२०१३-१६

क्रोधाग्निः

२०१६

 न क्रोधयन्त्रितोऽहं स्यां
कोधस् स्यान् मन्नियन्त्रणे।
होमाग्निः परिधौ बद्धः
शोभते न तथा ऽन्यथा॥
 
 अनग्नेर् न हि पाकस् स्यात्
न दैव्याहुतयस् तथा।
एवमैकान्तिकाक्रोधः
कथं शोभेत सज्जने॥
 
  


संस्कृतम्

संस्कृतस्याभवद्रक्षा कथं कस्माद् विचिन्त्यताम्।
भाषां वाऽपि जनं वाऽपि धर्मो रक्षिति रक्षितः॥
 
आर्षचिन्ता सुसंस्कारो ययार्यैर् रक्ष्यतेतमाम्।
भाषा वाऽपि कला वाऽपि पवित्रेति न संशयः॥ 
 
  

अद्भुता छुरिका

कालः- २०१५
छन्दः - पारसीकम् किञ्चन। यथा बलरामोऽत्र। 

 त्वद्धृदयंगमं वपुः पुष्पमुदीर्यते मुधा।
सा छुरिकैव नान्यथा मद्धृदये निवेशिता॥
त्वद्धसितं शुभानने दन्तमयूखशोभितम्।
वज्रमनङ्गहस्तगम् मद्धृदयस्य घातकम्॥
या तव पादपद्धतेः कोमलता वृथा ऽर्चिता।
तछ्रवणेन वा कथं मद्धृदयन्नु चूर्णितम्॥
या तव कान्तिरद्भुता चान्द्रमसीति कीर्त्यते।
भास्करतीक्ष्णता न वा मद्धृदयं विलीयते॥
यत्तवपादपङ्कजं केन नु पङ्कजीकृतम्।
ताण्डववद्धि दारुणं मद्धृदये दलत्यलम्॥
 
  
  


हेमन्तः

कालः - २०१५-१६

हेमन्त भूमौ त्वयि दत्तहस्ते
रोमाञ्चवद् धैमदलानि भान्ति।
वृक्षास् तथा सन्ति हिरण्यकेशाः
क्रीतोऽस्म्यलं देव तवाऽस्मि दासः॥
 
तव हस्ततलस्यार्क
दृश्यते रक्तिमाऽथ खे।
सर्वस्मायभयं दत्ते
प्रतिनिवृत्तिसूचकम्॥
 
रक्तपत्रावृतो वृक्षो
हेमन्ते दृश्यते यथा।
पृथिव्या हृदयं वान्तं
सम्भ्रमाद् भावपूरितम्॥
 
 क्वचिच् छैत्यं क्वचिद् घर्मः
वार्णा नैके दलेष्वलम्।
लालनार्थं शिशूनां नो
हेमन्त तव भिन्नता॥
 
 हेमन्तं देवमासाद्य
को न विस्मितमानसः।
पत्तरत्यागेन नग्नास्ते
तपस्यन्त्यपि पादपाः॥
 
 ताललाल्यवलेहाशो
वृष्टिलालारसे मुखे।
मुग्धां प्रीतिं समीक्षन्ताम्
भूम्याकाशप्रदर्शिताम्॥
(लाल्यवलेहः - lollypop)
 
 उत्तुङ्गवृक्षकूर्चैस् स्यात् गगने चारु चित्रितम्।
उत प्रयोक्तुमन्यत्र मात्रं स्याद् वर्णमिश्रणम्॥
 
 उपधानगदायुद्धादुप्लुताः पर्णसङ्ग्रहाः।
सन्ध्यायां श्वेतमेघास् स्युः दिग्वधूकेलिसम्भवाः॥
 

ऋतम्

कालः - २०१५

ब्रह्मजालगतसूत्रता हि या
सूर्यचन्द्रपवनेषु सा त्वयि।
प्रेरितास् स्युरथ भावनास् ततो
धर्मकामविषया ऋतम्भर॥

(
रथोद्धता)
 
ईश्वरस्य हृदयस्य कम्पनम्
मन्यतामृतमतीवशान्तिदम्।
तन्मृदङ्गमनुनृत्यतो भवेद्
लास्यताण्डवविधिज्ञतोत्तमा॥
 
