समुद्र

अग्निर्वा एष वैश्वानरः पञ्चमेनिर्यत्पुरोहितस्ताभी राजानं परिगृह्य तिष्ठति समुद्र इव भूमिम्। - ऐ.ब्रा. ८.२५

पुराणेषु सप्तद्वीपेषु परितः सप्तसागराः सन्ति। ते निष्कारणाः न सन्ति। ते पुरोहितस्वरूपाः सन्ति।

स॒मु॒द्रो॒ऽसि वि॒श्वव्य॑चा – वाज.सं ५.३३

ब्रह्मासनम् । समुद्रोसि विश्वव्यचाः समुद्र इव त्वमसि सर्वव्यधनः तत्र हि समुद्र इवाऽगाधो ज्ञानेन ब्रह्मणि तिष्ठति । विश्वं च यज्ञं च व्यञ्चति कृताकृतप्रत्यवेक्षणेन । - उवट-महीधर भाष्यम्।

सोमयागे अथर्ववेदीय ब्रह्मा ऋत्विक् सर्वदा यजमानस्य पार्श्वे विराजमानः भवति।


समुद्र

हारिद्र इव हि मज्जा तेनैवैनं तद्रूपेण समर्धयत्यन्तरे पैतुदारुवौ भवतो बाह्ये बैल्वा अन्तरे हि चक्षुषी बाह्ये श्रोत्रे स्व एवैनांस्तदायतने दधाति - शतपथब्राह्मणम् १३.४.४.[८]

आधुनिकविज्ञाने नैनोपार्टिकिलसंज्ञकानां सूक्ष्मकणानां अध्ययनाय फोटोएकास्टिक स्पेक्ट्रांपी विधिः अस्ति। अस्याः आधारः कोर-शैल अथवा अन्तरा-बाह्या संरचना अस्ति। यदा प्रकाशस्य आपतनं अन्तरा उपरि भवति, तदा अन्तरायां अवशोषितं भवति। अवशोषितप्रकाशस्य ऊर्जायाः विसर्जनं द्विप्रकारेण संभवमस्ति - प्रकाशरूपेण एवं ध्वनिरूपेण। या बाह्या अथवा शैल अस्ति, तस्याः संघटनं एवंप्रकारेण चयनितुं आवश्यकता अस्ति येन विसर्जनं प्रकाशरूपेण न भवेत्, ध्वन्यारूपेण भवेत्।


अक्रान् त्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा।

वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः॥ ९.०९७.४०

अक्रान् समुद्रः परमे विधर्मन्न्"इति नवमस्याह्नः प्रतिपद्भवति। परमं वा एतदहर्विधर्म विधर्म वा एतदन्यैरहर्भिरहर्यन्नवमं ज्येष्ठं हि वरिष्ठम्। मत्सि वायुमिष्टये राधसे न"इति वारुण्येषा भवति यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णाति तदेव तदवयजति । स्तोत्रीयस्तृचो भवति प्राणापानानामवरुध्यै। - पञ्च.ब्रा. १५.१.१

अक्रान् समुद्रः परमे विधर्मन्न् इति परमो वा अश्वः पशूनां, परमस् समुद्रः, परमं नवमम् अहस्, तस्माद् एता नवमे ऽहन् क्रियन्ते। जनयन् प्रजा भुवनस्य गोपा इति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः। - जैब्रा ३.२४०

अयं ऋक् / साम १२५३ द्वादशाहसंज्ञकस्य सोमयागस्य नवमस्याह्नः प्रतिपदः अस्ति।प्रतिपद् अर्थात् अयं नवमस्याह्नः लाक्षणिक् ऋक् अस्ति। अत्र विधर्मशब्दस्य किं तात्पर्यमस्ति--

