॥ शोधप्रबन्धः ॥
आधुनिकेषु बहवो जीविकानिर्वाहार्थं शोधच्छात्रा भूत्वा कञ्चिद्ग्रन्थमेकं किञ्चित्समवधार्य
ग्रन्थान्तरेण सार्धं तोलयित्वा विद्यावारिधेः प्रमाणपत्रे दत्तचित्ता वरीवृत्यन्ते । प्रमाणपत्रप्राप्तौ
विधीयमानेन यत्नेन न किञ्चित्संशोधनं सम्पाद्यते जीवने । किन्त्वाजीवनं गवेषणे दत्तचित्तो विद्वत्तल्लजो यदि विद्यावारिधिना पुरस्क्रियेत तर्हि विद्यावारिधेः सार्थक्यं सञ्जायेत । अन्यथा
सर्वोऽपि यत्नः शशशृङ्गतामियात् । यस्तु प्राचीनसम्प्रदायानुसारं त्रिकाण्डममरकोशं शब्दान् धातूंश्च समधीत्य संस्कृतमध्येतुं प्रवर्तेत स विना क्लेशं संस्कृतसागरस्य पारदृश्वा स्यात् । तदर्थं
यत्नो विधीयतामित्याशास्य किञ्चिदत्र जिज्ञास्यते ॥
१. भट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यां णिजन्तप्रकरणान्ते -"प्रार्थयन्ति शयनोत्थितं
प्रियाः" इत्युदाहारि । वाक्यमिदं वर्तते वा ? वर्तते चेत् कुत्र ?
बालमनोरमाकारः तत्त्वबोधिनीकारश्च वाक्यमिदं माघकाव्यादुदहारीति प्रोचतुः । माघकाव्ये कुत्र
वर्तते ? वस्तुतस्तु -"प्रार्थयन्त शयनोत्थितं प्रियाः" इत्येव खलु कविना अभ्यधायि ? साधूत्तरे
यत्नो विधीयताम् ।
२. भूतले घटोऽस्तीत्यत्र भूतलनिष्ठाधिकरणतानिरूपिताधेयतावान् घट इति शाब्दबोधः
सम्पाद्यते । एवं चेत् -आतपे तिष्ठति, वृक्षच्छायायां वर्तत इत्यादौ छायातपयोरधिकरणत्वं
कथङ्कारं सिद्ध्यति ? उभयोरप्युपरिष्टात्पतनहेतोरधिकरणताभङ्गापत्तिः । वैयाकरणो वा स्यात्
तार्किको वा स्यात् वाक्यमिदं कथं प्रयोक्तुमर्हति ?
३. तुल्यास्यप्रयत्नं सवर्णमिति व्याकरणसूत्रे - आस्ये भवमास्यमिति व्युत्पत्तिं प्रदर्श्य आस्यशब्द
उदलेखि । बालमनोरमाकारः, तत्त्वबोधिनीकारः, प्रौढमनोरमाकारः, सिद्धान्तकौमुदीकारः,
शेखरकारः, भाष्यकारश्च सर्वेऽपि "शरीरावयवाद्यत्" इति सूत्रं व्याजिहीर्षाञ्चक्रुः । सूत्रमिदं तत्र
भव इत्यधिकारे वरीवर्ति वा ? काशिकाकारस्तु साधूत्तरं निजगाद - शरीरावयवाच्चेति ।
सिद्धान्तकौमुदीं पाठयितुमुद्युक्ताः सर्वेऽपि यथालिखितपाठका भवन्ति । तत्त्वं नावयन्ति ।
४. पञ्चानां महाकाव्यानां व्याख्यात्रा महामहोपाध्यायेन मल्लिनाथेन सूरिणा रघुवंशस्य
प्रथमश्लोके पितरावित्यत्र द्वन्द्वैकशेष इति प्रतिपादयाञ्चक्रे । वैयाकरणास्तु द्वन्द्वे सति नैकशेष
इति सिद्धान्तमचकथन् । कथं तर्हि मल्लिनाथवचने साधुत्वम् ?
५. प्रमाणान्तरप्रमिते अर्थे पुरुषनिष्ठा पुरुषप्रवर्तना प्रैषः इति भाट्टरहस्ये प्रैषशब्दस्य अर्थनिर्देशं
विशदीचकार श्रीखण्डदेवाचार्यः । भट्टोजिदीक्षितस्तु - प्रैषातिसर्गप्राप्तकालेषु कृत्याश्चेत्यत्र प्रैषो
विधिरिति कथञ्चकार । स्वाध्यायोऽध्येतव्य इत्यस्य विधित्वमुत प्रैषत्वमिति जिज्ञासा प्रादुर्भवति ।
विधौ लक्षणा इति तु साम्प्रदायिकाः ॥ वस्तुतः - यत्स्वाध्यायमधीयीत इति लिङा
विधेरुक्तत्वादध्येतव्य इत्यत्र प्रैषत्वे का वा हानिः ? जिज्ञास्यताम् । विधिप्रैषयोरभेदो
भट्टोजिदीक्षितकृत एव । कैयटस्तु
भेदमेव प्रादीदृशत् खलु ?
इत्थमेकैकमपि वाक्यं सम्यङ् निर्मथ्य तथ्यग्रहणे दत्तचित्तो भवेच्छोधच्छात्रः । एवमत्र
द्वित्राण्युदाहरणान्युदलेखिषत । तत्त्वावधारणे यत्नो विधीयतामित्याशास्य विरम्यते मया ॥ शम् ॥