Departmental Academic Calendar with Links (01 June 2021 to 31 December 2021)
Departmental Academic Calendar with Links (13 June 2020 to 31 May 2021)
Departmental Academic Calendar (13 June 2020 to 31 May 2021)
Departmental Academic Calendar (January to May 2020)
Academic Society Event Reports (January to May 2020) :
Departmental Academic Calendar (July to November 2019)
Academic Society Event Reports (July to November 2019) :
Events’ Name & Date
1. Sanskrit Divas Celebration 29th August 2019 (Thursday)
Report
अगस्तमासस्य उनविंशतितारिकायां संस्कृतदिवससमारोह आयोजितः । अस्मिन् दिवसे अस्मिन्नवसरे मुख्यातिथिः तथा मुख्यवक्तृरूपेण श्रीलाल-बहादुरशास्त्रिराष्ट्रियसंस्कृतसंस्थानस्य आचार्याः प्रो. पीयूषकान्तदीक्षित-महोदयाः समुपस्थिता आसन् । समारोहेऽस्मिन् स्नातकवर्षीयछात्राभिः “दानस्य महत्त्वम्” नामधेयं नाटकं शिवताण्डवस्तोत्रमधिकृत्य नृत्यञ्च सम्यक्तया प्रस्तुते । मुख्यवक्तृभिः प्रो. पीयूषकान्तदीक्षतमहोदयैरुक्तम् यत् वयं संस्कृतं बिना जीवनं निष्फलं वर्तते । भवद्भिः स्वप्रेरणादायके सम्भाषणे उक्तं यत् संस्कृतं बिना भारतीयपरम्परायाः अवबोधनं सम्यक्तया न भविष्यति । अतः संस्कृताध्ययनस्य महती आवश्यकता वर्तते ।
Photographs View
Events’ Name & Date
2.Inter-class Vedamantro-ccharan 05th September, 2019 (Thursday)
Report
सितम्बरमासस्य पञ्चतारिकायां वेदमन्त्रोच्चारणप्रतिस्पर्धा समायोजिता । अस्यां प्रतियोगितायां प्रथमं स्थानं संयुक्तरूपेण परास्नातक-उत्तरार्द्धस्य सुरुचिः परास्नातकपूर्वार्द्धस्य यशिकस्नेहे, द्वितीयं स्थानं संयुक्तरूपेण स्नातकतृतीयवर्षस्य सानियामिर्जा स्नातकद्वितीयवर्षस्य निशितागिरिः स्नातकप्रथमवर्षस्य सिमरन तृतीयं स्थानमपि संयुक्तरूपेण स्नातकद्वितीयवर्षस्य रोलीसिंहः स्नातकप्रथमवर्षस्य कोमल च प्राप्तवत्यः । प्रोत्साहनपुरस्कारं स्नातकद्वितीयवर्षस्य अर्चनासारणः स्नातकप्रथमवर्षस्य दिव्या प्राप्तवत्यौ ।
Photographs View
Events’ Name & Date
3. Inter-class Paper Presentation 09th September, 2019 (Thursday)
Report
सितम्बरमासस्य नवतारिकायां I mportance of Sanskrit Śāstras इति विषयमधिकृत्य पत्रवाचनकार्यक्रम: सम्पन्न: । इत्यस्मिन् कार्यक्रमे त्रयत्रिंशच्छात्राः स्वपत्राणां वाचनं कृतवत्य: । अस्मिन् पत्रवाचनकार्यक्रमे प्रथमं स्थानं संयुक्तरूपेण स्नातकतृतीयवर्षस्य सानिया मिर्जा निकिता शर्मा स्नातकद्वितीयवर्षस्य अर्चनासारणः, द्वितीयं स्थानं संयुक्तरूपेण स्नातकद्वितीयवर्षस्य नीलमपटेलः स्नातकप्रथमवर्षस्य शर्मीली, तृतीयं स्थानं संयुक्तरूपेण स्नातकतृतीयवर्षस्य दीक्षागिलः स्नातकद्वितीय-वर्षस्य रोलीसिहः च प्राप्तवत्यः । प्रोत्साहनपुरस्कारः स्नातकतृतीयवर्षस्य कोमलधामा स्नातकप्रथमवर्षस्य दिव्या च प्राप्तवत्य: ।
Photographs View
Events’ Name & Date
4. Inter-class Aksharshloka Competition 26th September, 2019 (Thursday)
Report
सितम्बरमासस्य षड्विंशतितारिकायां अन्तर्वर्गीया अक्षरश्लोक-प्रतियोगिता समायोजिता । इत्यस्यां प्रतियोगितायां विजेतृदलरूपे स्नातक-द्वितीयवर्षः पुरस्कृतः । प्रतियोगितायामस्यां प्रथमं स्थानं परास्नातक-पूर्वार्द्धस्य स्नेहा स्नातकद्वितीयवर्षस्य निशितागिरिः, द्वितीयं स्थानं स्नातक-द्वितीयवर्षस्य अर्चनासारणः रोलीसिंहः, तृतीयं स्थानं परास्नातक-पूर्वार्द्धस्य सुरुचिः स्नातकद्वितीयवर्षस्य करिश्मा च प्राप्तवत्य:।
Photographs View
Events’ Name & Date
5. Inter-class Prashnamanch Competition 24th October, 2019 (Thursday)
Report
