृणु वचस्तुकाराम भोः
स्थितोऽत्र मदुपासको महितनामदेवः कविः।
स्तुतिं स शतकोटिकां मन निबन्दुमात्तव्रतो
ऽप्यपूरितकृति हौ भुवमियं त्वया पूर्यताम् ॥ ११ ॥
प्रहर्षमतुलं गतो मुनिवरः क्षणादुत्थितः
समारभत शिक्षितुं सपदि बालबोधाक्षरम् ।
जुगुम्फ नचिरादसौ नवशती सुपद्यनजां
यदीयगुरुसौरभं भ्रमयति स्म भक्तालिनः॥१२॥
अभङ्गपदविश्रुतं रुचिरवृत्तमालम्ब्य स
प्रबन्धमुपचक्रमे रचयितुं हरिस्तावकः।
तदा हि वहति स्म वागमृतवाहिनी निर्झर
स्तदीयहृदयातिः सततभक्तिवेगोत्कटः ॥ १३ ॥
अथाध्यवसदेकदा क्वचन चिंच्चडाख्यं पुरं
महीसुरवरो महानभिधया हि चिन्तामणिः।
निशम्य परितस्तुकाप्रथमरामकीर्तिच्छटां
न्यमन्त्रयत भुक्तये विबुधमात्तकौतूहलः ॥ १४ ॥
मुनिश्च परिगृह्य तत्प्रणयमाप तस्यालयं ।
प्रगेतनविधि चरञ्जपपरस्तदासीद् द्विजः।
1 अभङ्ग is the name of a metre very frequently used in the marathi literature.
मुहूर्तमतिथिहावहिरलक्षितं तस्थिवान्
अबुध्यत जपान्तरे स्वजनमाक्षिपन्तं द्विजम् ॥ १५॥
विलोक्य न चिरान्मुनिर्बहिरुपागतं भूसुरं
पपात पदयोः क्षणादतिविनीतिमादर्शयन् ।
स दृप्तपृथिवीसुरः स्वमतिपावनं भावय
नपासरददूरतः सपदि चैनमाभाषयत् ॥ १६ ॥
कदा नु गृहमागतस्त्वमिह मे तुकाराम भो
जपन्निह यदा भवानुपवनं गतश्चेतसा ।
निशम्य स विलक्षितः कथमयं मदीयं मनः
प्रविष्ट इति चिन्तयन्पुनरभाषतैनं द्विजः ॥ १७ ॥
यदाह जनता भवान् हृदयमर्मवेदीति तदू
यथार्थ मिति संशयो न खलु लेशमात्रोऽपि मे ।
वदन्ति च जनास्त्वया वितनुते हरिभॊजनं
तदेतदहमद्भुतं समवलोकितुं कामये ॥ १८ ॥
अदापयत स द्विजस्तदनु पात्रमेकं मुनेः
स्वयं च समुपाविशत्करचतुष्टयं दूरतः।
अमार्गदथ भाजनद्वयमसौ मुनिर्देवयोः
स्वकस्य च हरेस्तथा द्विजवरस्य विघ्नेशितुः ॥ १९ ॥
उपागमय दैवतं द्विज तवेति संप्रेरितः
स विप्र उपहूतवान् गणपतिं निमील्याक्षिणी।
अनागतवति प्रभो चिरमसौ समाधौ स्थित
स्तथापि न हि देवता प्रतिबभौ जनस्याग्रतः ॥ २० ॥
मुनिर्निजतपोबलात्सततदिव्यदृष्टिः क्षणा
जगाद गृहिणं सखे शृणु विलम्बहेतुं विभोः ।
उपासकवरोऽपरः सलिलमृत्युवक्त्रस्थित
स्तमाह्वयदिभाननं स च गतो हि तत्रेश्वरः ॥ २१ ॥
अथैकघटिकोत्तरं भवनमाययौ मूर्तिमान
गणाधिपतिरुज्वलो लवणवारिसिक्ताम्बरः।
निमन्त्रय गृहागतामयि तवाधुना देवता
मिति द्विजवरोऽर्थितः प्रतिजगाद शङ्काकुलः॥२२॥
मुहूर्तमतिथिहावहिरलक्षितं तस्थिवान्
अबुध्यत जपान्तरे स्वजनमाक्षिपन्तं द्विजम् ॥ १५॥
विलोक्य न चिरान्मुनिर्बहिरुपागतं भूसुरं
पपात पदयोः क्षणादतिविनीतिमादर्शयन् ।
स दृप्तपृथिवीसुरः स्वमतिपावनं भावय
नपासरददूरतः सपदि चैनमाभाषयत् ॥ १६ ॥
कदा नु गृहमागतस्त्वमिह मे तुकाराम भो
जपन्निह यदा भवानुपवनं गतश्चेतसा ।
निशम्य स विलक्षितः कथमयं मदीयं मनः
प्रविष्ट इति चिन्तयन्पुनरभाषतैनं द्विजः ॥ १७ ॥
यदाह जनता भवान् हृदयमर्मवेदीति तदू
यथार्थ मिति संशयो न खलु लेशमात्रोऽपि मे ।
वदन्ति च जनास्त्वया वितनुते हरिभॊजनं
तदेतदहमद्भुतं समवलोकितुं कामये ॥ १८ ॥
अदापयत स द्विजस्तदनु पात्रमेकं मुनेः
स्वयं च समुपाविशत्करचतुष्टयं दूरतः।
अमार्गदथ भाजनद्वयमसौ मुनिर्देवयोः
स्वकस्य च हरेस्तथा द्विजवरस्य विघ्नेशितुः ॥ १९ ॥
उपागमय दैवतं द्विज तवेति संप्रेरितः
स विप्र उपहूतवान् गणपतिं निमील्याक्षिणी।
अनागतवति प्रभो चिरमसौ समाधौ स्थित
स्तथापि न हि देवता प्रतिबभौ जनस्याग्रतः ॥ २० ॥
मुनिर्निजतपोबलात्सततदिव्यदृष्टिः क्षणा
जगाद गृहिणं सखे शृणु विलम्बहेतुं विभोः ।
उपासकवरोऽपरः सलिलमृत्युवक्त्रस्थित
