Sanskrit Parishad Society Activities

Academic Society Events' Reports (June 2023 to May 2024) :

Webinar on 'Cultural Pride' - Azadi Ka Amrit Mahotsava, 13 July 2023 


Academic Society Event Reports (January to May 2022) :


Events’ Name & Date

1. Inter-class Veda-mantroccāraṇa Competition, 25 January 2022


Report

द्वाविंशत्युत्तरद्विसहस्रख्रीष्टाब्दस्य जनवरीमासस्य पञ्चविंशतितारिकायाम् आभासीय(ऑन्लाइन्)-माध्यमेन अन्त:कक्षीयवेदमन्त्रोच्चारणप्रतिस्पर्धा समायोजिता। अस्यां प्रतिस्पर्धायां प्रथमं स्थानं संयुक्तरूपेण स्नातकविशेषसंस्कृततृतीयवर्षस्य स्नेहा तथा मोनिका तिवारी, द्वितीयं स्थानं संयुक्तरूपेण परास्नातकप्रथमवर्षस्य रिचिका रानी, स्नातकविशेषसंस्कृतद्वितीयवर्षस्य निकिता शर्मा, स्नातकविशेषसंस्कृतप्रथमवर्षस्य प्राची तिवारी, तृतीयं च स्थानं संयुक्तरूपेण परास्नातकप्रथमवर्षस्य रोली सिंहः स्नातकविशेषसंस्कृततृतीयवर्षस्य च शालिनी मिश्रा कोमलः च प्राप्तवत्यः। प्रोत्साहनपुरस्कारं संयुक्तरूपेण स्नातकविशेषसंस्कृतद्वितीयवर्षस्य प्राकृतिका  कुमारी प्राञ्जलिः खरे च तथा स्नातकविशेषसंस्कृतप्रथमवर्षस्य अनामिका सिंहः अञ्जलिकुमारी च प्राप्तवत्यः । निर्णायकरूपे डॉ. गीता रानी महाभागाः तथा डॉ. निहारिका महाभागाः आसन्।


Events’ Name & Date

2. Inter-class Shlokavritti Competition, 02 February 2022


Report

द्वाविंशत्युत्तरद्विसहस्रख्रीष्टाब्दस्य फरवरीमासस्य द्वितारिकायाम् आभासीय(ऑन्लाइन्)-माध्यमेन अन्त:कक्षीयश्लोकोच्चारणप्रतिस्पर्धा समायोजिता। अस्यां प्रतिस्पर्धायां ज्यायोवर्गे प्रथमं स्थानं स्नातकविशेषसंस्कृततृतीयवर्षस्य सिमरन द्वितीयं स्थानं संयुक्तरूपेण परास्नातकप्रथमवर्षस्य रिचिका रानी स्नातकविशेषसंस्कृततृतीयवर्षस्य च शालिनी मिश्रा तृतीयं स्थानं संयुक्तरूपेण स्नातकविशेषसंस्कृततृतीयवर्षस्य स्नेहा स्नातकविशेषसंस्कृतद्वितीयवर्षस्य च प्राकृतिका  कुमारी तथा प्राञ्जलिः खरे प्राप्तवत्यः। प्रोत्साहनपुरस्कारं स्नातकविशेषसंस्कृततृतीयवर्षस्य कोमलः प्राप्तवती । कनीयोवर्गे प्रथमं स्थानं स्नातकविशेषसंस्कृतप्रथमवर्षस्य नेहा रॉय  द्वितीयं स्थानं संयुक्तरूपेण स्नातकविशेषसंस्कृतप्रथमवर्षस्य प्रेरणा इशिका च तृतीयं च स्थानं स्नातकविशेषसंस्कृतप्रथमवर्षस्य अनामिका सिंहः प्राप्तवत्यः। प्रोत्साहनं स्नातकविशेषसंस्कृतप्रथमवर्षस्य अञ्जलिः कुमारी प्राप्तवती।  निर्णायकरूपे डॉ. सर्वेश कुमार मिश्र महाभागाः तथा डॉ. ओम् प्रकाश महाभागाः आसन्।