धर्मे तिष्ठेत् तथा वाङ् मे
वसिष्ठे ऽरुन्धतिर् यथा।
अधर्मे स्यात् तथा सीता
दशग्रीवेऽभवद् यथा ॥
 
चलनाद् वलनान् नृत्यं गानं
क्वणनाद् वचनात् काव्यं यस्याः।
लीले संस्कारेणाक्ता त्वं
व्याप्ता स्थेयास् सर्वस्वे मे॥
 
सूर्य एष खलु जागृतोऽधुना
स्वप्नलोकमधुना प्रयाति सः।
पक्षपूर्तिरधुनेति वा सदा
विस्मयोऽस्ति ऋतुचक्षुषाम् मुदे॥
 

लोकोत्तरा व्यापृतिः


कालः - २०१५
छन्दः - विविधानि
 केचिद् भावाः पृषद इव मां तापतप्तं स्पृशेयुः
कश्चिद् सिञ्चेद् रस इह मनश् शुष्कधान्यात् कठोरम्।
नृत्येद् देवो नटपतिनिभो नेत्रयोरग्रतो मे
नाहं यन्त्रं यदि भवतु मे हृत्सरस् तोषवीचि॥
 
 इक्षुर् वै रसवर्जितो भवति चेत् निष्ठीव्यते तत्क्षणम्
कूपी तोयवतीह चुम्बितमुखा शुष्का नु निष्कास्यते।
जीर्णं जीवनमेवमेव शमलं, रत्यादिभिः पूरितः
भावार्द्रो भव येन यास्यसि सदा लोकोत्तरां व्यापृतिम्॥
 ५/५
 मृत्युस् स्यात् कथमप्रियो ऽमृतजनैर् ज्ञेयः‌ कथं तत्त्वतः
प्रश्नश् चेत् तव जायते स्मर जनं रस्येतरे कर्मणि। 
अर्थार्थं श्रमसंहताऽस्मितमुखं सद्भावशून्यं पशुं
यन्त्रत्वे न हि जीवनं क्व नु पुनर् लोकोत्तरा व्यापृतिः॥
  ५/५
 सा पश्यति यन् नान्ये
द्रष्टुं चक्षुर्भिरूर्जितास् सन्ति।
भावा जीवैर् युक्ताः
कवयन्ति हसन्ति कूर्दन्ति॥

 
 (http://www.imdb.com/title/tt0457430/ इत्यनेन प्रेरितम्।)
 इन्द्रस्याक्रमणं कुमार-कदनं चन्द्रस्य सौम्यां प्रभां
सौरं तिग्ममयूखवत्त्वमनले प्राप्तस्य दीप्तिं यथा।
नानादेवभवान् स्वभावघटकान् मन्त्रैस् स्मरन् दर्शयन्
स्वस्मिन् देवसमस् स यास्यति चिरं लोकोत्तरां व्यापृतिम्
 
  सद्भावाद्रेस् तुङ्गशृङ्गाण्यजस्रं
यायं यायं यत्नतस् साधकस् स्यात्।
दिव्यास्त्रौघैश् शातयन् स्वास् समस्या
देवत्वाप्त्या ऽमोघघस्रः सजीवः॥
 
कदाचिन् नटेशः क्वचित् स्थाणुरद्धा
क्वचिद् भैरवश् चेत् प्रशान्तः कदाचित्।
भवानीपते रूपवैविध्यमेवं
प्रदर्श्य प्रदर्श्य त्वमीयास् सुरत्वम्॥
 
 चण्डकोपपरिधूतकेसरे
दुष्टदण्डनमनस्विनि स्थिते।
भिन्नवस्तुनि मृदु स्मिते क्षणं
पूर्णता जनमनो हरेन् ननु॥
 