स्तमाह्वयदिभाननं स च गतो हि तत्रेश्वरः ॥ २१ ॥
अथैकघटिकोत्तरं भवनमाययौ मूर्तिमान
गणाधिपतिरुज्वलो लवणवारिसिक्ताम्बरः।
निमन्त्रय गृहागतामयि तवाधुना देवता
मिति द्विजवरोऽर्थितः प्रतिजगाद शङ्काकुलः॥२२॥
अलौकिकहविर्भुजे कथमुपास्यदेवाय मे
गणाधिपतयेऽर्पये नरपशूचितं भोजनम् ।
निशम्य वचनं यतिः पुनरुवाच लम्बोदरे
न भोक्तरि न भोजनं मम सुखाय कल्पेत भोः॥ २३॥
अथार्थयत तापसो गणपतिं निबद्धाञ्जलि
नमांसि रचये प्रभो वरद भक्तलोकप्रिय ।
विपगिरिविभक्षक श्रितजनेष्टसंदायक
प्रसीद् भवतारक प्रणतलोकसंरक्षक ॥ २४॥
इति स्तवनतोषितो गणपतिः पुरस्ताचल
नुपाविशदहो क्षणात्समुपकल्पिते विष्टरे ।
यतिश्च निजदेवतां मनसि चिन्तयन्नाह्वयत्
स चापि पुरुषोत्तमः स्मितमुखाम्बुजोऽदृश्यत ॥ २५॥
ततश्च सहभोजनं परिसमाप्य भक्तान्वितो
तिरोधिमुपजग्मतुर्युगपदेव देवावुभौ ।
विलोक्य परमाद्भुतं चिरतपःप्रभावोद्गतं
पपात स पदाम्बुजे मुनिवरस्य चिन्तामणिः ॥ २६॥
निरस्तदुरहंकृतिनतशिरा विवर्णाननो
निपीड्य स महात्मनः पदयुगं ययाचे क्षमाम् ।
यतिस्तु चकितोऽब्रवीद्विनयतस्तमुत्थापयन् सखे
वृषलजं कथं स्पृशसि नैष धर्मः स्मृतः॥२७॥
मयैव हि भवान सदा भवति पूजनीयः परं
जघन्यकुलजोऽस्म्यहं मम गतिर्बहिर्नित्यशः।
न नाममहिमास्ति भो न च यशस्वितागौरवं
सदास्मि निजधर्मभाङ् न हि विषादलेशोऽपि मे ॥२८॥
तुरीयकुलसम्भवः परिचरेत्तदुच्चत्रिक
सदेति हि सनातनः प्रववृते विधिवैदिकः ।
न पीडयति मां मनागपि विभोरिदं शासनं
द्विजाः किल नरोत्तमाः प्रकृतिसिद्धसौगुण्यतः ॥ २९ ॥
प्रतिक्षणमुदीरयन् भगवतः शुभाख्यां जनः
करोति यदि भोजनं सह विभुः स्वयं सेवते ।
स्मृतैव कुलदेवताश्रयति भक्तिमत्संनिधि
द्वयोरपि यदन्तरं तदपि लीयते लीलया ॥ ३०॥
अचिन्त्यमहिमा विभोर्य दिह दोग्धि वध्यापि गौ
रिदं परममद्भुतं स्मृतिपथान्न मे नश्यति ।
त्वदेकशरणाय मे वितर देव संदर्शनं
न चातकमुपेक्षते जलधरो हि तृष्णाकुलम् ॥ ३१ ॥
इति प्रमुदितात्मनो मुनिवरस्य वाम्बुजा
निरर्गलसरस्वती निरसरत्सुकाव्यात्मना ।
बृहस्पतिमुखोद्गतैरिव वचोभिरस्योज्वलै
रपारमतिविस्मयं कलयति स्म चिन्तामणिः ॥ ३२॥
उच्छासस्तुच्छसंसृत्यविरत विसरगाढतापार्दिताना
मुद्धारस्तामसान्धःप्रपतितविलपन्नास्तिकान्धवतानाम् ।
निर्भासः कोटिजन्मार्जितदुरितगणध्वान्तविध्वंसिभक्तेनिष्यन्दः
कोऽपि वाचाममृतरसमयः प्रादुरासीन्मुनीन्दोः॥३३॥
इति सौ० क्षमायाः कृतिषु श्रीतुकारामचरिते हरिगणेशभोजनो नाम षष्ठः सर्गः ।
आसीदशो द्विजः कश्चिद्देशपाण्डेसमाह्वयः।
यश्चचार तपस्तीवं सर्वशास्त्रोपलिप्सया ॥१॥
उपवासवतं चक्रे प्रयतो दश वासरान् ।
ददर्श च हरिं स्वप्ने यस्तमेवं समादिशत् ॥२॥
आलिन्दीनगरं याहि केन्द्रभूमि तपस्विनाम्।
तत्र पूजाजपध्यानैर्लप्स्यसे खमनोरथम् ॥ ३॥
अथ ज्ञानेश्वरस्यासौ समाधिस्थानसंनिधौ ।
चचार द्वादशाहानि तपस्तीत्रमुपोषितः॥ ४॥
अथाश्रावि पुनस्तेन कोऽपि दिव्यो निशि ध्वनिः।
इतो याहि तुकारामं तवाभीष्टं स दास्यति ॥ ५॥
शूद्रोपसर्पणं नेच्छन्नपि तं गतवान् द्विजः।
श्रुत्वास्य महतीमिच्छां ययाचे स हरिं मुनिः॥ ६॥
अशोऽहं भूसुरं शास्त्रं शिक्षयेयं कथं विभो।
सर्व कर्णे मम ब्रूहि वक्ष्यामि तदहं पुनः॥ ७ ॥
अथ तस्मै ददौ मालां सुमनाः सुमनोहराम्।
एकादशानां पद्यानां नालिकेरफलोपगाम् ॥ ८ ॥
द्विजः प्रकुपितोऽवादीद्धिगिदं प्राकृतं वचः।
संस्कृतं शास्त्रविज्ञानं लिप्सितं मे न चेदशम् ॥९॥
इति पद्यानि धिकृत्य दर्पण निरगाद्विजः।
आलिंदी च पुनः प्राप्य चकारोग्रतरं तपः॥ १०॥
शुश्रुवेऽथ पुनर्वाणी दिव्या सम्बोधयन्त्यमुम् ।