Events’ Name & Date

3. Story Writing/Creative Writing Competition , 09 February 2022


Report

द्वाविंशत्युत्तरद्विसहस्रख्रीष्टाब्दस्य फरवरीमासस्य नवतारिकायां संस्कृताध्ययनशोधकेन्द्र-संस्कृतविभागाभ्यां संयुक्तरूपेण आभासीय(ऑन्लाइन्)-माध्यमेन ‘आजादी का अमृत महोत्सव’ इत्यस्य अन्तर्गतम् ‘अमृतत्वं से स्वतन्त्रता की यात्रा : संस्कृत’ इति विषयमधिकृत्य ‘कहानी लेखन/रचनात्मक लेखन प्रतिस्पर्धा’ समायोजिता। कहानीलेखने प्रथमं स्थानं तन्नाजः द्वितीयं स्थानं गौरवी, कवितालेखने प्रथमं स्थानं कृतिका द्वितीयं स्थानम् अनामिका सिंहः, लेखनकलायां प्रथमं स्थानं प्राकृतिका कुमारी द्वितीयं स्थानं कनिका कार्तिकेयः प्राप्तवत्यः। निर्णायकरूपे डॉ. अनितास्वामीमहाभागाः तथा डॉ. मायावर्मामहाभागाः आसन्।


Events’ Name & Date

4. Inter-class Quiz Competition , 06 April 2022


Report

द्वाविंशत्युत्तरद्विसहस्रख्रीष्टाब्दस्य अप्रैलमासस्य षड्तारिकायाम् आभासीय(ऑन्लाइन्)-माध्यमेन अन्तःकक्षीयप्रश्नमञ्चप्रतिस्पर्धा समायोजिता। अस्यां प्रतिस्पर्धायां स्नातकविशेषसंस्कृततृतीयवर्षे प्रथमं स्थानं स्नेहा, स्नातकविशेषसंस्कृतद्वितीयवर्षे च प्रथमं स्थानं अञ्जु महतो प्राप्तवत्यौ। निर्णायकरूपे डॉ. सर्वेशकुमामिश्रमहाभागाः तथा डॉ. ओम्प्रकाशमहाभागाः आसन्।


Events’ Name & Date

5. Inter-class Aksharshloka Competition, 13 April 2022


Report

द्वाविंशत्युत्तरद्विसहस्रख्रीष्टाब्दस्य अप्रैलमासस्य त्रयोदशतारिकायाम् अन्तःकक्षीय-अक्षरश्लोकप्रतिस्पर्धा समायोजिता। अस्यां प्रतिस्पर्धायां स्नातकविशेषसंस्कृततृतीयवर्षस्य दलस्य छात्राः (सञ्जना, दिव्या, स्नेहा, कोमल, सचि) विजेत्र्यः आसन्। एकलरूपेण प्रथमं स्थानं स्नातकविशेषसंस्कृतप्रथमवर्षस्य प्राची तिवारी द्वितीयं च स्थानं स्नातकविशेषसंस्कृततृतीयवर्षस्य स्नेहा प्राप्तवत्यौ। निर्णायकरूपे डॉ. गीतारानीमहाभागाः तथा डॉ. निहारिकामहाभागाः आसन्।


Events’ Name & Date

6. Poster Making/Painting & Sketching Competition, 13 April 2022


Report

द्वाविंशत्युत्तरद्विसहस्रख्रीष्टाब्दस्य अप्रैलमासस्य त्रयोदशतारिकायाम् संस्कृताध्ययनशोधकेन्द्र-संस्कृतविभागाभ्याम् संयुक्तरूपेण ‘आजादी का अमृत महोत्सव’ इत्यस्य अन्तर्गतम् ‘स्वराज’ इति विषयमधिकृत्य “पोस्टर रचना/चित्रकर्म एवं रेखाचित्र प्रतिस्पर्धा” समायोजिता। अस्यां प्रतिस्पर्धायां प्रथमं स्थानं स्नातकविशेषसंकृतद्वितीयवर्षस्य लक्षिता मावी द्वितीयं स्थानं स्नातकविशेषसंकृतद्वितीयवर्षस्य प्राकृतिका कुमारी प्रोत्साहनं च संयुक्तरूपेण स्नातकविशेषसंकृततृतीयवर्षस्य सञ्जना तथा स्नातकविशेषसंकृतप्रथमवर्षस्य अनामिका सिंह प्राप्तवत्यः। निर्णायकरूपे डॉ. अनितास्वामीमहाभागाः आसन्।


