If you feel it is useful Please
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३॥
अन्वयः-
सम्भवात् अन्यत् एव आहुः असम्भवात् अन्यत् आहुः इति धीराणाम् शुश्रुम ये नः तत् विचचक्षिरे ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
शाङ्करभाष्यम्
अधुना उभयोरुपासनयोः समुच्चयकारणमवयवफलभेदमाह -
अन्यदेव पृथगेव आहुः फलं सम्भवात् सम्भूतेः कार्यब्रह्मोपासनात् अणिमाद्यैश्वर्यलक्षणम् आख्यातवन्त इत्यर्थः । तथा च अन्यदाहुरसम्भवात् असम्भूतेः अव्याकृतात् अव्याकृतोपासनात् यदुक्तम् ``अन्धं तमः प्रविशन्ति” इति, प्रकृतिलय इति च पौराणिकैरुच्यते । इति एवं शुश्रुम धीराणां वचनं ये नस्तद्विचचक्षिरे व्याकृताव्याकृतोपासनफलं व्याख्यातवन्त इत्यर्थः ॥१३॥