संस्कृतवार्ता


ISSN 2348 – 8417 

अङ्कः  – चतुर्थः (चतुर्थवर्षः), चैत्रमासः, विक्रमसंवत् – 2074

Vol – IV (Year – IV) April – 2017


नवसंवत्सरारम्भोत्सवः

स्थानम् जयपुरं, राजस्थानम्, भारतम्

28-03-2017

वार्तासौजन्यम् पं. दीपकशास्त्री, जयपुरं, राजस्थानम्, भारतम्

 

        २८-मार्च-२०१७तमे दिनाङ्के जयपुर-महानगर-कार्यालयस्य प्रातः ११:00 वादने उद्घाटनं जातम्। कार्यक्रमस्य सुन्दरकाण्ड-पाठात् आरम्भः कृतः। पाठानन्तरं हवन-कार्यक्रमः अपि जातः। हवन-कार्यक्रमे जयपुर-महानगरस्य जयपुर-प्रान्तस्य च कार्यकर्तारः मिलित्वा आहुतिं दत्तवन्तः। उद्घाटन-कार्यक्रमे मुख्य-अतिथिरूपेण राष्ट्रिय-संस्कृत-संस्थानस्य प्राचार्यः डॉ. प्रकाशपाण्डेयमहोदयः, मुख्यवक्तृरूपेण महामण्डलेश्वरस्वामी ज्ञानेश्वरमहोदयः, स्थानीयपार्षद: च चासन् । 

  

कार्यक्रमस्य अध्यक्षता जयपुर-प्रान्ताध्यक्षेण श्री हरिशंकर-भारद्वाज-महोदयेन कृता । महानगरस्य अध्यक्षः श्री प्रकाशः शर्मा महोदयः, जयपुर-प्रान्ताध्यक्षः श्री चन्द्रशेखरः महोदयः, प्रान्तप्रचार-प्रमुखः श्रीघनश्यामः हरदेनिया महोदयः, प्रान्तगण-सदस्यः श्रीरघुवीर-महोदयः, जयपुरमहानगरस्य कार्यालय-प्रमुख: श्री दीपक: शास्त्री महोदयः, अन्ये कार्यकर्तारः उपस्थिताः आसन् । महामण्डलेश्वरेण स्वामिना ज्ञानेश्वर-महोदयेन संस्कृत-भाषायाः भारतीय-नववर्षस्य च महत्त्वं बोधितम्। हवनकर्ता डॉ. धर्मेन्द्रपाठकमहोदयः नववर्षस्य वर्षफलं ज्ञापितवान् । महानगरस्य संयोजकः श्री सन्तोषशर्मा महोदयः गीताशिक्षणकेन्द्र-बालकेन्द्र-सम्भाषणशालेत्यादीनां प्रकल्पाणां कार्यक्रमाणां च विषये बोधितवान्।



द्विदिवसीय-राज्यस्तरीय-महाकविकालिदाससम्मेलनम्

आयोजकं - हिमाचल-संस्कृत-अकादमी-दौलतपुरराजकीयमहाविद्यालययोः संयुक्ततत्त्वावधानम्

स्थानम् - दौलतपुर राजकीयमहाविद्यालयः, दौलतपुरं, हि.प्र.भारतम्

       27-28 / 03 / 2017

( चैत्र-शुक्लप्रतिपदा मंगलवासरः २०७४)

वार्तासौजन्यम् श्रीअमनदीपशर्मा, दौलतपुरं,हि.प्र.भारतम्

दौलतपुरचौकः ऊऩा हिमाचलप्रदेशः- समेषां संस्कृतप्रेमीजनानां कृते महद्हर्षस्य विषयोऽयं यत् हिमाचल-संस्कृत-अकादमीद्वारा आयोजितं मार्चमासस्य२७ दिनाङ्कतः प्रारभ्य २८ दिनाङ्कं यावत् द्विदिवसीयं महाकविकालिदाससम्मेलनं सार्थकतामभजत । २७तमे दिनाङ्के प्रातः कालादेव संस्कृतभारत्याः विज्ञानप्रदर्शिन्या आरब्धस्य अस्य सम्मेलनस्य सत्रारम्भः २७तमे दिनाङ्के सांय ५ वादने कविसम्मेलनेन अभवत् । अस्य सम्मेलनस्य कार्यक्रमः क्रमशः विव्रियते-