इदं ते संशयालुत्वं विपाकः पूर्वकर्मणाम् ॥ ११॥
अयि जडमते स्थित्वा कल्पद्रुमस्य तले शुभे
कथमपि फलं लब्ध्वाप्येतत्तिरस्कृतवानसि ।
मधुरवचनैः पद्यनग् या बुधेन विनिर्मिता
निखिलनिगमश्रेणीसारं बिभर्ति निबोध ताम् ॥ १२ ॥
वास वाघोलिपुरे द्विजन्मा रामेश्वराख्यः श्रुतिपारदृश्वा ।
श्रुत्वा तुकाराममुनेः स कीर्तिं द्वेषाग्निनातप्यत निर्विवेकः॥१३॥
अथाशु निर्वासयितुं मुनि तं न्यवेदयद्राजकुलेऽस्य दोषान् ।
यथैष शूद्रः पठति श्रुतीश्च धर्मध्वजी वञ्चयते च विप्रान् ॥ १४ ॥
निशम्य निर्वादमिमं प्रकोपी धर्माधिकृतस्तुविवेकशून्यः ।
निष्कास्यतामेष निगृह्य जाल्मः पुरादिति ग्रामपमादिदेश ॥ १५॥
ततस्तुकाराम इदं विदित्वा रामेश्वरं सान्त्वयितुं जगाम ।
आक्रोशदुच्चैः स तु भूमिदेवो व्यपेहि धिक्कीर्तनदाम्भिकं त्वाम् ॥१६॥
युष्माकमाज्ञां शिरसा वहामि द्विजो हि साक्षाद्भुवि विष्णुमूर्तिः।
इति प्रतिश्रुत्य तपोधनस्तं पप्रच्छ नम्रः परिशुद्धचेताः॥१७॥
किं भद्र कुर्यां वद् सर्वपद्यैर्भक्तस्य विष्णुस्तवनात्मकै ।
उवाच विप्रः क्षिप तानि नद्यामोमित्युदर्याथ मुनिर्जगाम ॥ १८ ॥
आसाद्य देहूं हरिमन्दिरस्थः संबोधयन्नीश्वरमित्यरोदीत् ।
क्षिपामि हा देव सरिजलेऽद्य त्वदाज्ञया निर्मितपद्यगुम्फम् ॥१९॥
इति प्ररुद्याथ पटञ्चरेण निबध्य पत्राणि शिलासमेतम् ।
संकीर्तयन्नाम हरेरनिन्द्यस्तटात्तटिन्याः सलिले निरास्यत् ॥ २०॥
जहास लोकः स किलाद्य शूद्रः पक्षीव जातः प्रविलूनपक्षः।
रामेश्वरेणाशजनस्य मोहो निरास्यत ध्वान्तमिवारुणेन ॥ २१॥
तस्थौ तुकारामयतिर्दिनानां चतुष्टयं ध्याननिमग्नचेताः।
अनेडमूको वचनैः खलानां प्रताड्यमानोऽपि न वेदनाशः ॥ २२ ॥
निनिन्दुरन्येऽक्षिपदेष नद्यां पितुः पुरा लेख्यधनं समस्तम् ।
सम्प्रत्यपि स्वीयधनायमानं सुपद्यजातं च पशुनराणाम् ॥ २३ ॥
इत्थं वचोभिर्विषनिर्विशेषैर्हतः स मानी व्यथितो बभूव ।
निषद्य बाह्ये हरिमन्दिरस्य श्रीपाण्डुरङ्ग समुपाजुहाव ॥२४॥
एकं वचो देव मया लप त्वं न यावदत्रैव तनुं त्यजेयम् ।
अदर्शने त्वत्पदपद्मयोर्मे वरं विनाशो न तु देहरक्षा ॥ २५॥
एतावदुक्त्वा विरतस्तपस्वी निमीलिताक्षः सुबहून्यहानि ।
निश्वासनिद्राशनपानहीनो विनिश्चलःप्रेत इव स्थितोऽभूत् ॥ २६॥
तत्रान्तरे पुण्यपुरी गमिष्यन् रामेश्वरः शङ्करदर्शनाय ।
म्लेच्छर्षिराजस्य सरो जगाहे मार्गे स चैनं कुपितः शशाप ॥२७॥
यदत्र धिक् पान्थ जलाशयं मे प्रविश्य संदूषितवानपस्त्वम् ।
तदात्मनोऽन्तवलिताग्निकीलैरापादचूडं भव दग्धदेहः ॥ २८ ॥
शापाक्षरोच्चारणमात्र एव ज्वालावलिाप कलेवरान्तः।
दंदह्यमानश्चलितः स्थितो वा न निर्वृतिं स क्षणमप्यवाप ॥ २९ ॥
ऊचुर्जनास्तं प्रतिपत्तिमूढ़ विपत्तवेयं जगदीशकोपात् ।
ततः स आलिंदिमुपेत्य मूर्तेः श्रीज्ञानदेवस्य पुरोऽभिध्यौ ॥३०॥
शुश्राव मध्ये च नभःप्रवृत्तां सरस्वतीमित्थमुदीरयन्तीम् ।
इतस्तुकाराममुपेहि साधुं क्षमा च याचख विनीतभावः ॥ ३१॥
तस्यापचारं कृतवानसि त्वं पुरा हरेभक्तिमतांवरस्य ।
तथापि भावी त्वयि स प्रसन्नः स्मरन्ति पूर्वापकृतं न सन्तः ॥३२॥
निवर्तते सत्वरमेव पीडा महात्मनः संगमुपेयुषस्ते ।
अपघसे च प्रकृति पुरा स्वामार्तोपकारः प्रकृतिर्मुनीनाम् ॥ ३३ ॥
ततः स विप्रः कलितानुतापो लिलेख पत्रं मुनयेऽल्पमेवम् ।
किं वच्मि साधो चरितापराधः क्षमैव मूर्ता त्वमसि प्रमाणम् ॥३४॥
इति द्विजस्य प्रतिपद्य पत्रं दयाईचेताः स मुनिर्बभूव ।
नमेषमात्रेण च पद्ययुग्मं विलिख्य दूतस्य करे व्यतारीत् ॥ ३५॥
अरिरपि भवेत्सन्मित्रं ते मनो यदि निर्मलं
