वैचारिक इतिहासः


कुतो ऽयम् आलेखः?

स्वकथा लिखिता काश्चिद् बुधादेशोऽभवद् यदा। तदंशं निक्षिपाम्यत्र द्विरुक्तिः कस्य रोचते॥

"अतिपरिचयात् अवज्ञा", "अप्रियम् सत्यम् मा‌ ब्रूयात्" इति च+उक्ती+अविस्मृते। परन्तु भवत्सु शास्त्रज्ञा अनुभाविनः कवयः परिचितबहुदृष्टिकोणा मुख्यतरेषु रोचकतरेषु बौद्धिकेषु+उद्योग-योजनासु सत्स्व् अपि मद्विचारान् च तदितिहासं च ज्ञात्वा स्नेहेन क्षमया च परिष्कारम् वा आक्षेपम् वा प्रतिस्पन्दरूपेण कुर्युर् इति मत्वा पूर्वोक्तयोर् नीत्योर् असङ्कुचित-कृतप्रमादो ऽस्मि।

वैचारिकी स्थितिः॥

मया त्रिवर्गपुरुषार्थफलसंपन्ने सुसंस्कृतजीवने प्रयत्यते।

व्यवहारः

प्राधान्यं व्यक्तिमाने स्यान् न विचारप्रजल्पनम्।
कृतीनां तत्र मुख्यत्वाद् ईक्षतां ध्येययोजनम्

अन्यैस् सह व्यवहारे भारतीयताभिव्यक्त्याग्रहः॥
  • नियमेन स्वचिन्तने स्वपारिवारिकव्यवहारे संस्कृतप्रयोगो ऽनुष्ठीयते।
  • तथा भारतीयैः सह संभाषणे नियमेन संस्कृत-हिन्दी-कन्नड-भाषा-प्रयोगे प्रयते। भारतीयान् पुनरेव आर्यान् चिकीर्षाम्य् एव ।
  • सुसंस्कृतैः संस्कृति-भक्तियुक्तैः समाजे भागं‌ वोढुं प्रयते।

सांस्कृतिको वैचारिकश्च इतिहासः॥

मुग्धो वैदिकः॥

द्व्यशीतितमवर्षेऽहम्  हेब्बार्श्रीवैष्णवे कुले।
बेङ्गळूरौ हि जातो यत्संस्कृतिः पत्त्रवत् कृशा ॥
बाल्ये च दैवभक्तिर्मे ह्यसामान्याऽभवत् पुरा।
सन्ध्यावन्दनपूजादौ दृढा श्रद्धा यतो ऽस्फुरत्॥
विद्यावर्धकशालायां प्रौढवर्गेषु पाठिते।
संस्कृते जागृता प्रीतिरुत्तमाध्यापनात् स्थिरा॥
मयापि च सहर्षेण साभ्यस्ता कवितां विना।
आङ्ग्लग्रन्थानुवादादौ प्रयत्तं प्रीतितो बहु॥

विज्ञानप्रियो बौद्धः॥

तदनन्तरम् विज्ञानशास्त्रभास्करप्रभया ऽऽवृत्ते मयि देवविश्वासनाशो ऽभवत्। सूक्ष्मशरीर-पुनर्जन्म-तत्त्व-तिरस्कारश्च प्रौढशालान्ते जाते यज्ञोपवीतस्यापि निष्कासनेनाऽपतम् अधोगतिम्। तेन सहैव अनिर्गतमुमुक्षया 'योगः कर्मसु कौशलम्' इति भावस्याप्तौ प्रयत्नः कृतः। कर्मविपाकसिद्धान्तं तिरस्कुर्वतोऽपि मे बौद्धमतस्वीकृतिर् जाता, तत्रापि चीन-जापान-कोरिया-प्रदेशस्य ध्यानमते श्रद्धा।

पश्चाद्धि संस्कृता नष्टा कालक्रमेण मत्स्मृतेः।
असंस्कृतस् समाजोऽत्र तर्जनीयः पुनः पुनः॥