१.धर्मणा वै देवा धर्मम् आदायासुराणां विधर्मणैनान् विधर्मणः कृत्वा पराभावयन्। धर्मणैव धर्मम् आदाय द्विषतो भ्रातृव्यस्य विधर्मणैनं विधर्माणं कृत्वा पराभावयति य एवं वेद। तच् छ्रीर् वै धर्मो, राज्यं वै धर्मो, धर्मेण वै राजा धर्मो, धर्म स्वानां भवत्य्, ऐनं स्वा यन्ति, धर्मणो धारयति। तद् आहुर् नवमे ऽहनि कार्यम्। अदो वै क्षत्रं यद् बार्हतम्। अथेदं विड् राथन्तरम् इति। तद् उ वा आहुर् विधर्माणो वै राजानो न वै ते ऽन्यैर् मनुष्यै स्वधर्माणः। इदम् उ वाव क्षत्रं यच् चतुश्चत्वारिंशं त्रैष्टुभम्। तस्मान् नवम एवाहन् विधर्म स्याद् इहैतद् इति। - जैब्रा ३.२३१

२. त्वं समुद्रो असि विश्ववित्कवे तवेमाः पञ्च प्रदिशो विधर्मणि ।

त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः ॥ ,०८६.२९

अत्र कथनमस्ति यत् ये पञ्च प्रदिशः सन्ति, तानि विधर्मणाय सन्ति। अथर्ववेदे १५.२.१ दिशः लक्षणानां कथनमस्ति। किन्तु यथा अष्टसखीशब्दस्य टिप्पण्यां निरूपितमस्ति, अत्र प्रदिशां लक्षणानि अपि परोक्षरूपेण कथितानि सन्ति – यथा श्रद्धा – अश्रद्धा, भद्र-अभद्र आदि।

वृषा पवित्रे अधि सानो अव्ये इति -

सोमयागे ग्रावभिः सोमवल्लीनां कुट्टनं-पेषणं कृत्वा तेषां द्रवभागस्य रक्षणं पूतभृत्/आधवनीय संज्ञके कलशे कुर्वन्ति। अनन्तरं, सोमाभिषवकाले द्रवस्य क्षालनं पवित्रसंज्ञकेन वस्त्रेण कुर्वन्ति। पवित्रक्षालनकाले तस्मिन् द्रवे समुद्रतः आहृतस्य जलस्य मिश्रणं अपि कुर्वन्ति। समुद्रस्य किं तात्पर्यं भवितुं शक्यते।

समुद्राय शिशुमारानालभते- मै ३.१४.२, मै ३.१४.११

शिशुमारस्थितिः समुद्रस्य सर्वोच्चस्थितिः प्रतीयते। शिशुमारशब्दोपरि पौराणिकसंदर्भाः द्रष्टव्याः सन्ति।

संदर्भाः

यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।

उर्वीरापो न काकुदः ॥,००८.०७

य ईङ्खयन्ति पर्वतान्तिरः समुद्रमर्णवम् ।

मरुद्भिरग्न आ गहि ॥,०१९.०७

आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा ।

मरुद्भिरग्न आ गहि ॥ ,०१९.०८

सं यन्मदाय शुष्मिण एना ह्यस्योदरे ।

समुद्रो न व्यचो दधे ॥,०३०.०३

समानयोजनो हि वां रथो दस्रावमर्त्यः ।

समुद्रे अश्विनेयते ॥१,०३०.१८

अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।

वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥ ,०३२.०२

उवासोषा उच्छाच्च नु देवी जीरा रथानाम् ।

ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥ १,०४८.०३

त्रीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु ।

पूर्वामनु प्र दिशं पार्थिवानामृतून्प्रशासद्वि दधावनुष्ठु ॥ ,०९५.०३

ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते ।

अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य समु तृप्णुत ऋभवः ॥ १,११०.०१

तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतङ्गैः ।

समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥ १,११६.०४

अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे ।

यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम् ॥ १,११६.०५

अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् ।

निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥ १,११७.१५

त्वं वृथा नद्य इन्द्र सर्तवेऽच्छा समुद्रमसृजो रथां इव वाजयतो रथां इव ।,१३०.०५

ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा ।

नव्यंनव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ॥ ,१५९.०४

त्रीणि त आहुर्दिवि बन्धनानि त्रीण्यप्सु त्रीण्यन्तः समुद्रे ।

उतेव मे वरुणश्छन्त्स्यर्वन्यत्रा त आहुः परमं जनित्रम् ॥ १,१६३.०४

आ नोऽवोभिर्मरुतो यान्त्वच्छा ज्येष्ठेभिर्वा बृहद्दिवैः सुमायाः ।

अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे ॥ १,१६७.०२

एवा हि ते शं सवना समुद्र आपो यत्त आसु मदन्ति देवीः ।

विश्वा ते अनु जोष्या भूद्गौः सूरींश्चिद्यदि धिषा वेषि जनान् ॥ १,१७३.०८

स माहिन इन्द्रो अर्णो अपां प्रैरयदहिहाच्छा समुद्रम् ।

अजनयत्सूर्यं विदद्गा अक्तुनाह्नां वयुनानि साधत् ॥ २,०१९.०३

समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः ।

अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः ॥ ,०३६.०७

धामन्ते विश्वं भुवनमधि श्रितमन्तः समुद्रे हृद्यन्तरायुषि ।

अपामनीके समिथे य आभृतस्तमश्याम मधुमन्तं त ऊर्मिम् ॥ ,०५८.११

समुद्रमासामव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्नायता ।

अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर्विद्यते पूतबन्धनी ॥ ५,०४४.०९

उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिं पितुरा विवेश ।

मध्ये दिवो निहितः पृश्निरश्मा वि चक्रमे रजसस्पात्यन्तौ ॥ ,०४७.०३

समुद्रः समुन्दनः । यद्वा । संमोदन्ते अस्मिन् देवा इति समुद्रः ।

उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः ।

न वो दस्रा उप दस्यन्ति धेनवः शुभं यातामनु रथा अवृत्सत ॥ ५,०५५.०५

यथा वातो यथा वनं यथा समुद्र एजति ।

एवा त्वं दशमास्य सहावेहि जरायुणा ॥ ५,०७८.०८

इमामू नु कवितमस्य मायां महीं देवस्य नकिरा दधर्ष ।

एकं यदुद्ना न पृणन्त्येनीरासिञ्चन्तीरवनयः समुद्रम् ॥ ५,०८५.०६

आ क्षोदो महि वृतं नदीनां परिष्ठितमसृज ऊर्मिमपाम् ।

तासामनु प्रवत इन्द्र पन्थां प्रार्दयो नीचीरपसः समुद्रम् ॥ ,०१७.१२

सत्यमित्तन्न त्वावां अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् ।

अहन्नहिं परिशयानमर्णोऽवासृजो अपो अच्छा समुद्रम् ॥ ,०३०.०४

यास्ते पूषन्नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति ।

ताभिर्यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः ॥ ६,०५८.०३

इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या ।

घृतासुती द्रविणं धत्तमस्मे समुद्र स्थः कलशः सोमधानः ॥ ६,०६९.०६

सूर्यस्येव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा गभीरः ।

वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥ ७,०३३.०८

समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः ।

इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु ॥ ,०४९.०१

उत त्यं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे ।

निरीं पर्षदरावा यो युवाकुः ॥ ७,०६८.०७

युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो अस्रिधानैः ।

पतत्रिभिरश्रमैरव्यथिभिर्दंसनाभिरश्विना पारयन्ता ॥ ७,०६९.०७

अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।

सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ ८,००३.०४

येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।

सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥ ८,००३.१०

यदस्य मन्युरध्वनीद्वि वृत्रं पर्वशो रुजन् ।

अपः समुद्रमैरयत् ॥ ,००६.१३

अतः समुद्रमुद्वतश्चिकित्वां अव पश्यति ।

यतो विपान एजति ॥ ८,००६.२९

इन्द्रमुक्थानि वावृधुः समुद्रमिव सिन्धवः ।

अनुत्तमन्युमजरम् ॥ ,००६.३५

यत्स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः ।

यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना ॥ ८,०१०.०१

येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् ।

येना समुद्रमाविथा तमीमहे ॥ ८,०१२.०२

इमं जुषस्व गिर्वणः समुद्र इव पिन्वते ।

इन्द्र विश्वाभिरूतिभिर्ववक्षिथ ॥ ८,०१२.०५

यद्वा शक्र परावति समुद्रे अधि मन्दसे ।

अस्माकमित्सुते रणा समिन्दुभिः ॥ ,०१२.१७

यच्छक्रासि परावति यदर्वावति वृत्रहन् ।

यद्वा समुद्रे अन्धसोऽवितेदसि ॥ ,०१३.१५

यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या ।

अपामवो न समुद्रे ॥ ,०१६.०२

आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः ।

दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ ,०३४.१३

स समुद्रो अपीच्यस्तुरो द्यामिव रोहति नि यदासु यजुर्दधे ।

स माया अर्चिना पदास्तृणान्नाकमारुहन्नभन्तामन्यके समे ॥ ,०४१.०८

यद्वा प्रस्रवणे दिवो मादयासे स्वर्णरे ।

यद्वा समुद्रे अन्धसः ॥ ,०६५.०२

आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।

न त्वामिन्द्राति रिच्यते ॥ ,०९२.२२

यद्वासि रोचने दिवः समुद्रस्याधि विष्टपि ।

यत्पार्थिवे सदने वृत्रहन्तम यदन्तरिक्ष आ गहि ॥ ,०९७.०५

समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः ।

भरन्त्यस्मै संयतः पुरःप्रस्रवणा बलिम् ॥ ८,१००.०९

और्वभृगुवच्छुचिमप्नवानवदा हुवे ।

अग्निं समुद्रवाससम् ॥ ,१०२.०४

हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः ।

अग्निं समुद्रवाससम् ॥ ,१०२.०५

आ सवं सवितुर्यथा भगस्येव भुजिं हुवे ।

अग्निं समुद्रवाससम् ॥ ,१०२.०६

समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः ।

सोमः पवित्रे अस्मयुः ॥ ९,००२.०५

प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि ।

जिन्वन्कोशं मधुश्चुतम् ॥ ९,०१२.०६

सुषहा सोम तानि ते पुनानाय प्रभूवसो ।

वर्धा समुद्रमुक्थ्यम् ॥ ,०२९.०३

इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय ।

रायो धर्ता न ओजसा ॥ ९,०३५.०२

अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम् ।

वर्धा समुद्रमुक्थ्यम् ॥ ,०६१.१५

पवमान नि तोशसे रयिं सोम श्रवाय्यम् ।

प्रियः समुद्रमा विश ॥ ,०६३.२३

प्र हिन्वानास इन्दवोऽच्छा समुद्रमाशवः ।

धिया जूता असृक्षत ॥ ,०६४.१६

मर्मृजानास आयवो वृथा समुद्रमिन्दवः ।

अग्मन्नृतस्य योनिमा ॥ ,०६४.१७

पुनान इन्दवेषां पुरुहूत जनानाम् ।

प्रियः समुद्रमा विश ॥ ९,०६४.२७

अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः ।

अग्मन्नृतस्य योनिमा ॥ ९,०६६.१२

एष स्य सोमः पवते सहस्रजिद्धिन्वानो वाचमिषिरामुषर्बुधम् ।

इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दि कलशेषु सीदति ॥ ,०८४.०४

दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम् ।

अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोरूर्मा मधुमन्तं पवित्र आ ॥ ९,०८५.१०