उरगशरभौ न त्वां हिंस्तः स्थितावपि संनिधौ।
पिशुनकुवचोजालं भायाद्वचः करुणामयं
प्रतिभयमहादावज्वाला भवेदपि शीतला ॥ ३६॥
यदि भगवतः प्रीतिर्दिष्ट्या त्वया प्रतिपद्यते
पशुकुलमपि क्रूरं स्निोत्त्वयि प्रियवन्धुवत् ।
स्वयमनुभवाज्ज्ञातासि त्वं यदुक्त मिहाखिलं
निगद ति तुकारामः सत्यं सुधीरमिदं वचः ॥ ३७ ॥
निपीय पद्यामृतमस्य विप्रस्तदीयसौजन्यसुविस्मितः सन् ।
जवेन देहूपुरमुच्चचाल समुत्लुकस्तन्मुनिदर्शनाय ॥ ३८॥
प्रविश्य देवालयमग्रजन्मा दण्डप्रणामं मुनये चकार ।
निपीड्य तत्पादसरोजयुग्मं महाशयत्वं प्रशशंस साधोः ॥ ३९ ॥
ततस्तुकाराम उवाच नम्रः शूद्रोऽस्मि जात्या त्वमसि द्विजेन्द्रः ।
अजस्रमिच्छामि तव प्रसादमागम्यतामत्र पुनः पुनश्च ॥ ४०॥
नाहं गमिष्यामि पुनः स्वगेहं सदा भवत्संनिधिमाश्रयिष्ये ।
इति द्विजः साभिनिवेशमुक्त्वा निनाय कालं मुनिपादमूले ॥४१॥
अथैकदा ध्याननिमग्नचेतसः प्रादुर्बभूवास्य पुरो जनार्दनः।
निधाय हस्ताम्बुजमस्य मस्तके वाक्यामृतेनाभ्यषिचत्तपखिनम् ॥ ४२॥
यथेतरस्या मम भक्तसन्ततेः शरण्यतामेव गतोऽस्मि सन्ततम् ।
तथा तुकारामतवापि वत्सल स्थितोऽस्मि संरक्षणनित्यदीक्षितः॥४३॥
अदर्शि तस्यां निशि केशवः पुरः पुरीनृणां स्वप्नगतोऽब्रवीच्च तान् ।
मया तुकारामसुपथपत्रकबजः समस्तोऽपि सुरक्षितः स्थितः॥ ४४ ॥
इन्द्रायणीरोधसि गच्छथ प्रगे पत्राणि सर्वाणि विलोकयिष्यथ ।
श्रुत्वा जनस्तद्वचनं प्रहर्षितस्तस्थौ प्रभातागमवीक्षणोत्सुकः ॥ ४५॥
दिनमणिरथ प्राची यावन्न चुम्बितुमागतो
लघु पुरजनस्तोमस्तावन्नदीमुपसेदिवान् ।
समाहितमनेनिःशेषं च प्रबन्धसमञ्चयं
विमलसलिले प्लावं प्लावं चलन्तमलोकत ॥ ४६॥
तदनु तरुणः कश्चिन्नीरे निशाम्य निधि कवे
रहमहमिकाक्रान्तो नद्यां पपात नदीष्णराद।
झटिति च जलादाकृष्येतं मुनेर्निधौ करे
स च भगवतस्तुष्टावोच्चैर्विलासमहाद्भुतम् ॥ ४७ ॥
इति सौ० क्षमायाः कृतिषु श्रीतुकारामचरिते नष्टप्रत्यागमो नाम सप्तमः सर्गः ।
कश्चित्पुरा चिंच्वडमध्युवास मुम्बाजिनामा द्विजवंशजातः ।
विरज्य संसारसुखोपभोगाद्देहूपुरे स न्यवसच्चिराय ॥ १॥
यथा यथा वृद्धिमियाय राष्ट्रे यशस्तुकाराममुनेरमोघम् ।
तथा तथेोपहतः स विप्रो दिद्वेष तं हीनकुलत्वहेतोः ॥२॥
मुनेः कदाचिन्महिषी स्वगोष्ठाद्ययौ प्रमादाद्विजशाकवाटीम् ।
तत्रत्यशाकं त्वरया चरन्तीं गाढप्रहारैः प्रजहार विप्रः॥३॥
उद्यानमार्ग शितकण्टकानां गणैर्विकीर्ण स विधाय नीचः ।
चकार देवालयसंप्रवेशं दुरासदं भक्तजनस्य गन्तुः ॥ ४॥
एकादशीपुण्यदिने समागात्पुरं समूहः किल यात्रिकाणाम् ।
तदा तुकाराम उपेत्य रोधं निरस्य मार्ग सुगमं चकार ॥ ५॥
रुषा ज्वलन् भूरि स विप्रबन्धुर्मुनि निगृह्य प्रजहार दुष्टः ।
हस्तेन पादेन च ताडयन् स श्रान्तो नितान्तं विरराम पापात् ॥६॥
स तु प्रशान्तः सहते स्म सर्व संकीर्तयन्नाम हरेस्तपखी।
व्यथां च गुर्वी तृणवद्विधूय सुरालयं सायमियाय जोषम् ॥ ७॥
तत्र द्विजं प्रागिय नावलोक्य प्रतीक्ष्य तस्यागमनं चिराय ।
स्वयं तमाह्वातुमगात्प्रहारक्षतात्मदेहोऽपि तदीयगेहम् ॥ ८॥
स्थितो निवासादहिरेव तस्य शृण्वन् सुदीर्घातरवं तदन्तः।
प्रविश्य विमं शयने ददर्श प्रताडनायासरुजा खरन्तम् ॥ ९॥
उपेत्य शय्यां स मुनिः कृपालुर्विस्मृत्य विप्राचरितापचारम् ।
सुखोपचारैर्लघयंस्तदाति सर्वाङ्गसंवाहनमाचचार ॥ १०॥
अपूर्वसौजन्यमवेक्ष्य विप्रस्नपातिरेकाभवत्स मूकः।
निपत्य भूमौ मुनये प्रणम्य सुरालयं प्राञ्जलिरन्वगात्तम् ॥ ११ ॥
अथास्य कीर्तिप्रसरं निशम्य प्रतापवान् राष्ट्रपतिः शिवाजिः।