Events’ Name & Date

7. 4th Inter College Paper Presentation Competition , 20 April 2022


Report

द्वाविंशत्युत्तरद्विसहस्रख्रीष्टाब्दस्य अप्रैलमासस्य विंशतितारिकायां संस्कृताध्ययनशोधकेन्द्र-संस्कृतविभागाभ्यां संयुक्तरूपेण आयोजिता तथा स्वर्गीयाभिः डॉ. सुमनमहेन्द्रूमहोदयाभिः प्रायोजिता चतुर्थ-अन्तर्महाविद्यालयीयपत्रवाचनप्रतिस्पर्धा सफलतापूर्वकं सम्पन्ना। सर्वप्रथमं स्नातक-तृतीयवर्षस्य छात्रे स्नेहा रेनुश्च  वैदिकमङ्गलाचरणं कृतवत्यौ। तदनन्तरं संस्कृताध्ययनशोध-केन्द्रस्य अध्यक्षाः इन्द्रप्रस्थमहिलामहाविद्यालयस्य च प्राचार्याः परमादरणीयाः प्रो.बाबलीमोईत्रासराफमहोदयाः स्वप्रेरणास्पदसङ्क्षिप्त-व्याख्यानेन प्रतियोगितायाः शुभारम्भं कृतवत्यः। अस्यां प्रतिस्पर्धायां विंशतिछात्राः स्वपत्राणां सफलतया वाचनं कृतवन्तः। “भारतीय-ज्ञान-परम्परा में वास्तु-विद्या” इति विषयमधिकृत्य आयोजितायाम् अस्यां पत्रवाचनप्रतिस्पर्धायां प्रथमं स्थानं लेडीश्रीराममहिलामहाविद्यालयस्य स्नातकद्वितीयवर्षस्य सुदीपा भट्टाचार्यः द्वितीयं स्थानं आत्मारामसनातनधर्ममहाविद्यालयस्य स्नातकविशेषतृतीयवर्षस्य शारदा  तृतीयं स्थानं संयुक्तरूपेण इन्द्रप्रस्थमहिलामहाविद्यालयस्य स्नातकविशेषसंस्कृतद्वितीयवर्षस्य लक्षिता मावी तथा स्नातकद्वितीयवर्षस्य गरिमा पाण्डे प्रोत्साहनं च हिन्दूमहाविद्यालयस्य परास्नाकद्वितीयवर्षस्य भूमिदत्तमिश्रा प्राप्तवन्तः। निर्णायिकाकरूपेण डॉ. अनितास्वामीमहाभागाः डॉ. मायावर्मामहाभागाश्च समुपस्थिता आसन्। छात्रासञ्चालिकारूपे सुश्री रिचिका रानी स्वकर्त्तव्यस्य सफलतापूर्वकं निर्वहणं कृतवती। 


