पाणिनीयम्


विस्तारपत्त्राणि

पाणिनीयं न कठिनम्।

"लिट्सिद्ध्यै कति अपेक्षितानि सूत्राणि?!! क्व क्व च विकीर्णानि तानि? पाणिनीयं कठिनम्।" इति आक्षेपे कृते--
वस्तुतः - कति प्रकरणानि आवश्यकानि इति पृच्छति चेत् वरम्। सूत्राणां विन्यासस्य विषये ऽपि भवता ध्यातव्यं यत् नैकानि प्रकरणानि नैकेषु कार्येषु उपयुज्यन्ते।


चिन्तयतु पाककलाम्। भवान् दोसां पिपक्षति।​ कदाचित् इड्लिम् अपि। द्वित्रापि पिष्टः स्रष्टव्यः, चुल्ली ज्वालनीया। परन्तु दोसा पच्यते ऽन्ते स्थालिकायां, इड्लिश् च उखे। पाकक्रमवित् दोसापाकक्रमं च इड्लीपाकक्रमं विवक्षति सम्पूर्णतया। सः न उभयत्रापि "चुल्लीज्वालनाय एवमेवं कार्यम्। पिष्टनिर्माणार्थं इमानि कार्याणि" इति वदेत्। एकत्र भिन्नप्रकरणे सः चुल्लीप्रयोगविधानं, अन्यत्र च पिष्टनिर्माणविधानञ्च वदेत्। दोसानिर्माणविषये एवमेव वदेत् - "पिष्टं सृज। चुल्लीं ज्वालय। स्थालिकायां तैलं प्रसारय। तत्र पिष्टं प्रसारय। " अनेन गणनया वस्तुतः दोसानिर्माणं इड्लीनिर्माणं वा सुलभम्। पाकक्रमविदस् सूचनाश् च अत्युत्तमाः लघ्व्यश् च प्रकरणगणनया (यद्यपि प्रत्येकस्मिन् प्रकरणे नैके स्युः कर्माणि)।

परन्तु, कश्चिद् आगत्य आक्षिपति चेत् "अयं पाकशास्त्रकर्ता बहुकठिनं शास्त्रं रचितवान्। सूत्राणि एकत्र न सन्ति। दोसानिर्माणार्थं क्व क्व द्रष्टव्यम्!" इति, तत् प्रायो न युक्तम्। एवमेव "अयं पाकशालानायकः किम् अकार्षीत्! दोसासृष्ट्यै अपेक्षितान् सम्भारान् न एकत्र स्थापितवान् - धान्यचूर्णम् अत्रास्ति, तैलं तत्रास्ति, स्थालिका अपरत्रास्ति।" - इत्यपि अस्थाने दूषणम्।
तथा दोसा निर्माणसमये, यदा चुल्ली ज्वाल्यते, तदा न कश्चित् द्वित्रिवारं प्रयोगात् परं चिन्तयति "१ चिल्लिकायां काष्टः स्थापनीयः। २] ततः‌ तत्र शिलाघर्षणेन अग्निर् आनीयः।" इति - सर्वाण्यपीमानि कार्याणि स्वचालितानि, स्वाभाविकानि भवन्ति। एवमेव "इत्संज्ञा अभिज्ञानार्थं, एकं न त्रिणि न, अष्टौ सूत्राणि ज्ञेयानि। द्वित्त्वस्य कृते किम्? पञ्चविंशति सूत्राणि [*]!" इति न युक्तम्।
​[*] - (यद्यपि तेषु अर्धभागः सार्वत्रिकः। किञ्च यङि सनि श्लौ चङि इत्यपरत्रापि तस्य सामान्यभागस्य उपयोगो भवति।)​

अष्टाध्यायीं cheatsheet इति भावय। अन्ये "किमिदं विचित्रं भणितम्" इति चिन्तयेयुः, परन्तु कुत्रकिमस्ति इति विज्ञाने जाते इदमेव सौकर्यप्रदं भवति।

मूलपुस्तकानि उत्तमानि

दृश्यन्तां पुष्पादीक्षितायाः "अष्टाध्यायी सूत्रपाठः" नामको ग्रन्थश्च तस्याः हिन्दीभाषोपलब्धास् सहजबोध-ग्रन्थाः प्रक्रियासूचकाः। सूत्रार्थावगमनार्थं काशिकावृत्तिश् च प्रथमावृत्तिर् युज्येते। अन्या सूचिर् अत्रास्ति। 
Comments