अहं Dartmouth विश्वविद्यालस्य सङ्गणक शास्त्र विभागे प्राद्यापकः अस्मि। डार्ट्मत् प्रविभक्त सङ्गणित परिशोधनशालायाः नेता अस्मि। पूर्वस्मिन् काले अहम् Google Research परिशोधना शास्त्रज्ञः आसम्। तत्र प्रविभक्त विधिकल्पान् परिकल्पे।
अहं MIT विश्वविद्यालये जूलियन् षन् पर्यवेक्षणे Ph.D. अभ्यासं कुर्वन् अस्मि। ततःपूर्वम् कोस्टिस् दस्कलाकिस् पर्यवेक्षणे संगणकशास्त्रे MIT विश्वविद्यालये एव S.M. कृतवान्। ततःपूर्वम् Princeton विश्वविद्यालये सङ्गणकशास्त्रे एव B.S.E. कृतवान्। तत्र राबर्ट् टार्जन् पर्यवेक्षणे परिशोधनम् कृतवान्।
विश्वविद्यालये सनातनधार्मिक छात्रागणायाः डार्त्मत् शान्त्याः एकः पर्यवेक्षकः अस्मि। अहम् शाकाहारी।
तदुपरि, भाषा-व्याकरण-छंदस् -शास्त्रेषु गणित-संगणक-शास्त्र-सम्पर्क परिशोधनम् अपि इच्छाम्यहं। यौ प्रस्तारौ आचार्यौ पिङ्गलविरहाङ्कौ आविष्कृतवन्तौ, तौ इदानीम् Fibonacci संख्याः, Pascal त्रिकोणं, इति प्रसिद्धिम् प्राप्तवन्तौ। एतौ प्रस्तारयोः मूलाः माम् प्रा. मञ्जुल् भार्गव: दत्तवान्। इत्यादि गणितशास्त्र मूलपरिशोधन कर्तुम् अहं इच्छामि।
तॆलुगु आङ्ग्ल संस्कृत भाषासु कवित्वलेखनम्, कथरचनम् च यथाशक्तिः तथा करोमि।
२०२० हिन्दू विद्यार्थि संघ स्नातकोत्सवे दत्तम् स्वागतवचनम्
ॐ श्रीगुरुभ्यो नमः
आदरणीयाः २०२०-स्नातकगणस्य सोदरसोदर्याः,
नमांसि । स्वागतम् ।
अद्य, वयं सर्वे उपाधिपत्राणां स्वीकरणार्थं समागताः स्मः.। भवद्भ्यः सर्वेभ्योऽभिनन्दनानि ।
सुदीर्घकालश्रमफलमिदम् । परन्तु केषां श्रमस्य फलम् एतत्? वयं एतावत् अवर्धामहि यतः, बहवः जनाः अस्मभ्यं अनिर्वचनीय त्यागान् अकुर्वन्. तेषु प्रमुखाः संति अस्माकं मातृ, पितृ, गुरु देवाः । मातः! नवमासान् गर्भे धृत्वा, जन्म दत्वा, मां वर्धयितवती भवती; इदं मम हृदयपूर्वकाभिवन्दनम् । पितः! कुटुम्बस्य मूलस्थम्भं भूत्वा विकासपथं अदर्शयत्; अयं मम साष्टाङ्गप्रणामः । गुरवः! सरस्वतीकटाक्षं दत्तवन्तः भवन्तः । अयं मम प्राञ्जलिः । अगणनीयाः इतराः अपि मम वर्धनार्थं श्रमितवन्तः । तेभ्यः अपि कृतज्ञताः. समर्प्यन्ते ।
मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव ।
आदरणीय-सोदरसोदर्याः! एतावत् पर्यंतं, वयं विद्यार्थिनः । इतःपरं वयं दायित्ववन्तः भूत्वा लोके व्यवहरिष्यामः ।
अस्मिन् अवसरे मम आचार्यस्य वाक्यानि स्मरणपथे आयान्ति । तस्य सारांशः एवम् अस्ति -
लोके भिन्नाः शक्तयः भ्रमराः इव वर्तन्ते । मानवः कीटकवत् अनवधानः अस्ति चेत् भ्रमराः तं भ्रमरकीटकन्यायानुगुणं आवृण्वन्ति । परन्तु यदि सः मानवः स्वधर्मे प्रतिष्ठितः भवति, तर्हि धर्मप्रसारितकान्तिकिरणाः तस्य हृदयकमलं विकासयन्ति । तत् कुसुमं भ्रमरान् सर्वान् आकर्षयति. । तथा ते एव भ्रमराः आनन्दमकरन्दप्रसारकाः भवन्ति ।
तर्हि, वयं धर्मपथम् अनुसृत्य लोककल्याणहेतुकाः भवेम ।
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत - इति कठोपनिषदः उपदेशं पालयाम ।
सर्वे भवन्तु सुखिनः. ।
सर्वे सन्तु निरामयाः. ।
सर्वे भद्राणि पश्यन्तु ।
मा कश्चिद्दु:खभाग्भवेत् ।
ओं शान्तिः शान्तिः शान्तिः