त्वं समुद्रो असि विश्ववित्कवे तवेमाः पञ्च प्रदिशो विधर्मणि ।

त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः ॥ ,०८६.२९

तं मर्मृजानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम् ।

तं वावशानं मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे ॥ ,०९५.०४

अक्रान् त्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा।

वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः॥ ९.०९७.४०

हिन्वानो वाचमिष्यसि पवमान विधर्मणि।

अक्रान्देवो न सूर्यः॥ ९.०६४.०९

हे पवमान सोम हिन्वानः प्रेर्यमाणस्त्वं वाचं शब्दम् इष्यसि प्रेरयसि । कदेत्यत्राह । यदा तव रसः सूर्यः देवो न देव इव विधर्मणि विधारके पवित्रे अक्रान् अक्रमीत् तदेत्यर्थः ॥

सहस्रधारः पवते समुद्रो वाचमीङ्खयः ।

सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥ ९,१०१.०६

अभि सोमास आयवः पवन्ते मद्यं मदम् ।

समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ॥ ९,१०७.१४

मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि ।

रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥ ९,१०७.२१

इन्द्रस्य हार्दि सोमधानमा विश समुद्रमिव सिन्धवः ।

जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ॥ ९,१०८.१६

एकः समुद्रो धरुणो रयीणामस्मद्धृदो भूरिजन्मा वि चष्टे ।

सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्ये निहितं पदं वेः ॥ १०,००५.०१

अध्वर्यवोऽप इता समुद्रमपां नपातं हविषा यजध्वम् ।

स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तं सुनोत ॥ १०,०३०.०३

समुद्रे त्वा नृमणा अप्स्वन्तर्नृचक्षा ईधे दिवो अग्न ऊधन् ।

तृतीये त्वा रजसि तस्थिवांसमपामुपस्थे महिषा अवर्धन् ॥ १०,०४५.०३

यत्ते समुद्रमर्णवं मनो जगाम दूरकम् ।

तत्त आ वर्तयामसीह क्षयाय जीवसे ॥ १०,०५८.०५

यद्देवा यतयो यथा भुवनान्यपिन्वत ।

अत्रा समुद्र आ गूळ्हमा सूर्यमजभर्तन ॥ १०,०७२.०७

प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात्प्र समुद्रस्य धासेः ।

प्र वातस्य प्रथसः प्र ज्मो अन्तात्प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥ १०,०८९.११

आर्ष्टिषेणो होत्रमृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान् ।

स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि ॥ १०,०९८.०५

एकः सुपर्णः स समुद्रमा विवेश स इदं विश्वं भुवनं वि चष्टे ।

तं पाकेन मनसापश्यमन्तितस्तं माता रेळ्हि स उ रेळ्हि मातरम् ॥ १०,११४.०४

द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् ।

भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥ १०,१२३.०८

अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे ।

ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ १०,१२५.०७

अपामिदं न्ययनं समुद्रस्य निवेशनम् ।

अन्यं कृणुष्वेतः पन्थां तेन याहि वशां अनु ॥ १०,१४२.०७

आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः ।

ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे ॥ १०,१४२.०८

युवं भुज्युं समुद्र आ रजसः पार ईङ्खितम् ।

यातमच्छा पतत्रिभिर्नासत्या सातये कृतम् ॥ १०,१४३.०५

सविता यन्त्रैः पृथिवीमरम्णादस्कम्भने सविता द्यामदृंहत् ।

अश्वमिवाधुक्षद्धुनिमन्तरिक्षमतूर्ते बद्धं सविता समुद्रम् ॥ १०,१४९.०१

यत्रा समुद्र स्कभितो व्यौनदपां नपात्सविता तस्य वेद ।

अतो भूरत आ उत्थितं रजोऽतो द्यावापृथिवी अप्रथेताम् ॥ १०,१४९.०२

पतङ्गमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः ।

समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः ॥ १०,१७७.१

समुद्द्रवन्त्यस्माद्रश्मय इति समुद्रं सूर्यमण्डलम् ।समुद्द्रवन्त्यस्माद्भूतानीति समुद्रः परमात्मा ।

ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत ।

ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥ १०,१९०.०१

सिन्धुश्छन्द इति । प्राणो वै सिन्धुश्छन्दः समुद्रश्छन्द इति मनो वै समुद्रश्छन्दः सरिरं च्छन्द इति वाग्वै सरिरं छन्दः – मा.श. ८.५.२.[४]

