ॐ श्रीपरमात्मने नमः
अथ प्रथमोऽध्यायः
धृतराष्ट्र उवाच
धर्मक्षत्रे कुरुक्षत्रे समवेता युयुत्सवः ।
मामकाः(≍) पाण्डवाश्चैव किमकुर्वत सञ्जय ।। (१-१)
सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं(म्) व्यूढं(न्) दुर्योधनस्तदा।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।। (१-२)
पश्यैतां पाण्डुपुत्राणां(म्) आचार्य महतीं(ञ्) चमूम्।
व्यूढां(न्) द्रुपदपुत्रेण तव शिष्येण धीमता।। (१-३)
अत्र शूरा महेष्वासा(:) भीमार्जुनसमा युधि।
युयुधानो विराटश्च द्रुपदश्च महारथः।। (१-४)
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः।। (१-५)
युधामन्युश्च विक्रान्त(:) उत्तमौजाश्च वीर्यवान्।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः।। (१-६)
अस्माकं(न्) तु विशिष्टा ये तान्निबोध द्विजोत्तम।
नायका मम सैन्यस्य संज्ञार्थं(न्) तान्ब्रवीमि ते।। (१-७)
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।। (१-८)
अन्ये च बहवः(श्) शूरा(:) मदर्थे त्यक्तजीविताः।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।। (१-९)
अपर्याप्तं(न्) तदस्माकं(म्) बलं भीष्माभिरक्षितम्।
पर्याप्तं(न्) त्विदमेतेषां(म्) बलं भीमाभिरक्षितम्।। (१-१०)
अयनेषु च सर्वेषु यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षन्तु भवन्तः(स्) सर्व एव हि।। (१-११)
तस्य संजनयन्हर्षं(म्) कुरुवृद्धः(≍) पितामहः।
सिंहनादं(व्ँ) विनद्योच्चैः शङ्खं(न्) दध्मौ प्रतापवान्।। (१-१२)
ततः(श्) शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्।। (१-१३)
ततः(श्) श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।
माधवः(≍) पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः।। (१-१४)
पाञ्चजन्यं हृषीकेशो(:) देवदत्तं(न्) धनंजयः।
पौण्ड्रं(न्) दध्मौ महाशङ्खं(म्) भीमकर्मा वृकोदरः।। (१-१५)
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलः(स्) सहदेवश्च सुघोषमणिपुष्पकौ।। (१-१६)
काश्यश्च परमेष्वासः शिखण्डी च महारथः।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः।। (१-१७)
द्रुपदो द्रौपदेयाश्च सर्वशः(≍) पृथिवीपते।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः(≍) पृथक्पृथक्।। (१-१८)
स घोषो धार्तराष्ट्राणां(म्) हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।। (१-१९)
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः।। (१-२०)
हृषीकेशं तदा वाक्यम् इदमाह महीपते।
अर्जुन उवाच
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत।। (१-२१)
यावदेतान्निरीक्षेऽहं(म्) योद्धुकामानवस्थितान्।
कैर्मया सह योद्धव्यम् अस्मिन्रणसमुद्यमे।। (१-२२)
योत्स्यमानानवेक्षेऽहं(म्) य एतेऽत्र समागताः।
धार्तराष्ट्रस्य दुर्बुद्धे: युद्धे प्रियचिकीर्षवः।। (१-२३)