Events’ Name & Date

8. Inter College Competition , 28 April 2022


Report

द्वाविंशत्युत्तरद्विसहस्रख्रीष्टाब्दस्य अप्रैलमासस्य अष्टाविंशतितारिकायाम् अन्तर्महाविद्यालयीयवेदमन्त्रोच्चारण-अक्षरश्लोक-प्रश्नमञ्चप्रतिस्पर्धाः समायोजिताः। तत्र वेदमन्त्रोच्चारणप्रतिस्पर्धायां प्रथमं स्थानं इन्द्रप्रस्थमहिलामहाविद्यालयस्य स्नेहा द्वितीयं स्थानं संयुक्तरूपेण राजधानीमहाविद्यालयस्य एकनाराणपौडेलः तथा साकेतराजशुक्ला तृतीयं स्थानं मोतीलासंस्कृत्महाविद्यालयस्य उमेशचन्द्रजोशी प्राप्तवन्त:। इन्द्रप्रस्थमहिलामहाविद्यालयः विजेता सम्भूतः तथा चलवैजयन्ती राजधानीमहाविद्यालयाय प्रदत्ता। अक्षरश्लोकप्रतिस्पर्धायां प्रथमं स्थानं श्रीवैङ्कटेश्वरमहाविद्यालयस्य पुष्पराजः, द्वितीयं स्थानं इन्द्रप्रस्थमहिलामहाविद्यालयस्य स्नेहा तृतीयं स्थानं श्रीवैङ्कटेश्वरमहाविद्यालयस्य एकनारायणपौडेलः प्रोत्साहनपुरस्कारं च हिन्दूमहाविद्यालयस्य ऋषभकुणालः तथा जाकिरहुसैनमहाविद्यालयस्य राकेशकुमारझा प्राप्तवन्तः। इन्द्रप्रस्थमहिला-महाविद्यालय: विजेता सम्भूतः तथा चलवैजयन्ती श्रीवैङ्कटेश्वरमहाविद्यालयाय प्रदत्ता। प्रश्नमञ्चप्रतिस्पर्धायां हिन्दूमहाविद्यालयस्य प्रत्यूषकेसरी ऋषभकुणालः च प्रथमं स्थानं, श्रीवैंकटेश्वरमहाविद्यालयस्य सौरभः पुष्पराजः च द्वितीयं स्थानम् इन्द्रप्रस्थमहिला-महाविद्यालयस्य स्नेहा कोमलः च तृतीयं स्थानं प्राप्तवन्तः। चलवैजयन्ती हिन्दूमहाविद्यालयाय प्रदत्ता।  निर्णायकमण्डले लेडीश्रीराममहिलामहाविद्यालयस्य डॉ.पङ्कजाघईकौशिकमहाभागा: हंसराजमहाविद्यालयस्य डॉ.रञ्जीतकुमारमिश्रमहाभागाः इन्द्रप्रस्थमहिलामहाविद्यालयस्य च  डॉ.अनितास्वामीमहाभागा: समुपस्थिता आसन् ।



Events’ Name & Date

9. Annual Day , 02 May 2022


Report

द्वाविंशत्युत्तरद्विसहस्रख्रीष्टाब्दस्य मईमासस्य द्वितारिकायां संस्कृतपरिषदः वार्षिकोत्सवः सम्पन्नः । कार्यक्रमस्य शुभारम्भे स्नेहा रेणुश्च वैदिकमङ्गलाचरणं कृतवत्यौ । सिमरन संस्कृतगीतं प्रस्तुतवती । तत्पश्चात् प्राकृतिका कुमारी गतवर्षस्य संस्कृतपरिषदा आयोजितानां कार्यक्रमाणां सूचनाः प्रदत्तवती । अस्माकं संस्कृतविभागस्य प्रभारी डॉ.मायावर्मा-महोदयाः तथा संस्कृतविभागस्य गुरुजनाः पुरस्कारवितरणं कृतवन्तः। अनन्तरं सुश्री-रिचिका प्राध्यापिकानां, प्राध्यापकानां, छात्राणां, सर्वेषां सर्वासाञ्च धन्यवादज्ञापनमपि कृतवती। कार्यक्रमस्य सञ्चा-लिकारूपे सुश्री-रिचिका रानी स्वकर्त्तव्यस्य निर्वहणं सुष्टुप्रकारेण कृतवती ।


Academic Society Event Reports (June to December 2021) :