सम्वत्सरे समुद्रप्रतरणोपासनम्।

समुद्रं वा एते प्रतरन्ति। ये संवत्सराय दीक्षन्ते। तस्य तीर्थमेव प्रायणीयोऽतिरात्रः। तीर्थेन हि प्रस्नांति। तद्यत्प्रायणीयमतिरात्रमुपयन्ति। यथा तीर्थेन समुद्रं प्रस्नायुः। तादृक्तत्॥१॥ - मा.श. 12.2.1.1

स यथा सर्वासामपां समुद्र एकायनम् एवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषां गन्धानां नासिके एकायनमेवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्रमेकायनमेवं सर्वेषां संकल्पानां मन एकायनमेवं सर्वेषां वेदानां हृदयमेकायनमेवं सर्वेषां कर्मणां हस्तावेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषामानन्दानन्दानामुपस्थ एकायनमेवं सर्वेषां विसर्गाणां पायुरेकायनमेवं सर्वासां विद्यानां वागेकायनम् – मा.श. १४.५.४.११

समुद्रादूर्मिमुदियर्ति वेनो– ऐ.ब्रा. १.२२

द्रप्सः समुद्रमभि यज्जिगाति– ऐ.ब्रा. – १.२२

समुद्रादूर्मिर्मधुमाँ उदारदिति सप्तमस्याह्न आज्यम्भवत्यनिरुक्तम्सप्तमेऽहनि सप्तमस्याह्नो रूपं वाग्वै समुद्रो न वै वाक्क्षीयते न समुद्रः क्षीयते तद्यदेतत्सप्तमस्याह्न आज्यम्भवति –ऐ.ब्रा. ५.१६

सा-र्वायुष आन्तादा परार्धात्पृथिव्यै समुद्र पर्यन्ताया एकराळ् इति तं एतेनैन्द्रेण महाभिषेकेण क्षत्रियं शापयित्वाऽभिषिञ्चेद्यां – ऐ.ब्रा. 8.15

अग्निर्वा एष वैश्वानरः पञ्चमेनिर्यत्पुरोहितस्ताभी राजानं परिगृह्य तिष्ठति समुद्र इव भूमिम्। अयुवमार्यस्य राष्ट्रं भवति नैनं पुराऽऽयुषः प्राणो जहात्याजरसं जीवति सर्वमायुरेति न पुनर्म्रियते यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः। - ऐ.ब्रा. ८.२५

समुद्र

१. अर्णवाय त्वा, सिन्धवे त्वा, समुद्राय त्वा सरसे त्वा। काठ ४०,४ ।

२. स उपयजति । समुद्रं गच्छ स्वाहेत्यापो वै समुद्र आपो रेतो रेत एवैतत्सिञ्चति। माश ,,,११

अथ गृह्णाति । समुद्रस्य त्वाक्षित्या ऽउन्नयामीत्यापो वै समुद्रोऽप्स्वेवैतदक्षितिं दधाति तस्मादाप ऽएतावति भोगे भुज्यमाने न क्षीयन्ते तदन्वेकधनानुन्नयन्ति तदनु पान्नेजनान् - ३.९.३.२७

समुद्रे ते हृदयमप्स्वंतः इति। आपो वै समुद्रः। रसो वा आपः। तदेनमेतेन रसेन संसृजति। सं त्वा विशंत्वोषधीरुतापः इति तदेनमेतेन उभयेन रसेन संसृजति। यश्च ओषधिषु यश्चाप्सु। माश १२,,,

३. एष वाव स समुद्रः। यच्चात्वालः । तै ,,१०,।।

४. या अमू रेतः समुद्रं वृत्वातिष्ठंस् ताः प्राच्यो दक्षिणाच्यः प्रतीच्य उदीच्यः समवद्रवन्त तद् यत् समवद्रवन्त तस्मात् समुद्र उच्यते। गो ,,