घोर-नास्तिकः॥


तदनन्तरम् अप्राप्ते समाधौ तदस्तित्वे ऽविश्वासिना वञ्चित-भाव-युक्तेन, विनष्टश्रमेण घोरपश्चात्तापतप्तेन लौकिकविद्यासु निमग्नम्। मोक्ष-प्रापण-प्रतिज्ञातृभ्यः सर्वेभ्यो भारतीयमतेभ्यो दृढद्वेषश् चोदभूत्। अस्मात् घोर-नास्तिक-मत-स्वीकारात् 'मम पूर्वजाः शतमूर्खाः' इति दोषैक-वीक्षण-तिमिरान्धकारोत्मत्तो निश्चयो ऽप्य् अस्फुरत्।

भार्गवाग्नेः स्फुलिङ्ग-कणः॥

पश्चाद् अमेरिकां देशम् आगत्य भिन्नसंस्कृतिम्। दृष्ट्वा पुनः प्रयातं यद् भारतं, भ्रामितं शिरः॥ 

उद्घाटिताक्षस् स्वजनानपश्यम्, संस्कारभेदस् स्फुट एव जातः। त्राणाय योग्यान् कति शोभनांशान् दृष्ट्वा स्वदेशे मम तीव्रहर्षः॥

२००८-मध्ये भारत-प्रयाणे "स्वसंस्कृतिर् वस्तुतो भिन्ना, तस्याम् रक्षणयोग्या गुणास् सन्ति, सापि संस्कृतिर् अभिमानार्हा" इति श्रद्धा पुनर्जाता। आसनैर् मम आरोग्य-वृद्धिर् जाता। तस्मात् अष्टाङ्गयोगे पुनः श्रद्धा संजाता, स-योगसूत्र-पिपठिषा। कृष्णमाचार्य, बि-के-एस्-अय्यङ्गार्यादीनाम् स्वकुल-शिखामणीनाम् अद्भुता जीवनचरिताः पठिताः। तस्मात् च पुरा नष्टः स्वाभिमानो जागृतः।

योगसूत्राद्युक्त-भारतीयमनोविज्ञानावगमनाय पुनर्जाता संस्कृत-जिज्ञासा च। हिन्दु-स्वयंसेवक-प्रचारकेण परागनाम्ना आस्टिन्-नगरे संस्कृत-भारती-वृन्देन सह परिचयः कारितः। तस्मात् संस्कृत-कमलम् मन्दं मन्दं‌ पुनरेव विकसितुम् प्रारभत। तद् अध्ययनम् संप्रत्य् अपि अनुवर्तमानम्। पुनर्जागृत उज्ज्वलो ऽभिमानः स्वसंस्कृत्याः धर्म-काम-अर्थ-क्षेत्रेषु कलात्मके उपाय-उपेय-परिकल्पने, तदन्तर्गतेषु वैयक्तिक-पारिवारिक-कौल-संस्कारेषु च। तन्मध्ये गृहस्थाश्रमः प्रविष्टः पैत्रर्णप्रज्ञया। तत्र स्थितो ऽहं त्रिवर्गपुरुषार्थानुसरणरतोऽस्मि।

एतन्मध्ये अनष्टया भूत-रासायनादि-शास्त्र-श्रद्धया अपरित्यक्तो ऽविश्वास एषु विषयेषु - दैवादिचेतसाम् स्वजनकपोलाद्बहिरस्तित्वे, सूक्ष्मशरीरास्तित्वे च। (वर्तमानस्थिती वैचारिकी व्यावहारिकी च पूर्वमेव उक्ते उपरि।)

औद्योगिकः परिचयः॥


बेङ्गळूरुप्रदेशेऽहं जातस् सङ्गणकेषु विद्। भृत्यतां प्रति यातेन नैकास् संस्थाश्च सेविताः॥ (इन्फ़ोसिस्-मैक्रोसाफ़्ट्-गूगल्-संस्थाः ।)

ततो विज्ञाने कीर्तिम् वृद्धिम् प्राप्तुम् अमेरिकाम् आगतः २००७ ग्रीष्मान्ते। टेक्सास्-विश्वविद्यालये तस्मिन्नेव शास्त्रे विद्यावारिधिपदवि-प्राप्तिम् यतित्वा रुच्यनुगुणसंशोधनावकाश-सौम्याचार्ययोर् अभावेन पराजितः प्राप्त-कनीय-स्नातकोत्तरपदविः सार्धचतुर्वर्षानन्तरम् भृत्यतां प्रत्यागतः। विवरणाण्य् अत्र लभ्यन्त एव।

चित्राणि॥

Comments