Events’ Name & Date

1. 3rd Inter College Paper Presentation Competition, 30 June 2021 


Report

एकविंशत्युत्तरद्विसहस्रख्रीष्टाब्दस्य जूनमासस्य त्रिंशत्तारिकायां संस्कृताध्ययनशोधकेन्द्र-संस्कृतविभागाभ्यां संयुक्तरूपेण आयोजिता तथा स्वर्गीयाभिः डॉ. सुमनमहेन्द्रूमहोदयाभिः प्रायोजिता तृतीय-अन्तर्महाविद्यालयीयपत्रवाचनप्रतिस्पर्धा आभासीय(ऑन्लाइन्)-माध्यमेन सफलतापूर्वकं सम्पन्ना । अस्यां प्रतिस्पर्धायां विंशतिछात्राः पत्रप्रस्तुत्यर्थं चयनिताः। येषु चतुर्दशछात्राः स्वपत्राणां सफलतया वाचनं कृतवन्तः। “संस्कृत वाङ्मय में निहित ज्ञान-विज्ञान परम्परा” इति विषयमधिकृत्य आयोजितायाम् अस्यां पत्रवाचनप्रतिस्पर्धायां प्रथमं स्थानं इन्द्रप्रस्थमहिलामहाविद्यालयस्य स्नातकविशेषसंस्कृतप्रथमवर्षस्य प्राञ्जलिः खरे द्वितीयं स्थानं संयुक्तरूपेण इन्द्रप्रस्थमहिलामहाविद्यालयस्य स्नातकविशेषसंस्कृतप्रथमवर्षस्य प्राकृतिका  कुमारी तथा लक्षिता मावी  तृतीयं स्थानं लेडीश्रीराममहाविद्यालयस्य स्नातकविशेषसंस्कृतद्वितीयवर्षस्य प्रकृतिः त्यागी प्रोत्साहनं च इन्द्रप्रस्थमहिलामहाविद्यालयस्य स्नातकविशेषसंस्कृतद्वितीयवर्षस्य स्नेहा प्राप्तवत्य:। निर्णायिकाकरूपेण डॉ. अनितास्वामीमहाभागाः डॉ. मायावर्मामहाभागाश्च समुपस्थिताः आसन् । छात्रासञ्चालिकारूपे सुश्री स्नेहा, सुश्री अर्चनासारणः, सुश्री निशितागिरिः स्वकर्त्तव्यस्य सफलतापूर्वकं निर्वहणं कृतवत्यः। 


Events’ Name & Date

2. Inter-class Paper Presentation, 22 September 2021


Report

एकविंशत्युत्तरद्विसहस्रख्रीष्टाब्दस्य सितम्बरमासस्य द्वाविंशतितारिकायां “संस्कृत : समग्र जीवन दृष्टि” इति विषयमधिकृत्य अन्तःकक्षीयपत्रवाचनप्रतिस्पर्धा आभासीय(ऑन्लाइन्)-माध्यमेन सम्पन्ना। अस्यां प्रतिस्पर्धायां नवछात्राः स्वपत्राणां वाचनं कृतवत्यः। अस्यां प्रतिस्पर्धायां प्रथमं स्थानं संयुक्तरूपेण स्नातकविशेषसंस्कृततृतीयवर्षस्य उदितिः स्नेहा कोमलश्च द्वितीयं स्थानं संयुक्तरूपेण स्नातकविशेषसंस्कृततृतीयवर्षस्य सञ्जना स्नातकविशेषसंस्कृतद्वितीयवर्षस्य च प्राञ्जलिः खरे तथा प्राकृतिका  कुमारी, तृतीयं स्थानं संयुक्तरूपेण स्नातकविशेषसंस्कृततृतीयवर्षस्य तान्या तथा सुमनः प्राप्तवत्यः। निर्णायकरूपे डॉ. गीतारानीमहाभागाः तथा डॉ. सर्वेशकुमारमिश्रमहाभागाः आसन्।


Events’ Name & Date

3. ESSAY Writing Competition, 22 September 2021


Report

एकविंशत्युत्तरद्विसहस्रख्रीष्टाब्दस्य सितम्बरमासस्य त्रयोविंशतितारिकायां संस्कृताध्ययनशोधकेन्द्र-संस्कृतविभागाभ्याम् संयुक्तरूपेण आभासीय(ऑन्लाइन्)-माध्यमेन ‘आजादी का अमृत महोत्सव’ इत्यस्य अन्तर्गतं ‘स्वतन्त्रता आन्दोलन में संस्कृत की भूमिका’ इति विषयमधिकृत्य ‘निबन्ध लेखन प्रतिस्पर्धा’ समायोजिता। अस्यां प्रतिस्पर्धायां प्रथमं स्थानं स्नातकद्वितीयवर्षस्य कनक सुयालः द्वितीयं स्थानं स्नातकविशेषसंकृततृतीयवर्षस्य स्नेहा तृतीयं स्थानं संयुक्तरूपेण स्नातकविशेषसंकृतद्वितीयवर्षस्य प्राकृतिका  कुमारी तथा लक्षिता मावी प्रोत्साहनं च संयुक्तरूपेण स्नातकविशेषसंकृततृतीयवर्षस्य दिव्या तथा स्नातकतृतीयवर्षस्य सुमेधा सिंहः प्राप्तवत्यः। निर्णायकरूपे संस्कृतविभागस्य समेऽपि प्रध्यापिकाः प्राध्यपकाश्च आसन्।


