🙏This site is under construction. 🙏Please co-operate with us.🙏
असम्भवं हेममृगस्य जन्म
तथापि रामो लुलुभे मृगाय।
प्रायः समापन्नविपत्तिकाले
धियोऽपि पुंसां मलिनीभवन्ति ॥१०॥
अन्वयः-
हेममृगस्य जन्म असम्भवम् तथापि रामः मृगाय लुलभे प्रायः समापन्नविपत्तिकाले पुंसां धियः अपि मलिनीभवन्ति
समासपरिचयः
=============
समापन्न-विपत्ति-काले
समापन्नः विपत्तिकालः, तस्मिन् | कर्मधारयः |
विपत्तिकारकः कालः, विपत्तिकालः | मध्यमपदलोपी तत्पुरुषः |
===========================
पदपरिचयः
==========
=========================
प्रातिपदिकम् : समापन्नविपत्तिकाल
प्रकारः : अकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : नाम
विभक्तिः : सप्तमी
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
समापन्नविपत्तिकाल m.
संकटकाळ प्राप्त झाला असताना
==================
समापन्नविपत्तिकाल पुं.*
विपत्ति के समय
===================
समापन्नविपत्तिकाल m.
the advent of adverse time.
====================