अक्तूबरमासस्य चतुर्विंशतितारिकायां प्रश्नमञ्चप्रतिस्पर्धा समायोजिता । अस्यां प्रतियोगितायां परास्नातक-उत्तरार्द्धे प्रथमं स्थानं सुरुचिः परा-स्नातकपूर्वार्द्धे प्रथमं स्थानं सोनामिका, स्नातकतृतीयवर्षे प्रथमं स्थानं कोमलगुप्ता, स्नातकद्वितीयवर्षे प्रथमं स्थानं अर्चनासारणः, स्नातकप्रथमवर्षे च प्रथमं स्थानं स्नेहा प्राप्तवत्यः ।
Photographs View
Events’ Name & Date
6. Inter-college Competition with Alumna Interaction 7th November, 2019 (Thursday)
Report
नवम्बरमासस्य सप्ततारिकायां भूतपूर्वछात्रावार्ताकार्यक्रमः अन्तर्महाविद्या-लयीयवेदमन्त्रोच्चारणाक्षरश्लोकप्रश्नमञ्चप्रतियोगिताश्च समायोजिता । अस्मिन् भूतपूर्वछात्रावार्ताकार्यक्रमे अस्माकं भूतपूर्वछात्राः सम्प्रति कालिन्दीमहाविद्यालये सहायकाचार्यपदे कार्यरताः डॉ.निशागोयल-महोदयाः(१९८१-१९८६) समुपस्थिता आसन् । भवतीभिः स्वानुभवैः छात्राः प्रेरिताः । वेदमन्त्रोच्चारणप्रतियोगितायां प्रथमं स्थानं राजधानी-महाविद्यालयस्य साकेतराजशुक्लः, द्वितीयं स्थानं किरोड़ीमल-महाविद्यालयस्य दीपकपराशरः शुभम् च, तृतीयं स्थानं सत्यवतीमहा-विद्यालयस्य प्रकाशचन्द्रलखचौरा, प्रोत्साहनपुरस्कारं इन्द्रप्रस्थमहिला-महाविद्यालयस्य निशितागिरिः कालिन्दीमहाविद्यालयस्य च तृप्तिः प्राप्तवन्तः । किरोड़ीमलमहाविद्यालयः विजेतासम्भूतः । चलवैजयन्ती-किरोड़मलमहाविद्यालयाय प्रदत्ता । अक्षरश्लोकप्रतियोगितायां प्रथमं स्थानं सेन्टस्टीफनमहाविद्यालयस्य आयुषी, द्वितीयं स्थानं इन्द्रप्रस्थमहिलामहा-विद्यालयस्य स्नेहा, तृतीयं स्थानं इन्द्रप्रस्थमहिलामहाविद्यालयस्य अर्चना, प्रोत्साहनपुरस्कारं इन्द्रप्रस्थमहिलामहाविद्यालयस्य सुरुचिः, रोलीसिंहः च प्राप्तवन्तः । सेन्टस्टीफनमहाविद्यालयः विजेतासम्भूतः । चलवैजयन्ती सेन्टस्टीफनमहाविद्यालयाय प्रदत्ता । प्रश्नमञ्चप्रतियोगितायां प्रथमं स्थानं सेन्टस्टीफनमहाविद्यालयस्य तुषारगांधी दीपज्योतिदेवश्च, द्वितीयं स्थानं कालिन्दीमहाविद्यालयस्य पूजा श्रीमिश्रा च, तृतीयं स्थानं इन्द्रप्रस्थ-महिलामहाविद्यालयस्य चञ्चलः शिवानीदूबे च प्राप्तवन्तः । सेन्टस्टीफन-महाविद्यालयः विजेतासम्भूतः । चलवैजयन्ती सेन्टस्टीफनमहाविद्यालयाय प्रदत्ता । निर्णायकमण्डले हंसराजमहाविद्यालयस्य सहायकाचार्याः डॉ. रंजीतकुमारमिश्रमहोदयाः, कालिन्दीमहाविद्यालस्य डॉ.निशागोयल-महोदयाः, इन्द्रप्रस्थमहिला-महाविद्यालयस्य डॉ. अनितास्वामीमहोदयाः समुपस्थिताः आसन् ।
Photographs View
Departmental Event Calendar (January-April 2019)
Academic Society Event Reports (January to April 2019) :
Events’ Name & Date
1.Inter-class Drama Competition 2019 27th February 2019 (Wednesday)
Report
फरवरीमासस्य सप्तविंशतितारिकायाम् अन्तर्कक्षीयानाटकप्रतिस्पर्धा समायोजिता । तस्यां प्रति-स्पर्धायां परास्नातकपूर्वार्द्धस्य छात्राभिः महाकविभवभूतिप्रणीत-उत्तररामचरितस्य प्रथमाङ्कस्य, श्रीललित-कुमारडॉ.गीतारानीमहोदयानाञ्च निर्देशने स्नातकविशेषतृतीयवर्षस्य छात्राभि: महाकविकालिदासप्रणीतअभिज्ञानशाकुन्तलस्य सप्तमा-ङ्कस्य, श्रीओम-प्रकाशडॉ.आयुषगुप्तामहोदयानाञ्च निर्देशने स्नात-कविशेषद्वितीयवर्षस्य छात्राभिः महाकविकालिदासप्रणीत-अभिज्ञान-शाकुन्तलस्य सप्तमाङ्कस्य, डॉ.हरीशकुमारडॉ.प्रवीणकुमारद्विवेदी-महोदयानाञ्च निर्देशने स्नातकविशेष-प्रथमवर्षस्य छात्राभिः महा-कविभासप्रणीतस्वप्नवासवदत्तस्य पञ्चमाङ्कस्य सम्यक्तया मञ्चनं कृतम् । स्नातकद्वितीयवर्षीयछात्राभिः प्रथमं स्थानं प्राप्तम् । नाट्यमञ्चनमध्ये पात्ररूपे प्रथमं स्थानं संयुक्तरूपेण परास्नातक-पूर्वार्द्धस्य मोक्षाशर्मा सुरुचिः स्नातकप्रथमवर्षस्य रोलीसिंहः, द्वितीयं स्थानं संयुक्तरूपेण स्नातकविशेषद्वितीयवर्षस्य सानियामिर्जा निकिताशर्मा स्नातक-विशेषप्रथमवर्षस्य निशितागिरिः, तृतीयं स्थानं स्नातकविशेषतृतीयवर्षस्य आराधना चिंकीरूहेला स्नातकद्वितीय-वर्षस्य दीक्षागिलश्च प्राप्तवत्य: । प्रोत्साहनपुरस्कारै: परास्नातक-पूर्वार्द्धस्य जया, स्नातकविशेषद्वितीयवर्षस्य प्रियङ्काशर्मा, स्नातक-विशेषप्रथमवर्षस्य निधिबाला च पुरस्कृताः । निर्णायकमण्डले डॉ. अनितास्वामीमहाभागा:, डॉ. मायवर्मामहाभागा: समुपस्थिता आसन् । छात्रासञ्चालिकारूपेण सुश्री चञ्चलः स्वकर्त्तव्यस्य सम्यग्रूपेण निर्वहणं कृतवती ।