संस्कृतविज्ञानप्रदर्शनी-(२७-०३-२०१७) अस्यां संस्कृतभारत्याः विज्ञानप्रदर्शिन्यां राजकीयमहाविद्यालयस्य विज्ञानेतिहास-गणित-शिक्षाशास्त्र-सङ्गणक-प्रबन्धनादिविषयाणां सर्वैः छात्रैः उत्साहेन भागः गृहीतः येषां कृते अभूतपूर्वः अनुभवः आसीत् । अस्मिन् कार्यक्रमे महाविद्यालयस्य प्राचार्यवर्यैः डॉ.राजकुमारसन्दलमहोदयैः महाविद्यालयस्य अजयकुमारसहगल - देवकलाशर्मा - रितुजसवाल - निधिशर्मा - बी.के.मिश्रा - डॉ.सुमिन्दरवर्मा डॉ.अमनदीपशर्मा-धीरजशर्मा - सुशीलकुमार - सतीशकालिया - सन्दीपपुष्करना - सञ्जयभाटिया - सुरिन्दरकालियादिप्राध्यापकैः प्रदर्शन्यां भागः गृहीतः



संस्कृतकविसम्मेलनम्- (२७-०३-२०१७) अस्य कार्यक्रमस्यारम्भः सांये ५ वादने अकाद्मया सचिवर्यस्य डॉ०मस्तरामशर्ममहोदयस्य अध्यक्षतायामभवत् । कार्यक्रमस्य संचालनं ललितशर्ममहोदेन कृतम्। कार्यक्रमेऽस्मिन् मुख्यातिथिरूपेण विराजमानाः संस्कृतभारत्याः अध्यक्षवर्यः डॉ.भक्तवत्सलमहोदयः, राष्ट्रिय-संस्कृत-संस्थानस्य वेदव्यासपरिसरस्य प्राध्यापकाः डॉ.सुज्ञानकुमारमहान्तिमहाभागः, डोहगीसंस्कृतमहाविद्यालयस्य डॉ.कृष्णपाण्डेयमहोदयः, हिमाचलसंस्कृतभारत्याः संगठनमन्त्री नरेन्द्रकुमारः तथा च हिमाचलप्रदेशस्य विविधक्षेत्रेभ्यः समागताः कविविद्वद्वराः च आसन् । सर्वप्रथमं महाविद्यालयस्य प्राचार्यवर्यैः डॉ.आर.के.सन्दलवर्यैः समस्तानां अतिथीनां मनसा वाचा स्वागतं कृतम्,  किञ्च दौलतपुरे आगमनार्थं भूरि भूरिशः विदुषां धन्यबादः ज्ञापितः । कार्यक्रमस्य संजोजकेन डॉ.अमनदीपशर्मामहोदयेनापि समेषाम् आगतानां स्वागतं वितीर्य अतिथीनां परिचयः कारितः । कार्यक्रमेऽस्मिन् ये काव्यपाठकर्ता आसन् तेषां क्रमशः विवरणं प्रस्तूयते -



1.    डॉ.सुज्ञानकुमारमहान्तिः - साहित्यविभागः-राष्ट्रिय-संस्कृत-संस्थानम्,  वेदव्यासपरिसरः बलाहरः, काङ्गड़ा, हिमाचलप्रदेशः।

2.    डॉ.अजयकुमारसहगलमहोदयः-गणितव्याख्याता-राजकीयमहाविद्यालयः दौलतपुरचौकः ऊना, हिमाचलप्रदेशः।

3.   डॉ.भक्तवत्सलमहोदयः- प्राचार्यः, राजकीयसंस्कृतमहाविद्यालयः, डोहगी, ऊना हिमाचलप्रदेशः।

4.   डॉ. कृष्णकुमारपाण्डेयः- संस्कृतव्याख्याताराजकीयसंस्कृतमहाविद्यालयः, डोहगी, ऊना, हिमाचलप्रदेशः।

5.   नरेन्द्रकुमारः- संगठनमन्त्री, संस्कृतभारती,  हिमाचलप्रदेशः।

6.   डॉ. मस्तरामशर्मा- सचिवः, हिमाचल-संस्कृत-अकादमी, शिमला

7.   डॉ. विशाल बदनसीब- चिकित्सकः, हिमाचलसर्वकारः।

8.   बलजिन्दरशर्मा-स्थानीयः कविः

9.    डॉ. अमनदीपशर्मा – संस्कृतव्याख्याता, राजकीयमहाविद्यालयः, दौलतपुरचतुस्पथम्, ऊना,  हिमाचलप्रदेशः।

10.  राजकुमारः- इतिहासप्राध्यापकः, राजकीयमहाविद्यालयः, दौलतपुरचतुस्पथम्, ऊना हिमाचलप्रदेशः।