दिक्षुरेनं प्रजिघाय तस्मै सितातपत्राश्वकरप्रदीपान् ॥ १२ ॥
नृपालसंदेशहरः समाधौ स्थितं मुनिं लोहपुरे ददर्श ।
सन्मानचिह्नानि निदेशपूर्व समर्पयामास च तत्पुरस्तात् ॥ १३॥
अवाप्य संदेशमिमं नृपागतं लिलेख पद्यात्मकमुत्तरं शुभम्।
दौ च दूताय स पद्यमालिकां धरापतिं यत्र किलेथमूचिवान् ॥१४॥
अयि नरपते वाजिच्छत्रप्रदीपविजृम्भणा
न खलु विषयव्यावृत्तानां मनागपि मादृशाम् ।
निखिलनृपसम्मानोद्वन्धाद्विमोचय मां हरे
किमिति विषमे संसाराब्धौ निमजयसि प्रभो ॥ १५॥
सुखमगणयन्नन्विष्यामि क्वचिद्विजनस्थलं
निजजनमपि त्यक्त्वा दूरे निवस्तुमपेक्षया ।
यदुपरि मम द्वेषः शौरे तदेव ददासि मे
कथमकरुणः सञ्जातोऽसि त्वदेकसमाश्रये ॥ १६॥
दिदृक्षुरसि मामिति स्फुटमिदं त्वदामन्त्रणा
जनेश्वर जहीहि मां जटिलकानने जीवितुम् ।
निरम्बरमिदं वपुर्मम रजोभिराषितं
न योग्यमवलोकितुं भवति भाग्यभाजा त्वया ॥ १७ ॥
वहन्ति कृशतां भृशं बलविहीनगात्राणि मे
विभर्ति महतीं मुखं निरशनवतात्पाण्डुताम् ।
कथं न्वशुभदर्शनं तव सुखाय कल्पेत भो
स्त्यजेक्षणकुतूहलं विसृज मामिहैव प्रभो ॥ १८ ॥
शय्या शिला शैलगता प्रिया मे नभः किलोज़ पटलं प्रशस्तम् ।
अपेक्ष्यतेऽन्नं यदि नित्यवृत्त्यै दाति लोको मम तद्यथेष्टम् ॥ १९॥
अवाप्य राजा प्रतिवाक्यमेतच्चित्रीयते स्म व्रतिनः सुवृत्त्या ।
तहर्शनोत्कण्ठितचित्तवृत्तिः स्वयं ययौ लोहपुरं जवेन ॥२०॥
अमोघचारित्रमुपेत्य नम्रश्चक्रे प्रणाम मुनये नृपेन्द्रः।
सुवर्णमुद्रापरिपूर्णपात्रं ददौ च तस्मै तुलसीपवित्रम् ॥ २१ ॥
तदेतदालोक्य मुनिर्बभाषे किं नाम राजन करवाणि हेम्ना।
अहार्यवित्तं मम पाण्डुरङ्गो न चैहिके वस्तुनि मेऽभिलाषः ॥ २२॥
दिवाकरे दीव्यति किं प्रदीपैर्हिमोपचारैः खलु किं हिमाद्रेः।
मल्लोष्टतुल्योमम हेमराशिःश्रेयस्करं ते शृण वच्मि किंचित् ॥२३॥
भूषा तवैका तुलसीनगास्तामेकादशी च व्रतमेकमेव ।
जहीहि सर्व विषयाभिषङ्गं हरिर्गतिस्ते भव तस्य भक्तः॥ २४ ॥
श्रुतोपदेशः प्रदे शिवाजिः सुवर्णमुद्राः सकला द्विजेभ्यः ।
निनाय रात्रि मुनिसन्निधाने शृण्वन् हरेः पावनकीर्तनानि ॥ २५॥
स्मारं स्मारमिदं वुधस्य वचनं भूपः प्रहृष्टान्तरः
स्थातुं तत्र मर्ति चकार विपिने संत्यज्य राज्यश्रियम् ।
आप्तानां सविधे समर्प्य मुकुटं प्रास्थापयत्तान् पुरी
सानन्दं दिवसान् निनाय कतिचिद्भक्तालिमध्ये स्थितः॥२६॥
विरक्तमाकर्ण्य नृपस्य माता कुमारमुद्धान्तमना व्यलापीत् ।
हा दुर्विधे राज्यविनाशहेतुर्जातस्तुकाराममुनिः कथं नः ॥२७॥
सा राजधान्याः सपदि प्रयाता लोहोपुरं सत्वरमाससाद ।
निपीड्य साधोश्चरणारविन्दं धीरा तमूचे परितप्यमाना ॥ २८॥
राज्याधिपत्यं जहतात्मजेन व्यधायि राज्यस्य महाननर्थः ।
अपत्यहीनः खलु मे कुमारः कः शासिता स्यादपरो महात्मन् ॥२९॥
यतिर्वचोभिर्मधुरैरुदारः समादधानः प्रसुवं नृपस्य ।
क्रमेण रात्रौ हरिकीर्तनान्ते शिवाजिमित्थं समुपादिदेश ॥ ३०॥
यदीच्छसि त्वं तरितुं भवाब्धि भव स्वधर्माचरणे प्रसक्तः।
जहात्यपः किं पवनाय मत्स्यः खगोऽपि किं मुञ्चति खं जलाय॥३१॥
सांनामिकाश्वः कृषये न योज्यः कृषीवलोक्षा न च योधयोग्यः।
धात्रा धरित्री परितः पयोधि निधाय धात्रीधृतये कृतोऽद्रिः॥३२॥
देवस्य सृष्टिं नियतामवेहि धर्मोऽपि तेनैव कृतो न लयः ।
विप्रस्य तावच्छृणु वक्ष्यमाणान राजन्यलोकस्य च मुख्यधर्मान् ॥३३॥
आदौ द्विजन्मा श्रुतिशास्त्रविद्यामधीत्य षट्कर्मरतो गृही स्यात् ।
उपेत्य वार्धक्यमलौ विरक्तः संसाधयेन्निर्जयमिन्द्रियाणाम् ॥३४॥
राजन्यः प्रथमं निजारिविजयं कृत्वा स्वधर्म चरेत्