Photographs View
Events’ Name & Date
2.Inter-college Paper Presentation 03rd April, 2019 (Wednesday)
Report
अप्रैलमासस्य त्रितारिकायां संस्कृताध्ययनशोधकेन्द्रसंस्कृतविभागा-भ्याम् संयुक्तरूपेण आयोजिता तथा स्वर्गीया डॉ.सुमनमहेन्द्रू-महोदयायाः प्रायोजिता प्रथम-अन्तर्महाविद्यालयीयपत्रवाचन-प्रतियोगिता सफलतापूर्वकेण सम्पन्ना । संस्कृताध्ययनशोध-केन्द्रस्य अध्यक्षाः इन्द्रप्रस्थमहिलामहाविद्यालयस्य प्राचार्याश्च परमादरणीयाः डॉ.बाबलीमोईत्रासराफमहोदया स्वप्रेरणास्पदसंक्षिप्त-व्याख्यानेन प्रतियोगितायाः शुभारम्भं कृतवत्यः । स्नातक-तृतीयवर्षस्य छात्रा ऋचा स्नातकद्वितीयवर्षस्य छात्रा निकिता शर्मा वैदिकमङ्गलाचरणं कृतवत्यौ । इत्यस्यां प्रतियोगितायां एकोनविंशतिछात्राः स्वपूर्णपत्राणां प्रेषणं कृतवत्यः आसन् । तासु छात्रासु अष्टादशछात्राः पत्रप्रस्तुत्यर्थं चयनिताः । यासु षोडशछात्राः पत्राणां वाचनं कृतवत्यः । यासु इन्द्रप्रस्थमहिलामहाविद्यालयस्य संस्कृतस्य परास्नातक-उत्तरार्द्धस्य निहिता कुमारी “ संस्कृत शास्त्रों में वर्णित वनस्पति विज्ञान एवं वर्तमान विश्व में उनकी उपयोगिता” साक्षी “संस्कृत वाङ्मय में कृषिविज्ञान” च परास्नातकपूर्वार्द्धस्य चञ्चलः “ संस्कृत शास्त्रों की वर्तमान सन्दर्भ में प्रासङ्गिकता ” मोक्षा शर्मा “ Influence of Yoga in 21 st Century ”, गीता “ वर्तमान परिप्रेक्ष्य में आयुर्वेदिक औषधियों का महत्त्व”, शिवानी दूबे “ वर्तमान समय में वेदों की प्रासङ्गिकता ”, स्नातकविशेष तृतीयवर्षस्य सोनामिका “ आयुर्वेद में समग्र स्वास्थ्य की अवधारणा”, पूजा सिंहः “वर्तमान सन्दर्भ में योगशास्त्र का महत्त्व (श्रीमद्भगवद्गीता के विशेष सन्दर्भ में)”, स्नातकविशेषप्रथमवर्षस्य कथानिका “ Relevance of Sanskrit Ś āstras in modern time ”, अर्चना सारण “ वर्तमान समय में संस्कृत शास्त्रों में वर्णित योग का महत्त्व ”, इन्द्रप्रस्थमहिलामहाविद्यालयस्य गणितविभागस्य द्वितीयवर्षस्य आयुषीजैनः “ वैदिक गणित की उपयोगिता एवं महत्त्व ”, लेडीश्रीराममहाविद्यालयस्य स्नातकविशेषसंस्कृततृतीयवर्षस्य निधिझा “ संस्कृतग्रन्थस्य प्रासङ्गिकता ”, मातासुन्दरीमहिलामहाविद्यालयस्य स्नातकविशेष-संस्कृततृतीयवर्षस्य सुधा सिंहः “ गुप्तचर - प्रणाली ( कौटिल्य अर्थशास्त्र के विशेष सन्दर्भ में ) ”, स्नातक-विशेषसंस्कृततृतीयवर्षस्य खुशबू कुमारी “ पर्यावरण सुरक्षा (कालिदास के ग्रन्थों के विशेष सन्दर्भ में)”, स्नातकविशेषसंस्कृतद्वितीयवर्षस्य डौलीजैनः “ कौटिल्य अर्थशास्त्र में लोककल्याण ” स्नातकविशेषसंस्कृत-तृतीयवर्षस्य अर्चना-उपाध्यायः “ वेदों में पर्यावरण ” इति विषयाणां सुष्टुप्रकारेण प्रस्तुतीकरणं कृतवत्य: । अस्यां पत्रवाचनप्रतियोगितायां प्रथमं स्थानं संयुक्तरूपेण इन्द्रप्रस्थमहिलामहाविद्यालयस्य परास्नातक-उत्तरार्द्धस्य निहिता कुमारी परास्नातक-पूर्वार्द्धस्य चञ्चलः, द्वितीयं स्थानं संयुक्तरूपेण इन्द्रप्रस्थमहिलामहा-विद्यालयस्य परास्नातकपूर्वार्द्धस्य मोक्षा शर्मा स्नातकविशेषप्रथमवर्षस्य कथानिका च, तृतीयं स्थानं संयुक्तरूपेण इन्द्रप्रस्थमहिलामहाविद्यालस्य गणितविभागस्य स्नातकविशेष-तृतीयवर्षस्य आयुषीजैनः संस्कृतविभागस्य स्नातकविशेषतृतीय-वर्षस्य सोनामिका च विशेषपुरस्कारं लेडीश्रीराममहाविद्यालयस्य