If you feel it is useful Please
अन्वयः-
अथ वायुः अनिलम् अमृतम् इदम् शरीरम् भस्मान्तम् क्रतो स्मर कृतम् स्मर ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
शाङ्करभाष्यम्
अथेदानीं मम मरिष्यतो वायुः प्राणः अध्यात्मपरिच्छेदं हित्वा अधिदैवतात्मानं सर्वात्मकं अनिलम् अमृतम् सूत्रात्मानं प्रतिपद्यताम् इति वाक्यशेषः । लिङ्गं चेदं ज्ञानकर्मसंस्कृतमुत्क्रामत्विति द्रष्टव्यम्, मार्गयाचनसामर्थ्यात् । अथ इदं शरीरमग्नौ हुतं भस्मान्तम् भस्मावशेषं भूयात् । ओमिति यथोपासनं ॐप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते । हे क्रतो सङ्कल्पात्मक स्मर यन्मम स्मर्तव्यं तस्य कालोऽयं प्रत्युपस्थितः, अतः स्मर एतावन्तं कालं भावितं कृतम् अग्ने स्मर यन्मया बाल्यप्रभृत्यनुष्ठितं कर्म तच्च स्मर । क्रतो स्मर कृतं स्मर इति पुनर्वचनमादरार्थम् ॥१७॥