सर्वप्राणिगतं परात्परतरं पश्येद् द्विजान्मानयेत् ।
नो हिंस्यात्कमपि त्रसजनमवेत् सत्यं वदेत्सर्वदा
दीनानां शमयेक्षुधामविरतं ध्यायेच्छ्रियो वल्लभम् ॥ ३५॥
एवं शुभ्रगुणैर्युक्तः क्षत्रो वसति निर्भयः।
किमस्य वनवासेन गृहमेति स्वयं हरिः॥ ३६॥
मुनेः शिवाजिः परिगृह्य वाचं मुमोच हर्षाश्रुझरी कृतज्ञः।
जगाद नम्रा मुनिमस्य माता कथं महात्मन्ननृणा तव स्याम् ॥ ३७॥
महीपतिः स्वीयपुरीं गमिष्यन् वरं वृणीते स्म तपस्विवर्यात् ।
प्रदेहि राष्ट्रस्य शुभाय पूपं फलं च मे पुत्रसुखोपलब्ध्यै ॥ ३८॥
यथेप्सितं तद्वितयं च तस्मै ददौ तुकाराममुनिः प्रहृष्टः ।
ततस्तमाशीर्वचसाभिवर्ध्य विसर्जयामास पुरी जनन्या ॥ ३९ ॥
इति सौ० क्षमायाः कृतिषु श्रीतुकारामचरिते शिवाजीसमागमोनामाष्टमः सर्गः ।
दिने दिने वृद्धिमियाय संख्या कलेच चान्द्री यतिवर्यभाजाम् ।
द्विषोऽपि मित्राणि बभूवुरस्य क्षमेव जैत्रो न गुणः क्षमायाम् ॥ १॥
अथैकदा कोऽपि महान् द्विजन्मा वेदान्तमुद्दिश्य नवप्रणीतम् ।
प्रवन्धमानीय मुनेः सकाशे तद्वाचनायानुमतिं ययाचे ॥२॥
तथेत्यनुज्ञाय मुनिः स्वदेहमापादशीर्ष घनकम्बलेन ।
प्रच्छाद्य मौनेन सुखोपविष्टः पृष्टोऽभवत्तेन महीसुरेण ॥ ३॥
प्रच्छन्नगूढं किमिति स्थितोऽसि त्रस्तोऽसि किं शीतरुजाप्रसंगात् ।
मुनिश्च तस्मै प्रतिवाक्यमूचे विक्षेपमिच्छामि न बाह्यतोऽहम् ॥ ४॥
ततश्च होरायधि पठ्यमाने ग्रन्थे महोत्साहवता द्विजेन ।
पिधाय कर्णौ स्थितवान्मुनीन्द्रो निष्पन्दविष्टब्ध इघाचलेन्द्रः ॥५॥
अथ द्विजन्मा पठनावसाने कुतूहलात्कम्बलमुजहार ।
तं वीक्ष्य चित्रार्पितमूर्तितुल्यं चित्रीयमाणश्च विलक्षितात्मा ॥ ६॥
कुतस्त्वया व्यर्थमियञ्चिरं मे कालो व्यपासीति रुषा जगर्ज ।
मुनिस्तमूचे श्रवणं विषं मे जीवेश्वरैक्यप्रतिपादनोक्तेः ॥ ७॥
भक्तस्य च स्वस्य च भेदशंसी विधिर्विधात्रा नियतो व्यधायि ।
देवखरूपं विदुषापि शक्तिर्दैवी समग्रा न कदापि लभ्या ॥ ८॥
सृष्टिस्थितिध्वंसकरी तु शक्तिर्महामहिम्नोऽस्य विभोरपारा ।
सस्यन्तरे स्यात्कथमैक्यवार्ता वेदान्तघोषः श्रवसोः कठोरः ॥९॥
महाप्रभावं परमेश्वरं यः श्रद्धाय भक्तोऽर्चति नम्रनम्रः।
त्रिमूर्तितादात्म्यगुणोपलब्ध्यै कदाप्यसौ न स्पृहयेन्मनुष्यः ॥ १० ॥
अथानुगाः केचन सप्त तीर्थान्यालोकितुं कौतुकमाधानाः ।
मुनि तुकाराममुपेत्य नम्राः प्रास्थानिक मङ्गलमार्थयन्त ॥ ११॥
तान् वर्धयित्वा शुभशंसनाभिर्दत्वा च तुम्बीफलमेष तिक्तम् ।
प्रक्षालनीयं तदिदं पवित्रैस्तीर्थोदकैरित्यवदद्विशेषम् ॥ १२॥
निर्वर्त्य यात्रां स्वपुरं निवृत्ताः सन्तर्पणं ते खजनस्य चक्रुः।
तदातिथिभ्यः परिवेष्यतां भोस्तुम्बीति शिष्यान्मुनिरादिदेश ॥१३॥
आस्वाद्य तुम्बीशकलानि लोकः सुविस्मितः सन्मुनिमन्वयुङ्क्त ।
पूतापि तीथैर्निजतिक्तभावं कथं महात्मन्न जहाति तुम्बी ॥ १४ ॥
प्राह व्रती नान्तरदोषशुद्धिर्वाह्योपचारेण कदापि शक्या ।
न तीर्थयात्रादिकमात्मशुद्धिं शक्नोति संसाधयितुं मुमुक्षोः ॥ १५॥
प्रभुः शिवाजिर्मुनिमेकदैनं प्रवासिनं पुण्यपुरे दिदृक्षुः ।
जगाम सामान्यसुकल्यवेषो मितानुगः पूर्णपवित्रपाणिः ॥ १६ ॥
मुनिः स्वपादाम्बुजयोः पतन्तं शुभाशिषा भूपतिमभ्यनन्दत् ।
अथोपवेश्योत्तमविष्टरे तं प्रचक्रमे श्रीहरिकीर्तनानि ॥ १७ ॥
तत्कालमासीद्यवनाधिकारी चाखन्पुरे हैंदवराष्ट्रशत्रुः ।
स च स्वसैन्यं प्रजिघाय गुप्तं बलात्सजीवग्रहणाय राज्ञः ॥ १८ ॥
इदं रहश्चारमुखाद्विदित्वा झटित्युदस्थाद्गमनाय भूपः ।
संक्षोभमीयुर्मिलिताः समस्ता हरि मुनिः प्रार्थयितुं प्रवृत्तः ॥ १९ ॥