11.  डॉ.देवकलाशर्मा- सहायकाचार्यः हिन्दीविभागः, राजकीयमहाविद्यालयः, दौलतपुरचतुस्पथम्, ऊना हिमाचलप्रदेशः।

12.  सञ्जयभाटिया- व्याख्याता राजनीतिशास्त्रम्- राजकीयमहाविद्यालयः, दौलतपुरचतुस्पथम्, ऊना हिमाचलप्रदेशः।

13. डॉ. शिवकुमारशर्मा- संस्कृत- अध्यापकः- मण्डलम्- अम्ब, ऊना, हिमाचलप्रदेशः।

14.  सतीशकालिया- आंग्लव्याख्याता, राजकीयमहाविद्यालयः, दौलतपुरचतुस्पथम्, ऊना हिमाचलप्रदेशः।

15.  राजीवराणा-अर्थशास्त्रव्याख्याता, राजकीयमहाविद्यालयः, दौलतपुरचतुस्पथम्, ऊना हिमाचलप्रदेशः।

16. गोपालशर्मा- नाहन, सिरमौरः, हिमाचलप्रदेशः।


इतोऽपि शोधपत्रवाचकाः राज्यस्तरीये क्रार्यक्रमेऽस्मिन् समागताः आसन्। येषु संस्कृत- इतरक्षेत्रीयैः जनैरपि शोधपत्रवाचनं कृतम् येषु अर्थशास्त्रस्य डॉ.आर.के.सन्दलमहोदयः, गणितविषयस्य अजयकुमारसहगलमहोदयः, आग्ङ्गलभाषायाः डॉ.रितुजसवालः, हिन्दीभाषायाः डॉ.देवकलाशर्मा इत्यादयः प्रमुखतया आसन् । अस्य शोधपत्रवाचनकार्यक्रमस्य समापनं अपराह्णे अभवत्। यत्र अकादमी पक्षतः सुव्यवस्था कल्पिता आसीत् ।


सम्मानसमारोहः- कार्यक्रमस्योद्घाटनं मध्याह्नकाले द्विवादने अभवत्। अस्य कार्यक्रमस्य सञ्चालनं आंग्लभाषायाः प्राध्यापकेन संस्कृतानुरागिनः सतीशकालियामहोदयेन कृतम्। अस्मिन् कार्यक्रमे राष्ट्रिय-संस्कृत-संस्थानम्, वेदव्यापरिसरः, बलाहरः इत्यस्मात् प्रो०लक्ष्मीनिवासपाण्डेयः मुख्यातिथिरूपेण सभामण्डपे विराजमानाः आसन् तैः सह बलाहरपरिसरस्य वरिष्ठाः प्राध्यापकाः डॉ.अशोकचन्द्रगौड़ः, डॉ.गणेशशङ्करविद्यार्थी, डॉ.सुज्ञानकुमारमहान्तिवर्यः विराजमानाः आसन् ।

    


अवसरोऽयं संस्कृतज्ञानां कृते महानन्दप्रदायकः आसीत् यतोहि कार्यक्रमेऽस्मिन् बलाहरपरिसरस्य छात्रैः आचार्यसुज्ञानकुमारमहान्तिवर्याणां निर्देशने सांस्कृतिककार्यक्रमः प्रयोजितः। एतस्मिन् समये हिमाचल-संस्कृत-अकादमीपक्षतः सचिवमहोदयेन डॉ.मस्तरामवर्येण सर्वेषां भूरिशः भूरिशः अभिनन्दनेन छात्राणामभिनन्दनं कृतम् । समापनसमारोहः इति नाम्नासंकीर्तिते कार्यक्रमेऽस्मिन् वरिष्ठानां प्रेरणात्मकैः वाक्यैः सांस्कृतिकैः च कार्यक्रमैः समेषां विविधक्षेत्राद् समागतानाम् श्रोतॄणां मनसि प्रथमतया संस्कृतगौरवं संस्कृतबीजञ्च प्ररूढम् । अस्मिन्नेव अवसरे अतिथीनां सम्मानस्य परिपाटीं विधाय शोधपत्रवाचकेभ्यः प्रमाणपत्रवितरणमभवत् । कार्यक्रमोऽयं द्विदिवसीयमहाकविकालिदाससम्मेलनस्यान्तिमं सोपानम् आसीत् । अतः सोपानमिदं तीर्त्वा शान्तिमन्त्रेणास्य कार्यक्रमस्य समापनम् अभवत्।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।।