 क्लिष्टे मन्त्रजपे यथाऽपि कुरुते दोषान् बहून् वेगवान्
मान्द्यं छिद्रहरं भवेन् मधुरतासंवर्धकोल्लासदम्।
रंहो रंह इति ब्रुवाणमधिकं मौनं जगद् दिश्यताम्
लोकोऽयं खलु गुप्तताम् प्रति नयेल् लोकोत्तरां व्यापृतिम्॥
 अस्मिन् चलच्चित्रे Hayao Miyazaki महाभागेन पात्रमुखेन प्रदर्शितैर् मसृणैर् मन्दगतिकैर् आस्वादनानुभवैः प्रेरितमिदम्।  )
 पत्त्रं दूरगतं न तोषणपरं कौतूहलोद्भावनात्
नेत्रे लग्नमिवापि चेद् भवति तत् पीडाकरं‌ भावितम्।
मध्ये स्थापनमेव सौख्यजननं तृप्त्याकरं धीमताम्
ज्ञात्वा सर्वमिदञ् च किं न कुरुते लोकोत्तरां व्यापृतिम्॥
 
 
किं ते तत्र विपत्रवीक्षणचण? ज्ञातिप्रवादप्रपा
भावैस् त्वां किमु पूरयेद् उत बत स्वास्थ्यं विनाश्य व्रजेत्।
भावैस् त्वं भव नीयमान इतरैर् गौणैर् न लक्ष्यैः‌ पुनस्
सौहार्दं परिरक्ष येन लभसे लोकोत्तरां व्यापृतिम्॥
 
 
वार्ता यान्ति ततस्  ततोऽप्यपरतः फेना यथा वीचिगास् 
सद्भावाश् च विचारमन्थनभवा मुक्तास् त्व् अहो दुर्लभाः।
बद्धो नो भव नूत्नयन्त्रघटिते जाले ऽथ मीनो यथा
गम्भीरश् चर, निम्नगस्य तव सा लोकोत्तरा व्यापृतिः॥
 
शुष्का पण्डितता तु धिङ् न कुरुते तृप्तिं भृशं सेविता
शून्यं‌ तेन मनश्च मन्दनयने श्रान्तश् च कण्ठस् ततः।
भक्ष्यं नात्सि हि नीरसं किमु पुनर् ज्ञानेन रस्यन् न चेत्
वार्तामार्द्रमना हि भुङ्क्ष्व ननु सा लोकोत्तरा व्यापृतिः॥
 
http://i.imgur.com/kWvxHGR.jpg
 शतायुततमं पृष्ठं
पुस्तके बहुनीरसे।
पठतस् तव को लाभः
क्षुद्रजाले पतेः कुतः॥
 
 कार्यवृष्टिहतचेतसस् तव 
स्यान् न चेन् मनसि भावपूर्णता। 
सोमवल्लिपरिसंग्रहात् परं 
तत्सवेऽज्ञ इव कीर्त्यते भवान्॥
 (महानुभावेन SthaneshwareNa प्रेरितम्।)
धिग् दृश्यं न हि लभ्यते भगवतस् तीर्थे प्रसिद्धे क्षणाद्
ऊर्ध्वं नैव च पीठभूषितयतिर् भाष्यो भटैस् संवृतः। 
इष्टा वा तव सारशून्यघनता सत्त्वं जनैर् वास्तुतम्
पक्षे स्याद् बत दम्भताऽप्यपरतो लोकोत्तरा व्यापृतिः॥
 
मूर्खो ऽसाव् इति तर्जनेन न हि तद्-वृत्तिᳶपरामृश्यते
दृष्टिः का तनुते ऽप्रियं मम दृशा तस्येति न ज्ञायते।
संवृद्धिं हृदि काङ्क्षसे यदि जने दोषस्य वा मार्जनं
मौर्ख्यम् मा भण सूक्ष्मदर्शनपटोर् लोकोत्तरा व्यापृतिः॥
सन्दर्भो ऽत्र विवृतः।
एतन् मेऽस्ति सुशोभनम् बहुमतं धर्म्यं यशस्यं प्रियञ्
चेत्येवं स्वभिमानिता यदि भवेत् काये ऽथ वृत्ताव् उत।
तत्तत्कौशलपोषणे भवति यो यत्नोऽनपेक्षोऽपि सन्
स्वप्रीत्यैकफलोऽमलस् स हि न वा लोकोत्तरा व्यापृतिः॥

 
ईश्वरेण परिकल्पितं जगत्
क्रीडनाय हि मया ऽङ्गनं बृहत्।
पुत्रशत्रुगुरुभर्तृभृत्यकाः
पुत्तला मधुरनर्मकर्मणे॥
 