न मे भयं किंचिदपीश मृत्योः परं त्विमान् पाहि हरे भयार्तान् ।
एतावति व्याहृतमात्र एव स्फुटाक्षराश्रूयत वाङ् नभस्तः॥ २० ॥
अलं विकल्पैस्त्यज वत्स खेदं प्रवर्ततां नित्यविधिस्त्वदीयः।
प्राणः किलाहं जगतः स्थितोऽस्मि त्राणाय शश्वत्परितः शिवाजिम् ॥२१॥
अथ स यवनः सैन्योपेतः स्वयं सुरमन्दिरे
प्रसभमपतच्छयेनापातं शतध्यमितायुधः।
सदसि शतशस्तत्रासीनां शिवाजिसमाकृति
नृगणमभितः पश्यन्भ्रान्तो मुहूर्तमवस्थितः ॥ २२॥
एकस्तदाकारसमानमूर्तिर्भयादिवोत्थाय पलायमानः।
अनुद्रुतोऽभूधवनाश्ववार्यावन्महारण्यमदर्शि मार्गे ॥ २३ ॥
तत्रान्वधावन् यवनाः प्रविष्टं होरात्रयं भूपतिरूपतुल्यम् ।
तावच्छिचाजिः सुखमास्त शृण्वन् विष्णुस्तुति देवगृहे विशङ्कः ॥२४॥
ततस्तपस्वी भजनावसाने नृपस्य रक्षामनुसंधानः।
आनन्दबाष्पं व्यसृजद्विनम्नः श्रीपाण्डुरङ्गस्य पदान्जमूले ॥२५॥
निस्तारमत्यद्भुतमेवमाप्तो मुनेः प्रभावोऽयमिति प्रतीतः ।
नृपो गमिष्यन्निजराजधानी प्रसादचिह्न स यतिं ययाचे ॥ २६ ॥
स च क्षितीशाय ददौ स्वहस्ताद्विस्रंभिणे वाजिपुरीषपिण्डम् ।
भूपस्तमादाय मुदा प्रतस्थे मुनिश्च लोहपुमाससाद ॥ २७ ॥
निर्जित्य सोऽभ्यन्तरशत्रुषकं दिने दिनेऽल्पाभ्यवहारसेवी ।
हरिं प्रतिग्रासमुपायंश्च शरीरयात्रामकरोद्रतस्थः ॥ २८ ॥
ग्रामान्तरं यान्तमवेक्ष्य पौराः पप्रच्छुरेनं क्व गमिष्यसीति ।
स चापि वैकुण्ठमितिब्रुवाणः स्वैरं हि याति स्म नदीवनाद्रीन ॥२९॥
क्रमात्तदीयप्रतिभाप्रकाशः समुज्ज्वलो विस्मयमाततान ।
विपक्तिमज्ञानगतिः स पद्यैर्व्यवाहरत्सार्धमहो जनेन ॥ ३०॥
सिद्धोपमख्यातिमसौ दधानः सुरालयं प्राप्य हरिं प्रपन्नः।
पापिष्ठमात्मानमरं निवेद्य क्षमस्व देवेति विभुं ययाचे ॥ ३१ ॥
अथाध्वना सञ्चरमाण एष क्वचिद्ददर्शाण्डजवृन्दमेकम् ।
विहंगमास्ते मनुजं विलोक्य त्रस्ताः खमुड्डीय गता द्रुमान्तम् ॥ ३२॥
व्यचिन्तयत्साधुरहो किमेतद् दृष्दैव मामुड्डयिताः शकुन्ताः ।
पश्यामि सर्व जगदात्मभूतं कुतो हि मद्विभ्यति पक्षिणोऽमी ॥३३॥
शपे त्रिसत्यं मनसापि हिंसा न प्राणिमात्रस्य मया ह्यकारि ।
प्रायेण जन्मान्तरदुष्कृतानां फलोन्मुखानां फलमध दृष्टम् ॥ ३४॥
त्यक्त्वा स्ववंशं वजनं च सर्व देहोऽपि देवाय निवेदितो मे।
त्रासःखगानां यदि वञ्चकं मामाख्याति हा हन्त तपो विनष्टम् ॥ ३५॥
एतैर्विकल्पैर्विमनायमानः क्षणं स तूष्णीमभवन्मुनीन्द्रः ।
ततः समुद्रुध्य समाहितात्मा रुद्न् हरिं पापहरं बभाषे ॥ ३६ ॥
अन्धः खनेतारमिवाध्वनीनः शिवे पथि त्वामवलम्बमानः ।
चरामि यत्नेन हरे करं मे मा मुञ्चमा मुञ्च दयापयोधे ॥ ३७॥
प्रसीद पापं जहि मे समस्तं न कोऽपि जन्तुर्भयमेतु मत्तः।
इत्थं तुकाराम उदीर्य वाचं निष्पन्दनिःश्वास इवावतस्थे ॥ ३८ ॥
तावञ्च सर्वे नमसङ्गमास्ते महीरुहाग्रात्सहसावतीर्य ।
तदीयदेहं परितश्चरन्तः शिरोभुजांसे शनकैर्निपेतुः॥ ३९ ॥
विलोकयञ् जङ्गमवृक्षमेनं पतत्रिपुष्पैः परिशोभमानम् ।
अदृष्टपूर्व हृषितोऽवतस्थे जनः समन्तात्किल बद्धदृष्टिः ॥ ४० ॥
श्रीजानिः क्वचिदेकदा परिवृतो देवर्षिसिद्धामरैरारूढर्निजवाहनानि गरुडादेहूपुरेऽवातरत् ।
आसीनं सरितस्तटे किल मुनि स्पृष्ट्वाऽब्रवीद्विस्मितं वैकुण्ठं मम भाति वत्स विरसं कान्तारवत्त्वां विना ॥४१॥
देवाः पञ्च दिनानि तत्र विदधुः श्रीपाण्डुरङ्गोत्सवान् स्वर्गातटसन्दरे बहविधानिन्द्रायणीरोधसि।
अन्येषां दृगगोचरा अपि मुनेईश्या बभूवुः सुरा दिव्यानन्दझरीभरः परिसृतो ग्रामावनौ सर्वतः॥ ४२ ॥
केनाप्यन्तरभिप्रणुन्नमनसः शान्तप्रहृष्टाः स्वयं पौराः फाल्गुनहोलिकोत्सवमपि त्यत्वा समेयुस्तटम् ।