स समुद्राद् अमुच्यत स मुच्युर् अभवत् तं वा एतं मुच्युं सन्तं मृत्युर् इत्य् आचक्षतेगो १.१.७

५. तद्वस्तिमभिनत् । स समुद्रो ऽभवत्। तस्मात्समुद्रस्य ( जलं ) न पिबन्ति । प्रजननमिव हि मन्यन्ते । तै २,,,२-३।

६. अयं वै लोको गार्हपत्य आपः परिश्रित इमं तं लोकमद्भिः परितनोति समुद्रेण हैनं तत्परितनोति सर्वतस्तस्मादिमं लोकं सर्वतः समुद्रः पर्येति दक्षिणावृत्तस्मादिमं लोकं दक्षिणावृत्समुद्रः पर्येति । माश , , ,१३

इमे वै लोका एषोऽग्निरिमांस्तल्लोकानद्भिः परितनोति समुद्रेण हैनांस्तत्परितनोति सर्वतस्तस्मादिमांल्लोकान्त्सर्वतः समुद्रः पर्येति दक्षिणावृत् - माश ,,,

७. तस्य मर्त्यामृतयोर्वै तीराणि समुद्र एव तद्यत्समुद्रेण परिगृहीतं तन्मृत्योराप्तमथ यत्परं तदमृतं ३ स यो ह स समुद्रो य एवायं पवत एष एव स समुद्रः एतं हि संद्रवन्तं सर्वाणि भूतान्यनुसंद्रवन्ति..... स एष पार एव समुद्रस्योदेति स उद्यन्नेव वायोः पृष्ठ आक्रमते सोऽमृतादेवोदेति अमृतमनुसंचरति अमृते प्रतिष्ठितः। जैउ ,,,

८. योनिः समुद्रः। मै ३,,५।

९. समुद्र इव हि कामोऽपरिमितः। काठ ९,१२ ।

१०. समुद्रं वै नामैतच् छन्दः समुद्रम् अनु प्रजाः प्र जायन्ते यद् एतेन सिकता निवपति प्रजानाम् प्रजननाय। तैसं ,,,

११. समुद्रः स्रोत्यानाम् ( अधिपतिः )। तैसं ३,,,१ ।

१२. समुद्रेणापः ( अन्वाभवन् )। काठ ३५,१५। ।

१३. यज्ञतन्वाख्या इष्टकाः -- सिन्धुर् अवभृथम् अवप्रयन् । समुद्रो ऽवगतः सलिलः प्रप्लुतः (सोमः)। तैसं , ,,

आपो व इषवः समुद्रः । अधिपतयो नाम स्थ तेषां व उपरि गृहाः ।तैसं ५.५.१०.४

अन्तरिक्ष- जै १.१६५ ८१;

अप् २५७ ऐ १.७, तैआ ३.१०.३;

अपां त्वा योनौ सादयामीति । समुद्रो वा अपां योनिः समुद्रे तां सादयति- माश ७.५.२.५८

अग्निहोत्रम् -- आदित्यो यूपः । यजमानः पशुः । समुद्रो ऽवभृथः ।-तैब्रा २.१.५.२

हर्वा अश्वम् पुरस्तान्महिमाऽन्वजायत तस्य पूर्वे समुद्रे योनी रात्रिरेनम्पश्चान्महिमान्वजायत तस्यापरे समुद्रे योनिः - माश १०.६.४.१

हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वासुरानश्वो मनुष्यान्त्समुद्र एवास्य बन्धुः समुद्रो योनिः। माश १०.६.४.१

९८ तैसं ७.५.२५.३;

अहोरात्र- ३७ तैसं ३.२.२.१, जै १.५;

समुद्र उदरम् अन्तरिक्षम् पायुः । द्यावापृथिवी आण्डौ ग्रावा शेपः सोमो रेतः । यज् जञ्जभ्यते तद् वि द्योतते यद् विधूनुते तत् स्तनयति यन् मेहति तद् वर्षति - तैसं ७.५.२५.२