काष्ठं बोधयते स्रुवं स्रुचमपि प्रीत्वाऽहुतौ वर्तते
वत्सान् मन्त्रयते ऽग्निकुण्डमपि तत् संस्कारयुक्तायते।
वेदज्ञा इव चोदयन् स्ववचनैर् यन्त्राणि देवान् भवान्
भावार्द्रस् तव वेदसम्मतदृशा लोकोत्तरा व्यापृतिः॥
तद् धास्यं रुदितं प्रकोपनमपि क्रीडाऽपि तद् भाषितं
तत् पत्त्रं जलजं जलं खमपि सा योषिद्वरा वाहनम्।
कॢप्तं वास्तविकं स्वकं परगतं द्रव्यं गुणः कर्म वा
संमर्ष्ट्रे ऽनिशमेव विस्मितहृदे मोदाय किं नो भवेत्॥
 
 गुप्तौ गुप्तौ नाशं यास्यद् दाने स्तेये वृद्धिं याति।
यस्मान् नास्ति श्रेयो लोके चित्रं वित्तं हृद्वित्तं तत्॥
 


ब्रह्मवाक्यानि

दिनम् - २०१४-१०
छन्दः - शादूलविक्रीडितम्।
प्रसङ्गः - श्रुतिचेष्टा।

"अहं ब्रह्मास्मि" वाक्यं वै भणित्वानन्तरे क्षणे।
"नमस्त" इति नत्वा वा तत्त्वं "तत् त्वम् असी"ङ्गितम्!॥

मत्पत्न्या चेष्टितं ह्येवं, तस्याः किं तद्धसन् मुखं।
ब्रह्मज्ञानस्य गोप्तृत्वे प्रयुक्तं स्यात् कथञ्चन॥

जीब्रेन्रधनुषोर् वर्णनम्

दिनम् - मे २०१४
छन्दः - अनुष्टुभ्।
प्रसङ्गः - पद्यपाने पद्यपूरनम्।
वार्तापत्त्रसङ्केतः - अत्र

स्रष्ट्रा रेखाङ्कनाभ्यासः
पुरा यदा चिकीर्षितः।
आदौ जीब्रः कृतः पश्चात्
धनुरैन्द्रं कृतं मुदा॥

स्रष्टू रेखाङ्कनोल्लासस्
तीव्रो जातः पुरा यदा।
जीब्रव्याघ्रावुभौ सृष्टौ
धनुरैन्द्रं तथा कृतम्॥

रूपवर्धनकाङ्क्षायां
जीब्रव्याघ्रौ सहोदरौ।
कृतवन्तौ पुरा किं वा
खेश्वास्यस्य विडम्बनम्॥

शरणं भव्याद्भुतं भारतम्॥

दिनम् - मे २०१४
छन्दः - शादूलविक्रीडितम्।
प्रसङ्गः - पद्यपाने पद्यपूरनम्।
वार्तापत्त्रसङ्केतः - अत्र

“के यूयं?” “ननु पारसीकजनता मौहम्मदैःपीडिताः,
संभ्रान्ताश्च पराजये हतनृपाः” “किं वेच्छथाभ्यागताः”।
“त्वद्राज्ये स्वनिवासभूमिमभयां” “विद्रोहिता स्यान्न वः”
“क्षीरे शर्करवद्भवेम शरणं भव्याद्भुतं भारतम्”॥

(पृष्ठभूमिका – , ।)

“के यूयं?” “खलचीनराज्यदलिताः हैमालयास् तान्त्रिका”,
“अस्मद्राजसु राजनीतिपटुता-ऽभावद्धि सा त्वद्दशा!
सद्यः क्षात्रबले स्थिते तु भवतां‌ रक्षां विदध्मो वयम्”
“हेमे मौक्तिकवद्भवेम शरणं भव्याद्भुतं भारतम्”॥

“के यूयं?” “मरुमत्तसैन्यविहताः वाङ्गास् त्वदीया जना”
“वीर्ये वङ्गनरेशकर्णसदृशाः दानेऽपि तत्प्रेरिताः।
युष्मद्धन्तृबलं विनश्य भवतां‌ दद्मस् स्वदेशेऽभयं”
“मालायां मणिवद् भवेम शरणं भव्याद्भुतं भारतम्”॥