Events’ Name & Date

4. Sanskrit Divas Celebration, 21 October 2021


Report

एकविंशत्युत्तरद्विसहस्रख्रीष्टाब्दस्य अक्टुबरमासस्य एकविंशतितारिकायाम् आभासीय(ऑन्लाइन्)-माध्यमेन संस्कृतदिवससमारोह आयोजितः। संस्कृतदिवसस्य अस्मिन्नवसरे मुख्यातिथिरूपेण तथा मुख्यवक्तृरूपेण अस्य महाविद्यालयस्य भूतपूर्वछात्राः तथा दिल्लीविश्वविद्यालयस्य लक्ष्मीबाईमहाविद्यालस्य सेवानिवृत्ताः सहाचार्या डॉ. धर्माशर्मामहोदयाः समुपस्थिता आसन् । सर्वप्रथमम् अस्य कार्यक्रमस्य निर्विघ्नसमाप्त्यर्थं परास्नातकद्वितीयवर्षस्य निकिता शर्मा छात्रया वैदिकप्रार्थनया मङ्लाचरणं विहितम्। तदनन्तरं समारोहेऽस्मिन् स्नातकतृतीयवर्षस्य सिमरन छात्रया संस्कृतगीतिका स्नेहया ‘अग्निसूक्तम्’ कोमलेन च ‘राष्ट्रनिर्माणे संस्कृतस्य महत्त्वम्’ विषयमधिकृत्य भाषणं प्रस्तुतम्। तदनन्तरं मुख्यवक्त्रीभिः डॉ. धर्माशर्मामहोदयाभिः ‘भारतीय संस्कृति के रक्षण में सस्कृत का योगदान’ इति विषयमधिकृत्य स्वविचाराः प्रस्तुताः। भवतीभिः स्वप्रेरणादायके सम्भाषणे उक्तं यत् संस्कृतं विना भारतीयसंस्कृतेः ज्ञानं सम्यक्तया न भवितुमर्हति । अतः संस्कृताध्ययनस्य महती आवश्यकता वर्तते।


Events’ Name & Date

5. Integrity Pledge Taking Ceremony, 01 November, 2021 


Report

एकविंशत्युत्तरद्विसहस्रख्रीष्टाब्दस्य नवम्बरमासस्य एकतारिकायां संस्कृतविभागेन आभासीय(ऑन्लाइन्)-माध्यमेन Vigilance Awareness Week 2021 इत्यस्य अन्तर्गतं Integrity Pledge Taking Ceremony समायोजिता।


Events’ Name & Date

5. Slogan Writing Competition, 27 November, 2021 


Report

एकविंशत्युत्तरद्विसहस्रख्रीष्टाब्दस्य नवम्बरमासस्य सप्तविंशतितारिकायां संस्कृताध्ययनशोधकेन्द्र-संस्कृतविभागाभ्यां संयुक्तरूपेण आभासीय(ऑन्लाइन्)-माध्यमेन ‘आजादी का अमृत महोत्सव’ इत्यस्य अन्तर्गतं ‘अमृतत्वम्’ इति विषयमधिकृत्य ‘उद्घोष लेखन प्रतिस्पर्धा’ समायोजिता। अस्यां प्रतिस्पर्धायां प्रथमं स्थानं स्नातकविशेषसंकृतद्वितीयवर्षस्य प्राकृतिका कुमारी द्वितीयं च स्थानं स्नातकविशेषसंकृतद्वितीयवर्षस्य लक्षिता मावी प्राप्तवत्यौ। निर्णायकरूपे संस्कृतविभागस्य समेऽपि प्रध्यापिकाः प्राध्यपकाश्च आसन्।