स्नातकविशेषतृतीयवर्षस्य निधिझा च प्राप्तवत्य: । प्रतियोगितायामस्यां बाह्यनिर्णायकरूपेण डॉ. श्रीवत्समहोदयाः अन्तर्निर्णा-यकरूपेण डॉ. अनितास्वामीमहोदयाश्च उपस्थिता आसन् । अस्माकं विभागस्य वरिष्ठाप्राध्यापिकापरमादरणीयाभिः डॉ. अनितास्वामीमहो-दयाभिः स्वप्रेरणास्पदवक्तव्येन सम्यक्प्रकारेण अस्माकम् उत्साहवर्धनं कृतवत्य: तथा बाह्यनिर्णायकमहोदयानां, प्राध्यापकानां, प्राध्यापिकानां, प्रतिभागिनीछात्राणां श्रोतृणादिनाञ्च कृते धन्यवादं प्रदत्तवत्य: । छात्रासञ्चालिकारूपेण सुश्री मोक्षाशर्मा स्वकर्त्तव्यस्य सम्यग्रूपेण निर्वहणं कृतवती ।
Photographs View
Events’ Name & Date
3. Inter-College Competition 10 April, 2019 (Wednesday)
Report
अप्रैलमासस्य दशतारिकायाम् भूतपूर्वछात्रावार्तालापकार्यक्रमः अन्तर्महाविद्यालयीयवेदमन्त्रोच्चारणप्रश्नमञ्च-अक्षरश्लोकप्रतियो-गिताश्च आयोजिताः । अन्तर्महाविद्यालयीयवेदमन्त्रोच्चारण-प्रतिस्पर्धायां इन्द्रप्रस्थमहिलामहाविद्यालयस्य निकिता शर्मा प्रथमं स्थानं, इन्द्रप्रस्थमहिलामहाविद्यालयस्य ऋचा द्वितीयं स्थानं, किरोड़ीमलमहाविद्यालयस्य अभि-षेकः रामजसमहाविद्यालयस्य आशुतोषपाण्डेयश्च संयुक्तरूपेण तृतीयं स्थानं प्राप्तवन्तः । इन्द्रप्रस्थमहिलामहाविद्यालय: विजेता सम्भूत: तथा चलवैजयन्ती हंसराजमहाविद्यालयाय प्रदत्ता । अन्तर्महाविद्यालयीयप्रश्नमञ्च-प्रतिस्पर्धायां किरोड़ीमलमहाविद्यालयस्य आशुकुमारठाकुरप्रणव-पाण्डेयश्च संयुक्तरूपेण प्रथमं स्थानं, हिन्दूमहाविद्यालयस्य विष्णुकुमारमिश्राहर्षितश्च संयुक्तरूपेण द्वितीयं स्थानं, जाकिरहुसैनमहाविद्यालयस्य निकिताशर्मा सुमितशर्मा च संयुक्तरूपेण तृतीयं स्थानं प्राप्तवन्त: । चलवैजयन्ती किरोड़ीमलमहाविद्यालयाय प्रदत्ता । अन्तर्महाविद्यालयीय-अक्षर-श्लोकप्रतिस्पर्धायां सेन्टस्टीफेन्समहाविद्यालयस्य सत्यार्थग्रोवरः प्रथमं स्थानं, किरोड़ीमलमहाविद्यालयस्य आशुकुमार-ठाकुरः इन्द्रप्रस्थमहिलामहाविद्यालयस्य सुरुचिश्च संयुक्तरूपेण द्वितीयं स्थानं, इन्द्रप्रस्थमहिलामहाविद्यालयस्य सरिता च तृतीयं स्थानं प्राप्तवन्त: । चलवैजयन्ती किरोड़ीमलमहाविद्यालयाय प्रदत्ता । निर्णायकमण्डले जाकिरहुसैनसांध्यमहाविद्यालयस्य सेवानिवृत्ताः वरिष्ठाः प्राध्यापिकाः डॉ. प्रवेशसक्सेनामहाभागाः, जामियामिलिया-इस्लामियाविश्वविद्यालयस्य डॉ. अभयकुमार-शाण्डिल्यमहाभागाः तथा इन्द्रप्रस्थमहिलामहाविद्यालयस्य संस्कृतविभागाध्यक्षा डॉ. मायावर्मामहाभागाः समुपस्थिता आसन् । अस्मिन् दिवसे अस्माकं संस्कृतविभागस्य भूतपूर्वाछात्राभिः प्रो.प्रवेशसक्सेनामहोदयाभिः महाविद्यालयस्य स्वानुभवं प्रकटितं स्वरचितानि सुन्दराणि पद्यानि प्रस्तुतानि च । छात्रासञ्चालिकारूपेण सुश्री चञ्चलः स्वकर्त्तव्यस्य सम्यग्रूपेण निर्वहणं कृतवती ।
Photographs View
Events’ Name & Date
4. Santaben Nancybhai Popat Memorial Lecture, Annual Day, & Farewell 24 April, 2019 (Wednesday)
Report
अप्रैलमासस्य चतुर्विंशतितारिकायां डॉ. याज्ञसेनीपोपटसहायसहयोगेन शान्ताबेननैन्सीभाईपोपट-स्मारकव्याख्यानं “अद्वैतवेदान्त की वर्तमान सन्दर्भ में प्रासंगिकता” इतिविषयमधिकृत्य आयोजितम् । व्याख्यानेऽस्मिन वक्तारूपेण श्रीलालबहादुरराष्ट्रीयसंस्कृतविद्या-पीठस्य अद्वैतवेदान्तविभागस्य सहायकाचार्याः डॉ.सतीशके.एस.-महोदयाः समुपस्थिताः आसन् । स्वप्रेरणास्पदव्याख्याने भवद्भि: अद्वैतवेदान्तस्य वर्तमानयुगे प्रासङ्गिकताविषयकसिद्धान्ताः सम्यक्तया प्रतिपादिताः । अस्मिन् दिवसे एव विभागस्य वार्षिकोत्सवः अपि आयोजितः । अस्य कार्यक्रमस्य मुख्यातिथिः डॉ.सतीशके.एस.महाभागाः आसन् । अस्मिन् कार्यक्रमे निकिताशर्माकिरणश्च मङ्गलाचरणं कृतवत्यौ, ऋचा वैदिकप्रार्थनां कृतवती, ज्योतिश्रीवास्तवः स्तोत्रगायनं कृतवती, चञ्चलः संस्कृतपरिषदः गतवर्षस्य वार्षिकविवरणं पठितवती । मुख्यातिथिडॉ.सतीशके.एस.महाभागाः, अस्माकं संस्कृतविभागस्य वरिष्ठाप्राध्यापिकाः डॉ. अनितास्वामीमहोदयाः संस्कृतविभागस्य विभागाध्यक्षाः डॉ. मायावर्मामहोदयाः छात्राणां पुरस्कारवितरणं, प्रमाणपत्रवितरणमपि कृतवन्तः । कार्यक्रमस्यान्ते सर्वेषां सर्वासां धन्यवादज्ञापनं सम्भूतम् ।