पद्योत्सवः

दिनम् - Mar 20 2014
छन्दः - त्रिष्टुभः उपजातिः
प्रसङ्गः - वसन्तसमये पद्यपानवृन्दस्य पद्योत्सवः

उत्क्षिप्तपद्यैर् बहुधा विभक्तैः
संमिश्रितैर् वै रसिकास्यसक्त्या।
विस्मायितास्यैः कविभिस्तथैव
पद्योत्सवो होलिकया सुतुल्यः॥

[वसन्तोत्सवस्य होलिकायाः सन्दर्भे पद्योत्सवोऽयम् आचर्यते खलु!]

रागार्यकेन्द्रं परितो भ्रमन्ति
तद्वाणिवेणोर् वशगा भवन्ति।
तत्काव्यनृत्यैः ननु शङ्क्यते यत्
पद्योत्सवो माधवरासलीला॥
[आर्य गणेशोऽवधानी रागाख्यः खलु पद्योत्सवकेन्द्रसन्निभः!]

पद्यैर्हि हृत्क्षेत्रविदारणञ्च
क्षात्रोपमः काव्यकृतां सुहासः।
अभ्यासशक्तिस् स्फुटयुक्तिर् एभिः
पद्योत्सवस्त्वाहववद् विभाति॥

बिन्दु-स्तुतिः

दिनम् - Nov 19 2013
छन्दः - अनुष्टुभ्



शोभते बिन्दुना देवि
त्वल्ललाटं नु नान्यथा।
स्मययुक्तमुखं भाति
स्मयरिक्ततया न हि॥

भृशं क्रन्दन्त्वनार्यास् ते
यप्पयप्पेति सन्ततम्।
न जहीहि धृतं बिन्दुम्
तिलकं पुरुषा इव॥

किञ्च काकास्तु कूजन्ति
वेदघोषं न कर्हिचित्।
महामेधाभृतर्षीणां
श्रुणुष्व, ते हि देशिकाः॥

मदिरासु च मा भ्रष्टा
स्म भवस् सदलङ्कृता।
न युज्यते प्रमादो वै
देवालये यथा तथा॥

नेदमुक्तमतीतं हि
सत्यबद्धा कृता हि वाक्।
शरीरं संस्कृतं स्यात् ते
बिन्दुना मन्दिरीकृतम्॥

अभिमन्यु-स्तुतिः

दिनम् - Nov 14 2013
छन्दः - अनुष्टुभ्



दत्तो गर्भो, स्वजीवश्च
वीरस्वर्गं नु यापितः।
तेन धन्योऽभिमन्युस्सः
धर्मकामार्थसाधने॥

ऋणमुक्तस् सुविख्यातस्
सक्रियश्चैव धैर्यवान्।
धीमान् स भिन्नशास्त्रेषु
सर्वस्मै ननु रोचते?

भीष्मे धर्मज्ञतायाः किम्
प्रयोगेऽधर्ममर्षणे?
पाण्डौ शून्यप्रसूतेः किम्
त्यक्तराज्यो न कीर्तितः॥

शीर्षिका - अलौकिकानुभवान्न साधुता

दिनम् - Nov 14 2013 छन्दः - अनुष्टुभ्




प्राणायामेषु बन्धेषु
ह्यासनेषु तथैव च।
निपुणस्त्वं नु जानीयाः
सुलभं‌ शक्तिचालनम्॥

शक्तिः कुण्डलिनीजाता
पूजयापि नु साधिता।
तन्त्रमन्त्रैस् सुसाध्या सा
रावणेनापि साधिता॥

अहङ्कारो न नश्येत
यस्य कस्यापि धीमतः।
मरून्मत्तो महामादो
मुहम्मदोऽत्र गृह्यताम्॥

शीर्षिका - पुष्पाक्षिणेविश्वमपूर्वपुष्पं

शीर्षिका - पुष्पाक्षिणेविश्वमपूर्वपुष्पं

दिनम् - Oct 13 2013

विवरणम् - दुर्गालालश्रेष्ठस्य नेपालगीतस्य अनुवादोऽयम्। अतिमधुरम् आनिछोयिङ्गगीतं श्राव्यम्। अत्र बौद्धरसज्ञैर् उक्तं " वाबि-साबि" नाम तत्त्वं स्मर्यते - अनित्यता अपूर्वता च सौन्दर्यहेतुर् इति।