२१ तैसं ७.५.१६.१, मै ३.१५.४, काठ ५२.६;

कश्यप४ जै ३.२७३;

काम- ४ तैआ ३.१०.२;

स समुद्र उत्तरतः प्राज्वलद्भूम्यन्तेन । एष वाव स समुद्रः । यच्चात्वालः । एष उ वेव स भूम्यन्तः । यद्वेद्यन्तः । तदेतत्त्रिशलं त्रिपूरुषम् । तस्मात्तं त्रिवितस्तं खनन्ति - तै १.५.१०.१

छन्दोम- २० जै ३.१९४, ३.१९५, २०५स २१३, २२२, २७३;

तपस्- २७ तै ३.११.१.३ ;

तेजस्- ३४ तै ३.११.१.४;

दक्षिण,णा३२ मै ४.७.८;

समुद्रोऽसि नभस्वानिति । असौ वै लोकः समुद्रो नभस्वानार्द्रदानुरित्येष ह्यार्द्रं ददाति तद्योऽमुष्मिंलोके वायुस्तमस्मिन्नेतद्दधाति शम्भूर्मयोभूरभि मा वाहि स्वाहेति शिवः स्योनोऽभि मा वाहीत्येतत् - माश ९.४.२.५

पशु- ३३३ काठ २०.४, क ३१.६;

पुरुष- ७५ जै ३.६, ७,५,

पृथिवी- १०१ जै १.२९३;

समुद्रे त्वा सदने सादयामीति । मनो वै समुद्रो मनसो वै समुद्राद्वाचाभ्र्या देवास्त्रयीं विद्यां निरखनंस्तदेष श्लोकोऽभ्युक्तो ये समुद्रान्निरखनन्देवास्तीक्ष्णाभिरभ्रिभिः। सुदेवो अद्य तद्विद्याद्यत्र निर्वपणं दधुरिति मनः समुद्रो वाक्तीक्ष्णाभ्रिस्त्रयी विद्या निर्वपणमेतदेष श्लोकोऽभ्युक्तो मनसि तां सादयति माश ७.५.२.५२

मरुत्- ५ मै २.४.७; तु काठ ११.९

रथन्तर- ३९ जै १.३३२;

मा त्वा समुद्र उद्वधीन्मा सुपर्ण इति रुक्मो वै समुद्रः पुरुषः सुपर्णस्तौ त्वामोद्वधिष्टामित्येतदव्यथमाना पृथिवीं दृंहेति माश ७.४.२.५

वरुण- ६१ मै ४.७.८,

वाच- ९६ ऐ ५.१६, तु तां ७.७.९;

समुद्राय त्वा वाताय स्वाहेति अयं वै समुद्रो योऽयं पवत एतस्माद्वै समुद्रात्सर्वे देवाः सर्वाणि भूतानि समुद्द्रवन्ति तस्मा एवैनं जुहोति ...... सरिराय त्वा वाताय स्वाहेति अयं वै सरिरो योऽयं पवत एतस्माद्वै सरिरात्सर्वे देवाः सर्वाणि भूतानि सहेरते - माश १४.२.२.२;

स॒मु॒द्रो॒ऽसि वि॒श्वव्य॑चा – वाज.सं ५.३३

ब्रह्मासनम् । समुद्रोसि विश्वव्यचाः समुद्र इव त्वमसि सर्वव्यधनः तत्र हि समुद्र इवाऽगाधो ज्ञानेन ब्रह्मणि तिष्ठति । विश्वं च यज्ञं च व्यञ्चति कृताकृतप्रत्यवेक्षणेन ।

विश्वव्यचस्- मैसं १.२.१२, काठ २.१३;

समुद्राय शिशुमारानालभते- मै ३.१४.२, मै ३.१४.११

समुद्रः कस्मात्समुद्भवन्त्यस्मादापः समभिद्रवन्त्येनमापः संमोदन्तेऽस्मिन्भूतानि समुदको भवति समुनत्तीति वा । (निरु. २. १०)