Photographs View
Departmental Event Calendar (July-November 2018)
Academic Society Event Reports (July to December 2018) :
Events’ Name & Date
1.Sanskrit Divasa Celebration 20 th September, 2018 (Thursday)
Report
सितम्बरमासस्य विंशतितारिकायां संस्कृतदिवससमारोह आयोजितः । अस्मिन् दिवसे अस्माकं प्राचार्याः डॉ. बाबलीमोईत्रासराफमहोदयाः संस्कृत-अध्ययन-एवंशोधकेन्द्रस्य उद्घाटनमपि कृतवत्यः । सभायां सर्वेषाम् अभिनन्दनं कृत्वा समारोहस्य आरम्भः कृतः । अस्मिन्नवसरे मुख्यातिथिरूपेण तथा मुख्यवक्तृरूपेण संस्कृताध्ययन-एवंप्राच्यविद्या-संस्थानजवाहरलालनेहरू-विश्वविद्यालयस्य आचार्याः प्रो. रामनाथझामहोदयाः समुपस्थिता आसन् । अस्मिन् दिवसे छात्राभि: वैदिकप्रार्थना, शिवसङ्कल्पसूक्तस्य मन्त्रोच्चारणञ्च प्रस्तुताः । अस्माकं प्राचार्यामहोदयाः उक्तवत्यः यत् पारम्परिकसंस्कृताध्ययनं कृत्वा सम्प्रति अविज्ञातज्ञानस्य विस्मृतज्ञानस्य वा अवबोधनस्य महती आवश्यकता वर्तते । समारोहेऽस्मिन् स्नातकवर्षीयछात्राभिः डॉ.मिथिलेशकुमारीमिश्राविरचितं आकाङ्क्षानामधेयानाटकं सम्यक्तया प्रस्तुतम् । अस्मिन् नाटके आराधनाप्रियंकारूचिनिकितानिशिताकल्पनापूजाज्योतिप्रत्याशा-लाडलीविजेतासानियाः आसन् । मुख्यवक्तृरूपेण प्रो. रामनाथझामहोदयै उक्तम् यत् पाश्चात्यज्ञानस्य स्थले भारतीयज्ञानस्य महत्त्वं सर्वाधिकं वर्तते किन्तु वयं भारतीयज्ञानस्य महत्त्वं न दद्मः इति चिन्तायाः विषयो वर्तते । भवद्भिः स्वप्रेरणादायके सम्भाषणे उक्तं यत् संस्कृतं बिना भारतीयपरम्परायाः अवबोधनं सम्यक्तया न भविष्यति । अतः संस्कृताध्ययनस्य महती आवश्यकता वर्तते । कार्यक्रमस्य संयोजिकारूपेण डॉ. अनितास्वामीमहाभागाः आसन् । कार्यक्रमस्य सञ्चालिकारूपेण स्नातकवर्षीयछात्रे चञ्चलः तथ ऋचा स्वकर्त्तव्यस्य सुष्टुप्रकारेण निर्वहणं कृतवत्यौ ।
Photographs View
Events’ Name & Date
2. Inter-class Veda-mantroccāraṇa 27th September , 2018 (Thursday)
Report
सितम्बरमासस्य सप्तविंशतितारिकायां वेदमन्त्रोच्चारणप्रतिस्पर्धा समायो-जिता । अस्यां प्रतियोगितायां प्रथमं स्थानं संयुक्तरूपेण स्नातकतृतीयवर्षस्य ऋचा तथा द्वितीयवर्षस्य निकिताशर्मा, द्वितीयं स्थानं संयुक्तरूपेण स्नातकद्वितीयवर्षस्य ज्योतिश्रीवास्तवः तथा सानियामिर्जा, तृतीयं स्थानमपि स्नातकप्रथमवर्षस्य निशितागिरि च प्राप्तवत्य: । प्रोत्साहन-पुरस्कारं स्नातकतृतीयवर्षस्य आराधना प्राप्तवती । निर्णायकमण्डले डॉ.अनितास्वामीमहाभागाः तथा डॉ.प्रियङ्का-उपाध्यायमहाभागा उपस्थिता आसन् । सञ्चालिका-रूपेण सुश्री-आराधना स्वकर्त्तव्यस्य निर्वहणं सुष्टुप्रकारेण कृतवती ।
Photographs View
Events’ Name & Date
3.Inter-class Recitation 4th October, 2018 (Thursday)
Report
अक्तूबरमासस्य चतुश्तारिकायाम् अन्तःकक्षीयश्लोकावृत्तिप्रतिस्पर्धा समायोजिता । प्रतियोगितायामस्यां कनीयोवर्गे प्रथमं स्थानं प्रथमवर्षस्य रिचिका रानी, द्वितीयं स्थानं दीपिका शर्मा, तृतीयं स्थानं कथानिका च प्राप्तवत्यः । ज्यायोवर्गे प्रथमं स्थानं परास्नातक-उत्तरार्द्धस्य रश्मिप्रभा, द्वितीयं स्थानं परास्नातकपूर्वार्द्धस्य सुरुचिः, तृतीयं स्थानं स्नातकद्वितीयवर्षस्य निकिता शर्मा च प्राप्तवत्यः । छात्राणाम् उत्साहवर्द्धनार्थं प्रोत्साहनपुरस्कारेण स्नातकद्वितीयवर्षस्य भावना डे तथा स्नातकप्रथमवर्षस्य शिम्पी चापि पुरस्कृते । निर्णायकमण्डले डॉ. मायावर्मामहाभागाः तथा डॉ. आयुषगुप्तामहाभागाः समुपस्थिता आसन् । सञ्चालिकारूपेण सुश्री-आराधना स्वकर्त्तव्यस्य निर्वहणं सुष्टुप्रकारेण कृतवती ।
