ॐ
श्रीपरमात्मने नमः ।
हरिः ॐ ॥
शुक्लाम्बरधरं(व्ँ) विष्णुं(म्) शशिवर्णं(ञ्) चतुर्भुजम् ।
प्रसन्नवदनं(न्) ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥
व्यासं(व्ँ) वसिष्ठनप्तारं(म्) शक्तेः(≍) पौत्रमकल्मषम् ।
पराशरात्मजं(व्ँ) वन्दे शुकतातं(न्) तपोनिधिम् ॥ ३॥
व्यासाय विष्णुरूपाय व्यारूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४॥
अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५॥
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६॥
ॐ नमो विष्णवे प्रभविष्णवे ॥
श्रीवैशम्पायन उवाच
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः(श्) शान्तनवं(म्) पुनरेवाभ्यभाषत ॥ ७॥
युधिष्ठिर उवाच
किमेकं(न्) दैवतं(ल्) लोके किं(व्ँ) वाप्येकं परायणम् ।
स्तुवन्तः(≍) कं(ङ्) कमर्चन्तः प्राप्नुयुर्मानवाः(श्) शुभम् ॥ ८॥
को धर्मः(स्) सर्वधर्माणां(म्) भवतः(≍) परमो मतः ।
किं(ञ्) जपन्मुच्यते जन्तुः जन्मसंसारबन्धनात् ॥ ९॥
भीष्म उवाच
जगत्प्रभुं(न्) देवदेवम् अनन्तं पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण पुरुषः(स्) सततोत्थितः ॥ १०॥
तमेव चार्चयन्नित्यं(म्) भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११॥
अनादिनिधनं(व्ँ) विष्णुं(म्) सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं(म्) सर्वदुः(≍)खातिगो भवेत् ॥ १२॥
ब्रह्मण्यं सर्वधर्मज्ञं(म्) लोकानां(ङ्) कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं(म्) सर्वभूतभवोद्भवम् ॥ १३॥
एष मे सर्वधर्माणां(म्) धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं(म्) स्तवैरर्चेन्नरः(स्) सदा ॥ १४॥
(सत्वैर्-अर्चेन्-नरस्सदा)
परमं(य्ँ) यो महत्तेजः परमं(य्ँ) यो महत्तपः ।
परमं(य्ँ) यो महद्ब्रह्म परमं(य्ँ) यः(≍) परायणम् ॥ १५॥
पवित्राणां पवित्रं यो(:) मङ्गलानां(ञ्) च मङ्गलम् ।
दैवतं(न्) दैवतानां(ञ्) च भूतानां(य्ँ) योऽव्यय(≍) पिता ॥ १६॥
यतः(स्) सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं(य्ँ) यान्ति पुनरेव युगक्षये ॥ १७॥
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ १८॥
यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः(≍) परिगीतानि तानि वक्ष्यामि भूतये ॥ १९॥
ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ।
छन्दोऽनुष्टुप् तथा देवो(:) भगवान् देवकीसुतः ॥ २०॥
अमृतांशूद्भवो बीजं शक्तिर्देवकीनन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते ॥ २१॥
विष्णुं(ञ्) जिष्णुं महाविष्णुं(म्) प्रभविष्णुं महेश्वरम् ।
अनेकरूपदैत्यान्तं(म्) नमामि पुरुषोत्तमम् ॥ २२॥
ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ।
श्रीवेदव्यासो भगवान् ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीमहाविष्णुः(≍) परमात्मा श्रीमन्नारायणो देवता ।
अमृतांशूद्भवो भानुरिति बीजम् ।
देवकीनन्दनः(स्) स्रष्टेति शक्तिः ।
उद्भवः क्षोभणो देव इति परमो मन्त्रः ।
शङ्खभृन्नन्दकी चक्रीति कीलकम् ।
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।
रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ।
त्रिसामा सामगः(स्) सामेति कवचम् ।
आनन्दं परब्रह्मेति योनिः ।
ऋतुः(स्) सुदर्शनः(≍) काल इति दिग्बन्धः ।
श्रीविश्वरूप इति ध्यानम् ।
श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥
अथ ध्यानम् ।
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकते मौक्तिकानां
मालाकॢप्तासनस्थः(स्) स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूषवर्षैः
आनन्दी नः(≍) पुनीयाद् अरिनलिनगदाशङ्खपाणिर्मुकुन्दः ॥ १॥
भूः(≍) पादौ यस्य नाभिर्वियद्-असुर्-अनिलश्चन्द्रसूर्यौ च नेत्रे
कर्णावाशाः(श्) शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तः(स्)स्थं यस्य विश्वं सुर-नर-खग-गो-भोगि-गन्धर्व-दैत्यैः
चित्रं रंरम्यते तं(न्) त्रिभुवनवपुषं(व्ँ) विष्णुमीशं नमामि ॥ २॥
ॐ नमो भगवते वासुदेवाय ॥
ॐ शान्ताकारं भुजगशयनं(म्) पद्मनाभं सुरेशं(म्)
विश्वाधारं(ङ्) गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं(ङ्) कमलनयनं(म्) योगिभिर्ध्यानगम्यं (योगिहृद्ध्यानगम्यं)
वन्दे विष्णुं भवभयहरं(म्) सर्वलोकैकनाथम् ॥ ३॥
मेघश्यामं पीतकौशेयवासं(म्)
श्रीवत्साङ्कं(ङ्) कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं(व्ँ) वन्दे सर्वलोकैकनाथम् ॥ ४॥
नमः(स्) समस्तभूतानाम् आदिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ ५॥
सशङ्खचक्रं सकिरीटकुण्डलं(म्)
सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षः(स्)स्थलशोभिकौस्तुभं(म्)
नमामि विष्णुं शिरसा चतुर्भुजम् ॥ ६॥
छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याम् आयताक्षमलंकृतम् ।
चन्द्राननं(ञ्) चतुर्बाहुं(म्) श्रीवत्साङ्कितवक्षसं
रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ७॥
अथ स्तेत्रम् ।
हरिः ॐ ।
ॐ विश्वं(व्ँ) विष्णुर्वषट्कारो(:) भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो(:) भूतात्मा भूतभावनः ॥ १॥
पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः(≍) पुरुषः(स्) साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥
योगो योगविदां(न्) नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः(श्) श्रीमान् केशवः(≍) पुरुषोत्तमः ॥ ३॥
सर्वः(श्) शर्वः(श्) शिवः(स्) स्थाणुः भूतादिर्निधिरव्ययः ।
सम्भवो भावनो भर्ता प्रभवः(≍) प्रभुरीश्वरः ॥ ४॥
स्वयम्भूः(श्) शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५॥
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥
अग्राह्यः(श्) शाश्वतः(≍) कृष्णो(:) लोहिताक्षः(≍) प्रतर्दनः ।
प्रभूतस्त्रिककुद्धाम पवित्रं मङ्गलं परम् ॥ ७॥