छन्दः - त्रिष्टुभ् - इन्द्रवज्रा


YouTube Video



पुष्पात्मने विश्वमपूर्वपुष्पं

कण्टात्मने विश्वमनित्यकण्टः।

छाया हि वस्तु न्वनुधावतीह

पुष्पात्मने विश्वमपूर्वपुष्पं॥


चित्ते हि शुद्धिर् वचनेषु बौद्धम् पुष्पात्मने मे भवताच्च नित्यम्। पद्भ्यां न भूयात् कृमिनाशनं भोः चित्ते हि शुद्धिर् वचने च बौद्धम्॥


स्पष्टं मनस्ते यदि तिष्ठतीह
स्पष्टं हि विश्वं विकसत्यमोघम्।
रम्यात्मने विश्वमतीवरम्यं
पुष्पात्मने विश्वमपूर्वपुष्पं॥

शुभ्रेन्दुमीक्षस्व नु भास्वरन् तं

काल्यां नु रात्रावपि तोषहेतुम्।

जैवं च गीतं श्रुणुतात् सुखाय
शुभ्रेन्दुमीक्षस्व नु भास्वरन् तम्॥

रामभद्रमेलनकथा

दिनम् - 7/11/2013 - 7/13/2013
छन्दः - अनुष्टुभ् पथ्यप्राया



नित्यानन्द गुरोस्ते तु
दर्शनं बहुदुर्लभम्।
दिननित्यं प्रयत्नेपि
न प्राप्तं हन्त दर्शनम्॥ 

सहसागच्छति सम्मर्दे
जनैर्परिभ्रमे श्रितः।
कालान्तरे क्व लभ्यस् सः
इत्युपायो न दृक्स्थितः॥

उर्ध्वयोजितमीक्षस्व
पद्यमर्चकयोजितम्।
मुद्रणत्रुटिमर्षे ते
नितरां तोषधुग्भवेत्॥

दृष्ट्वा तमर्चकं प्रीत्या
न्यवेदयं च कामनां।
गीर्वाणीश्रवणे तुष्टोऽ
प्येतावन्न हि योजयत्॥

अन्ते महाप्रमोदो मे
प्राप्ताचार्यसुवाचसः।
देववाण्या च मैत्रं ते
श्रुत्वा गुरुर्हि मोदितः॥

आलिङ्ग्य मां‌ दृढप्रीत्या
मङ्गलं चाब्रवीत्पुनः।
पुष्पं शिरसि हस्ते च
दत्त्वा मामनुभावयत्॥

त्वत्स्त्र्याः कर्णाटकत्वञ्च
तेऽपत्ययोश्च नामनि।
उक्त्वा तुष्टस्स तेऽपृच्छत्
लिखत्येव नु संस्कृते?

श्रुत्वा संस्कृतभारत्याः
साफल्यं च प्रचारगम्।
ऐच्छत्संस्कृतमित्रैर्मे
मेलनं चानुदैनिकम्॥

दक्षिणां मे स आदाय
विकलाङ्गाभिवर्धने।
राघवाय नमोभाषी
गुरुर् मामभ्यनन्दयत्॥

गुरुदेवेन दृष्टं वै
ममापाण्डित्यलक्षणम्।
लिङ्गदोषाच्च मद्वाक्ये
उक्तेऽद्य भयतेजसोः ॥
[भयं तेजश् च पुंलिङ्गायितवान्।]

विवाहाशिषि चारब्धम्
ऊढोऽहमिति सूचितम्।
दूरस्थस्त्र्याः कुले पृष्ट्वा
पुत्रोस्तिवेति चोदितम्॥

पुत्रस्ते भविता विद्वान्
प्रत्ययो नाम पण्डितः।
एवं शुभाशिषं श्रुत्वा
खल्वहं मोदितो भृशम्॥

Comments