Photographs View
Events’ Name & Date
4.Inter-class Paper Presentation 10th October, 2018 (Wednesday)
Report
अक्तूबरमासस्य दसतारिकायां I mportance of Sanskrit Śāstras इति विषयमधिकृत्य पत्रवाचनकार्यक्रम: सम्पन्न: । इत्यस्मिन् कार्यक्रमे अष्टाविंशतिछात्राः स्वपत्राणां वाचनं कृतवत्य: । तासु छात्रासु स्नातकतृतीयवर्षस्य के.एम.शिवानी “नाट्यशास्त्र का महत्त्व”, शालू “शिवसङ्कल्पानुसार मन के स्वरूप का वर्णन”, रुचियादवः “अष्टाङ्गयोग का महत्त्व”, पूजासिंहः “श्रीमद्भगवद्गीतानुसार योग का स्वरूप”, ज्योतिः(००६) “प्राचीन नाट्यगृह की वास्तुयोजना”, सीमा कुमारी “आयुर्वेद की विशेषतायें”, स्नातकद्वितीयवर्षस्य निकिताशर्मा “न्याय-व्यवस्था”, ज्योतिश्रीवास्तवः “संगीतशास्त्र का महत्त्व”, किरणकुमारी “प्राचीन भारतीय लिपियों का उद्भव”, वैशालीभारद्वाजः “धर्मशास्त्रानुसार विवाह-संस्कार का महत्त्व”, आर्याझा “राज्य का मण्डल-सिद्धान्त”, दिव्या “सप्ताङ्ग राज्य का स्वरूप”, नैन्सीगौरः “वर्णव्यवस्थ का महत्त्व”, विजतातोमरः “प्राचीन लेखन-सामग्री के स्वरूप का वर्णन”, दीक्षागिलः “संस्कृत वाङ्मय में चित्रकला का महत्त्व”, सानिया मिर्ज़ा “भारत में बदलती कर-नीतियाँ”, कोमलधामा “सप्ताङ्ग राज्य का महत्त्व”, महिमा “धर्म का वास्तविक स्वरूप” खुशबूजयसवालः “दण्डव्यवस्था” तथा स्नातकप्रथमवर्षस्य अर्चना “महाकवि कालिदास के महाकाव्यों का वर्णन”, मनकञ्चन “रामायण की विषयवस्तु”, निधिबाला “वेद का अर्थ एवं संहितायें”, ओजस्विता “महाकवि कालिदास की भाषाशैली”, रोली “महाकवि भर्तृहरि क रचनाओं का वर्णन”, रीना “कुमारसम्भव के पञ्चम सर्ग की विषय वस्तु”, कथानिका “महाभारत और रामायण की तुलना”, दीपिका शर्मा “कालिदास के गीतिकाव्य”, नीलम “” इति विषयाणां सुष्टुप्रकारेण प्रस्तुतीकरणं कृतवत्य: । अस्मिन् पत्रवाचनकार्यक्रमे प्रथमं स्थानं संयुक्तरूपेण स्नातकद्वितीयवर्षस्य निकिता शर्मा एवं स्नातकतृतीयवर्षस्य पूजासिंहः, द्वितीयं स्थानं संयुक्तरूपेण स्नातकतृतीयवर्षस्य शालू तथा स्नातकद्वितीयवर्षस्य दीक्षागिलः सानिया मिर्जा च, तृतीयं स्थानं संयुक्तरूपेण स्नातकतृतीयवर्षस्य सीमाकुमारी तथा स्नातकप्रथवर्षस्य कथानिका एवं प्रोत्साहनपुरस्कारं स्नातकद्वितीयवर्षस्य नैन्सीगौरः ज्योतिश्रीवास्तवश्च प्राप्तवत्यः प्राप्तवत्य: । कार्यक्रमेऽस्मिन् अध्यक्षारूपेण डॉ. मायावर्मामहोदयाः, निर्णायकरूपे डॉ. मायावर्मामहोदयाः तथा डॉ. प्रवीणकुमारद्विवेदी-महोदया उपस्थिता आसन् । भवतीभिः स्वप्रेरणास्पदवक्तव्येन सम्यक्प्रकारेण अस्माकम् उत्साहवर्धनं कृतवत्य: तथा छात्राणां मार्गदर्शनाय प्राध्यापिकानां प्राध्यपकानाञ्च धन्यवादं प्रदत्तवत्य: । छात्रासञ्चालिकारूपे सुश्रीनिकिताशर्मा स्वकर्त्तव्यस्य सम्यग्रूपेण निर्वहणं कृतवती ।
Photographs View
Events’ Name & Date
5. Inter-class Sanskrit Speech Competition 11th October, 2018 (Thursday)
Report
अक्तूबरमासस्य एकादशतारिकायां कक्षासु परस्परं गद्यपाठप्रतिस्पर्धा समायोजिता । एतस्यां प्रतिस्पर्धायां प्रथमं स्थानं स्नातकद्वितीयवर्षस्य निकिताशर्मा, द्वितीयं स्थानं संयुक्तरूपेण स्नातकद्वितीयवर्षस्य ज्योतिश्रीवास्तवः तथा स्नातकप्रथमवर्षस्य अर्चना तथा तृतीयं स्थानं स्नातकप्रथमवर्षस्य रीचिका च प्राप्तवत्य: । प्रोत्साहनपुरस्कारेण स्नातकप्रथमवर्षस्य मानसी दीपिका शर्मा च पुरस्कृते । निर्णायकमण्डले डॉ. गीतारानीमहाभागाः, श्रीमत्-ओमप्रकाशमहोदया: समुपस्थिता आसन् । छात्रासञ्चालिकारूपेण सुश्री निकिताशर्मा स्वकर्त्तव्यस्य सम्यग्रूपेण निर्वहणं कृतवती ।