शृण्वन्तश्च मुनेरपूर्वरचनाः पद्यात्मिकाः शोभनाः विस्मृत्यानविहारपानशयनं तत्रैव तृप्ताः स्थिताः ॥ ४३ ॥
पञ्चाहेऽथ विनिर्गते मुनिवरं श्रीपाण्डुरङ्गोऽब्रवीद् वैकुण्ठावनिमेहि वत्स वसतिस्तत्रास्ति ते शाश्वती ।
इत्युक्तो मुनिराह पण्ढरपुरी वैकुण्ठभूरस्ति मे सान्निध्यं तव नित्यमत्र भवतु प्रेमैकसार प्रभो ॥४४॥
देवः प्राह भवातिथिर्मम सकृद्धीक्षख मे वैभवं प्रत्यक्षीक्रियतां त्वयैव महिमा क्षीराम्बुधौ वत्स मे।
नित्यध्यानजपार्चनैरपि भुवि प्राप्या न तृप्तिः परा वैकुण्ठे वसतिस्तु कल्पलतिका सर्वेष्टसंदायिनी ॥ ४५ ॥
दिव्यादेशमसौ निशम्य रुचिरैः पद्यैर्ददावुत्तरं हन्तायैव हरे भवार्णवमहं निस्तीर्णवान् दुस्तरम् ।
यस्य त्वं करुणानिधिर्नयनयोः पुण्यात्मनो गोचरः स क्षीणाखिलदुष्कृतः खलु कर्थ संसारबद्धो भवेत् ॥ ४६॥
देवास्तद्वचनात्परं मुमुदिरे चित्रीयमाणा भृशं व्याजद्दश्च परस्परं ननु वयं धन्या मुनेः सङ्गतः।
तद्वक्त्राम्बुज निर्गलत्सुवचनावादेन पीयूषमप्यस्माकं विरसायते मुनिरयं देवोपमः पुण्यभाक् ॥ ४७ ॥
प्रीत्याऽऽमन्त्रितवान् पुनर्मुनिवरं यातुं स्वलोकं हरिदेवाज्ञामनुवर्तितुं मतिमधात्त्यक्त्वा स देहूपुरम् ।
भार्या प्राह निमंत्रितोऽस्मि हरिणा वैकुण्ठमालोकितुं यास्यावोऽद्य समं प्रिये हरिभुवं नो चेद्यथेच्छं कुरु ॥४८॥
भार्या तं निजगाद नाथ न मया हातुं गृहं सांप्रतं जानासि प्रसवोन्मुखी जडमते पत्नी तवाहं स्थिता ।
बालान् गोधनमप्यहो निजगृहे को नाम रक्षिष्यति स्वैरं याहि भुवं हरेः परमहं जाने क गन्ता भवान् ॥ ४९॥
तच्छुत्वा बहुविस्मितो मुनिरसौ निश्वस्य तामब्रवीद वैकुण्ठाधिपतेरनुग्रह मिमं प्राप्यापि नो मोदसे।
हन्त त्वं विषयोपभोगनिरता हातुं गृहं नेहसे वाढं तिष्ट निजाकैः सह गृहे यास्यामि तत्रैककः ॥५०॥
पार्श्वस्थाः प्रसमीक्ष्य तं प्रचलितं चक्रुर्वितर्कान् बहून् श्रान्तः संसृतिसागरे विलुठनाद्विश्रान्तये गच्छति ।
प्रायः कापि तपोवनं हिमगिरौ मार्गत्यसौ तापसः स्वरं यातु वयं च दूरमनुगाः पर्यन्तमीक्षामहे ॥ ५१॥
तैरालोकि तदा किलाम्बरतले देदीप्यमानातिदिव्यस्यन्दनसंहतिततरं क्षोणीतलं गाहिनी।
तत्रासन् कमलासनाच्यतहराः स्वस्वप्रियामोदिताः गन्धर्वः परिगीयमानयशसो देवर्षिभिः सेविताः॥५२॥
निस्तेजाः समजायताम्बरमणिर्दिव्यप्रभानिर्जितो विद्युत्पुञ्जहता इवाखिलनृणां संमीलिता दृष्टयः।
खप्नोबुद्ध इवेक्षते जनगणो यावत्समन्तानभस्तावत्सर्वमदर्शि शून्यमनघोऽप्यन्तर्हितस्तापसः ॥५३॥
तदनु तदनुगास्तं द्रष्टुमौत्सुक्यभाजः त्रितयमखिलमह्नां निन्युरुन्निद्रनेत्राः।
ददृशुरथ विदूरादम्बरे लम्बमानं किमपि मलिनमुर्वीमापतन्मन्दमन्दम् ॥ ५४॥
तैरबोधि पतितं च तन्मुनेझल्लरीपुटयुतो हि रल्लकः।
हर्षशोकभयभक्तिविस्मयैरुत्तरंगहृदयाश्च ते स्थिताः॥५५॥
इति सौ० क्षमायाः कृतिषु श्रीतुकारामचरिते प्रसन्नवैकुण्ठो नाम नवमः सर्गः।
Disclaimers & Notes:
Note: the OCR Text in this page has not yet been proofread, it has been OCRed and shared online in good faith to help the Sanskrit community. We have no commercial intent. Our understanding is that the text is out of copyright and hence in the Public Domain under the laws of the Republic of India in 2022.
However if you have a specific copyright concern or claim, please let us know.
Original: https://archive.org/details/KRI75ShriTukaramCharitamSanskritWithEngTranslation1950PanditKshamaRow/