नेहरूजन्मदिनम्
भारतवर्षस्य प्रथमः प्रधानमन्त्री पण्डितो जवाहरलालनेहरूः नवम्बरमासस्य चतुर्दशे दिवसे जातः। देशे विदेशे च लब्धविद्याभ्यासः नेहरूः भारतप्रजानां सर्वतोमुख्यै अभिवृद्ध्यै सदा अश्राम्यत्। नवभारतशिल्पी इति स वर्णितः इतिहासज्ञैः। तस्य जन्मदिनं शिशूनां दिनमिति आचर्यते। शिशूषु नेहरूमहाशस्य असीमा प्रेमा तत्र कारणम्। प्रजातन्त्रव्यवस्थायां जात्यतीतत्वे च तस्य अचलो विश्वास आसीत्। विज्ञानाधारेण देशस्य प्रगतिः साधनीया इति स पुनः पुनः ब्रवीति स्म। वैज्ञानिकं मनोभावं जनेषु जनयितुं तेन बहुधा प्रयतितम्।
नेहरूमहाशयः श्रेष्ठो लेखकश्चासीत्। आंग्लभाषायां तस्य प्रभुत्वं प्रश्नातीतम्। तस्य ग्रन्थानां पठनेन भारतदेशस्येतिहासः स्पष्टं ज्ञायते। सर्वेषु मतधर्मेषु समानं गौरवं रक्षणीयमिति तत्वं तेन राष्ट्रनायकेन तत्र प्रतिपादितम्।
Version without sandhis
नेहरू-जन्म-दिनम्
भारतवर्षस्य प्रथमः प्रधान-मन्त्री पण्डित: जवाहरलाल-नेहरूः नवम्बर-मासस्य चतुर्दशे दिवसे जातः। देशे विदेशे च लब्ध-विद्या-अभ्यासः नेहरूः भारत-प्रजानाम् सर्वत:मुख्यै अभिवृद्ध्यै सदा अश्राम्यत्। नव-भारत-शिल्पी इति स: वर्णितः इतिहास-ज्ञैः। तस्य जन्म-दिनम् शिशूनाम् दिनम् इति आचर्यते। शिशूषु नेहरू-महाशस्य असीमा प्रेमा तत्र कारणम्। प्रजातन्त्र-व्यवस्थायाम् जाति-अतीतत्वे च तस्य अचल: विश्वास: आसीत्। विज्ञान-आधारेण देशस्य प्रगतिः साधनीया इति स: पुनः पुनः ब्रवीति स्म। वैज्ञानिकम् मन:भावम् जनेषु जनयितुम् तेन बहुधा प्रयतितम्।
नेहरू-महाशयः श्रेष्ठ: लेखक: च आसीत्। आंग्ल-भाषायाम् तस्य प्रभुत्वम् प्रश्न-अतीतम्। तस्य ग्रन्थानाम् पठनेन भारत-देशस्य इतिहासः स्पष्टम् ज्ञायते। सर्वेषु मत-धर्मेषु समानम् गौरवम् रक्षणीयम् इति तत्वम् तेन राष्ट्र-नायकेन तत्र प्रतिपादितम्।
Inter linear, literal translation
नेहरू-जन्म-दिनम् Nehru's birthday
भारतवर्षस्य India's प्रथमः first प्रधान-मन्त्री prime minister पण्डित: जवाहरलाल-नेहरूः Pandit Jawaharlal Nehru नवम्बर-मासस्य November month's चतुर्दशे on 14th दिवसे on day जातः was born। देशे In country विदेशे in foreign country च and लब्ध-विद्या-अभ्यासः educated नेहरूः Nehru भारत-प्रजानाम् Indians' सर्वत:मुख्यै for all round अभिवृद्ध्यै for growth सदा always अश्राम्यत् toiled। नव-भारत-शिल्पी Modern India's Architect इति so स: he वर्णितः described इतिहास-ज्ञैः by historians। तस्य His जन्म-दिनम् birthday शिशूनाम् children's दिनम् day इति so आचर्यते is followed। शिशूषु In children नेहरू-महाशस्य Nehru gentleman's असीमा boundless प्रेमा love तत्र there कारणम् reason। प्रजातन्त्र-व्यवस्थायाम् in democracy system जाति-अतीतत्वे in antiquity of caste system च and तस्य his अचल: firm विश्वास: belief आसीत् was। विज्ञान-आधारेण through science-foundation देशस्य country's प्रगतिः growth साधनीया achievable इति so स: he पुनः again पुनः again ब्रवीति says स्म in past। वैज्ञानिकम् scientific मन:भावम् mindset जनेषु in people जनयितुम् to create तेन by him बहुधा often प्रयतितम् attempted.
नेहरू-महाशयः Nehru gentleman श्रेष्ठ: excellent लेखक: writer च also आसीत् was। आंग्ल-भाषायाम् in English language तस्य his प्रभुत्वम् mastery प्रश्न-अतीतम् question-beyond। तस्य his ग्रन्थानाम् books' पठनेन by reading भारत-देशस्य India-country's इतिहासः history स्पष्टम् clear ज्ञायते is known। सर्वेषु in all मत-धर्मेषु in beliefs and religions समानम् equal गौरवम् respect रक्षणीयम् to be kept इति so तत्वम् matter तेन by him राष्ट्र-नायकेन by nation-leader तत्र there प्रतिपादितम् propounded।
Natural translation
Nehru's Birthday
India's first prime minister, Pandit Jawaharlal Nehru was born on 14th November. Educated in India and abroad, Nehru always toiled towards all round growth of Indians. Historians describe him as the Architect of Modern India. His birthday is celebrated as Children's Day. His boundless love for children is the reason behind this. He had firm belief in democracy and irrelevance of caste system. He repeatedly said that the progress of the country was to be achieved based on science. He often tried to instill scientific mindset among people.
Nehru was also an excellent writer. His command over English language was indisputable. One can understand the history of India by reading his books. As a national leader, he emphasized on equal treatment of all faiths and religions.