Photographs View
Events’ Name & Date
6.Aksharashloka Competition 25th October, 2018 (Thursday)
Report
अक्तूबरमासस्य पञ्चविंशतितारिकायां अन्तर्वर्गीया अक्षरश्लोक-प्रतियोगिता समायोजिता । इत्यस्यां प्रतियोगितायां विजेतृदलरूपे स्नातकतृतीयवर्षः पुरस्कृतः । प्रतियोगितायामस्यां प्रथमं स्थानं परास्नातकपूर्वार्द्धस्य छात्रा सुरुचिः, द्वितीयं स्थानं स्नातकतृतीयवर्षस्य छात्रा सीमा कुमारी, तृतीयं स्थानं स्नातकप्रथमवर्षस्य छात्रा रिचिका रानी च प्राप्तवत्य: । निर्णायकमण्डले डॉ.प्रवीणकुमारद्विवेदीमहोदयाः डॉ.गीतारानीमहाभागाश्च समुपस्थिता आसन् । छात्रासञ्चालिकारूपेण सुश्रीश्चञ्चलः स्वकर्त्तव्यस्य सम्यग्रूपेण निर्वहणं कृतवती ।
Photographs View
Events’ Name & Date
7.Inter-class Quiz Competition 1st November, 2018 (Thursday)
Report
नवम्बरमासस्य एकतारिकायां प्रश्नमञ्चप्रतिस्पर्धा समायोजिता । अस्यां प्रतियोगितायां परा-स्नातकपूर्वाद्धे प्रथमं स्थानं संयुक्तरूपेण चञ्चलः मञ्जू च, स्नातकतृतीयवर्षे प्रथमं स्थानं रुचियादवः, स्नातकद्वितीयवर्षे प्रथमं स्थानं निकिताशर्मा, स्नातकप्रथमवर्षे प्रथमं स्थानं कल्पना च प्राप्तवत्यः । निर्णायकमण्डले सुश्रीकल्पनाकुमारीमहोदयाः श्रीमन्त ओमप्रकाश-महोदयाः समुपस्थिता आसन् । छात्रासञ्चालिकारूपेण सुश्रीश्चञ्चलः स्वकर्त्तव्यस्य सम्यग्रूपेण निर्वहणं कृतवती ।
Upcoming Events January to May 2018
Calendar of Departmental Events - (January - May) 2018
Academic Society Event Reports :
Events’ Name & Date
Aksharshlok Competition 10 th March, 2018 (Saturday)
Report
मार्चमासस्य दसतारिकायां अन्तर्वर्गीया अक्षरश्लोक-प्रतियोगिता समायोजिता । इत्यस्यां प्रतियोगितायां विजेतृदलरूपे स्नातक-(बी.ए.)द्वितीयवर्षः पुरस्कृतः । प्रतियोगितायामस्यां विशेषपुरस्कारेण स्नातक-(बी.)द्वितीयवर्षस्य रूचियादव-आराधने च पुरस्कृते । निर्णायक-मण्डले डॉ.अनितास्वामीमहाभागाः तथा डॉ. प्रवीणकुमारद्विवेदिमहाभागा आसन् ।
Photographs View
Events’ Name & Date
2. Students’ Paper Presentation 13th March, 2018(Tuesday)
Report
मार्चमासस्य त्रयोदशतारिकायां “ Relevance of Sanskrit Shastras in 21 st Century ” इति विषयमधिकृत्य पत्रवाचनकार्यक्रम: सम्पन्न: । इत्यस्मिन् कार्यक्रमे पञ्चविंशतिछात्रा: स्वपत्राणां वाचनं कृतवत्य: । कार्यक्रमेऽस्मिन् अध्यक्षारूपेण डॉ. अनितास्वामीमहोदया:, निर्णायकरूपे डॉ. अनितास्वामी-महोदया: तथा डॉ. मायावर्मामहोदया उपस्थिता आसन् । भवतीभि: स्वप्रेरणास्पदवक्तव्येन सम्यक्प्रकारेण अस्माकम् उत्साहवर्धनं कृतवत्य: तथा छात्राणां मार्गदर्शनाय प्राध्यापिकानां प्राध्यपकानाञ्च धन्यवादं प्रदत्तवत्य: । छात्रासञ्चालिकारूपे सुश्री मोक्षाशर्मा स्वकर्त्तव्यस्य सम्यग्रूपेण निर्वहनं कृतवती ।
Photographs View
Events’ Name & Date
3.Inter-class Drama Competition 21st March, 2018(Wednesday)
Report
मार्चमासस्य एकविंशतितारिकायाम् अन्तर्कक्षीयानाटकप्रतिस्पर्धा समायोजिता । तस्यां प्रति-स्पर्धायां परास्नातक-उत्तरार्द्धस्य छात्राभि: महाकविशूद्रकप्रणीतमृच्छकटिकस्य अष्टमाङ्कस्य, डॉ. आयुषगुप्तमहोदयनिर्देशने स्नातक(बी.ए.)-तृतीयवर्षस्य छात्राभि: महाकविभासप्रणीत-स्वप्नवासवदत्तस्य षष्ठाङ्कस्य, डॉ.गीतारानीमहोदयानिर्देशने स्नातक(बी.ए.)-द्वितीयवर्षस्य छात्राभि: महाकविकालिदासप्रणीत-अभिज्ञानशाकुन्तलस्य चतुर्थाङ्कस्य तथा डॉ. प्रवीणकुमारद्विवेदीश्रीमतीसरितामहोदययोश्च निर्देशने महाकविभासप्रणीतस्वप्नवासवदत्तस्य पञ्चमाङ्कस्य सम्यक्तया मञ्चनं कृतम् । विजेतृदलरूपे स्नातक-(बी.ए.)द्वितीयवर्षः उद्घोषितः । नाट्यमञ्चनमध्ये पात्ररूपे प्रथमं स्थानं स्नातक(बी.ए.)द्वितीयवर्षस्य आराधना, द्वितीयं स्थानं स्नातक(बी.ए.)द्वितीयवर्षस्य ऋचा एवं तृतीयं स्थानं स्नातक(बी.ए.)प्रथमवर्षस्य निकिता शर्मा च प्राप्तवत्य: । प्रोत्साहनपुरस्कारेण परास्नातक(एम.ए.)उत्तरार्द्धस्य पूजादयालश्च प्राप्तवत्य: । निर्णायकमण्डले डॉ. उदयायोगीमहाभागाः, डॉ. अनितास्वामीमहाभागा: तथा डॉ. मायावर्मामहाभागा: समुपस्थिता आसन् ।
Photographs View
Events’ Name & Date
4.Inter-College Competition 31st March, 2018(Saturday)
Report
मार्चमासस्य एकत्रिंशत्-तारिकायाम् अन्तर्महाविद्यालयीयवेदमन्त्रोच्चारणप्रतिस्पर्धा समायोजिता। अस्यां प्रतिस्पर्धायां हंसराजमहाविद्यालयस्य शशिकान्तमिश्रः प्रथमं स्थानं, राजधानीमहाविद्यालयस्य अम्बरीशः द्वितीयं स्थानं, सेन्टस्टीफनमहाविद्यालयस्य ऋतम्भरा तृतीयं स्थानं प्राप्तवन्त: । इन्द्रप्रस्थमहिलामहाविद्यालय: विजेता सम्भूत: तथा चलवैजयन्ती हंसराजमहाविद्यालयाय प्रदत्ता ।
मार्चमासस्य एकत्रिंशत्-तारिकायाम् अन्तर्महाविद्यालयीय-अक्षरश्लोकप्रतिस्पर्धा समायोजिता । अस्यां प्रतिस्पर्धायां संयुक्तरूपेण हिन्दूमहाविद्यालयस्य भास्कर-उप्रैती तथा इन्द्रप्रस्थ-महिलामहाविद्यालयस्य ऋतुशर्मा प्रथमं स्थानं, हिन्दूमहाविद्यालयस्य सत्यार्थग्रोवरः द्वितीयं स्थानं, किरोड़ीमलमहाविद्यालयस्य आशुकुमारठाकुरः तृतीयं स्थानं, संयुक्तरूपेण देशबन्धुमहाविद्यालयस्य मनीषकुमारः तथा आशुतोषकुमारझा चतुर्थं स्थानं, प्रोत्साहनपुरस्कारं इन्द्रप्रस्थमहिलामहाविद्यालयस्य साक्षी तथा किरोड़ीमलमहाविद्यालयस्य दीपकशर्मा प्राप्तवन्त: । हिन्दूमहाविद्यालय: विजेता सम्भूत: तथा चलवैजयन्ती हिन्दूमहाविद्यालयाय प्रदत्ता ।
मार्चमासस्य एकत्रिंशत्-तारिकायां अन्तर्महाविद्यालयीय प्रश्नमञ्चप्रतिस्पर्धा समायोजिता। अस्यां प्रतिस्पर्धायां सेन्टस्टीफनमहाविद्यालयस्य ऋतम्भरा सोनिया च संयुक्तरूपेण प्रथमं स्थानं, रामजसमहाविद्यालयस्य संजयशर्मा कमलजीतश्च संयुक्तरूपेण द्वितीयं स्थानं, हिन्दूमहाविद्यालयस्य जितेन्द्रजोशीसत्यार्थग्रोवरश्च तथा हंसराजमहाविद्यालयस्य गणेशतिवारीदेवजायसवालश्च संयुक्तरूपेण तृतीयं स्थानं प्राप्तवन्त: । चलवैजयन्ती सेन्टस्टीफनमहाविद्यालयाय प्रदत्ता । निर्णायकमण्डले लक्ष्मीबाईमहाविद्यालयस्य डॉ. धर्माशर्मामहाभागा:, इन्द्रप्रस्थमहिलामहाविद्यालयस्य डॉ. अनितास्वामीमहाभागा: तथा देशबन्धुमहाविद्यालयस्य डॉ. सर्वेन्द्रकुमारमहाभागा: समुपस्थिता आसन् ।
Photographs View
Events’ Name & Date
5. Annual Day 23 th April, 2018 (Monday)
Report
अप्रैलमासस्य त्रयविंशतितारिकायां संस्कृतपरिषदः वार्षिकोत्सवः सम्पन्नः । अस्मिन् अवसरे कार्यक्रमस्य मुख्यातिथिरूपे जवाहरलालनेहरूविश्वविद्यालयस्य विशिष्टसंस्कृताध्ययनकेन्द्रस्य आचार्याः प्रो. रामनाथझामहोदयाः समुपस्थिता आसन् । कार्यक्रमस्य शुभारम्भे ऋचा वैदिकमङ्गलाचरणं कृतवती । साक्षीगुञ्जनशुभश्रीसरिताश्च संस्कृतगीतं प्रस्तुतवत्यः । पश्चात् साक्षी गतवर्षस्य संस्कृतपरिषदा आयोजितानां कार्यक्रमाणां सूचनां प्रदत्तवती । स्नातकद्वितीयवर्षस्य छात्राः महाकविकालिदासविरचितस्य अभिज्ञानशाकुन्तलस्य चतुर्थाङ्कस्य नाट्यमञ्चनं कृतवत्यः । सम्माननीयाः मुख्यातिथयः प्रो.रामनाथझामहोदयाः स्वसारगर्भितव्याख्याने उक्तवन्तः यत् मानवाः प्रकृतिं प्रति स्नेहयुक्ताः भवेयुः । संघर्षशीलाः प्राणिनः मधुराणि फलानि ददति । अस्माकं संस्कृतविभागाध्यक्षाः डॉ. अनितास्वामी-महोदयाः कार्यक्रमस्य धन्यवादज्ञापने मुख्यातिथि-महोदयानां, प्राध्यापिकानां, प्राध्यापकानां, छात्राणां, सर्वेषां सर्वासाञ्च धन्यवादज्ञापनमपि कृतवत्यः । कार्यक्रमस्य सञ्चा-लिकारूपे सुश्री-आकृतिठाकुरः स्वकर्त्तव्यस्य निर्वहणं सुष्टुप्रकारेण कृतवती ।
Photographs View