सर्वे भद्राणि पश्यन्तु मा कश्चित्दुःखभाग्भवेत्।



 द्विदिवसीया राष्ट्रिया कार्यशाला

श्रीवेङ्कटेश्वरविश्वविद्यालयः, संस्कृतविभागः, तिरुपतिः, भारतम्

22.02.2017 - 23.02.2017

वार्तासौजन्यम्डा.सुजाता मुनुकुतल, तिरुपतिः, भारतम्


तिरुपतिस्थश्रीवेङ्कटेश्वरविश्वविद्यालये संस्कृतविभागे फिब्रवरी 22,23 दिनाङ्कौ संस्कृतसाहित्ये पर्यावरणजागृतिः इति विषयमधिकृत्य द्विदिवसीयराष्ट्रियकार्यशाला आयोजिता । [UGC Two Day National Seminar on Environment Awareness as Reflected in Sanskrit Literature.]


कार्यक्रमस्य उद्घाटनसमारोहे श्रसमुद्राललक्ष्मणय्यमहोदयाः मुख्यातिथिभाषणं कृतवन्तः। पञ्चभूतानां निलयः प्रकृतिः एव इति तस्याः रक्षणं अस्माभिः करणीयमिति च ते कथितवन्तः।  प्रकृतिः दैवसमाना। प्रकृतेः, पर्यावरणस्य च संरक्षणेन मानवानां रक्षणं सुसाध्यं भवतीति वेदविश्वविद्यालयस्य उपकुलपतयः प्रो क.इ. देवनाथन् महोदयाः उक्तवन्तः। संस्कृतसाहित्ये वेदकालादारभ्य विविधसाहित्यग्रन्थेषु अरण्यानां, वृक्षाणां, प्रकृतेश्च वर्णनं तेषाम् आवश्यकता च वर्णितमस्तीति ते सूचितवन्तः। अद्यतनकाले आधुनिकजीवने प्रकृतेः असमतुल्यता कारणेन नैके अनर्थाः सम्भवन्तीति च ते आवेदनं व्यक्तीकृतवन्तः। अनया कार्यशालया समाजे प्रकृतेः उपरि समग्रमवगमनं भवतीति तेषाम् अभिप्रायमप्रकटयन्।


रामयणभारतेपि  विविधसन्दर्भेषु पर्यावरणस्य प्राधान्यं विवृतवन्तः  इति, प्राचीनकाले अरण्यानि, वृक्षान्, पशून् च कुटुम्बजनाः परिवारे गणना कृतवन्त स्म च इति प्रो. कृष्णमूर्तिमहोदयाः उक्तवन्तः। पर्यावरणस्य हानि यः करोति सः तस्य आग्रहस्य कारकः भवतीत्यपि च ते कथितवन्तः।

श्रीवेङ्कटेश्वरविश्वविद्यालयस्य कुलसचिवः आचार्यदेवराजमहोदयाः प्रस्तुतनागरिककाले  जनाः पर्यावरणपरिरक्षणस्योपरि अश्रद्धां प्रदर्शयन्तीति आक्रोशितवन्तः।

कार्यशालायाः सञ्चालिका डा.शिरीषामहाभागाः आधुनिककाले समाजे पर्यावरणपरिरक्षणमेव प्रथमः कर्तव्यः इति जनास्सर्वे भावयन्त्विति सूचितवत्यः। कार्यशालायां विभागाधिपतयः डा.मुनिरत्नं महोदयाः, आचार्यपद्मनाभं महोदयाश्च आसन्।

संस्कृत-अकाडमी-हैदराबादतः, कर्नाटकराज्यतः, बीजपुरतः, वेदविश्वविद्यालयतः, राष्ट्रियसंस्कृतविद्यापीठतः बहवः अध्यापकाः, शोधच्छात्राश्च 150 प्रतिभागिन्यः आगत्य अस्यां कार्यशालायां भागं गृहीतवन्तः।


 

द्विदिवसीयराष्ट्रियसङ्गोष्ठी

अष्टादशविद्याः

आयोजिका - आदर्शशोधसंस्थायाः संस्कृतपरिषद्, हैदराबाद्, भारतम् 

27th & 28th February, 2017

वार्तासौजन्यम् – डा.वी.श्रीनिवासशर्मा, हैदराबाद्, भारतम् 


        राष्ट्रियसंस्कृतसंस्थानेन  मानितायाम् आदर्शशोधसंस्थायां संस्कृतपरिषदि   हैदराबाद् नगरे फरवरी  27&28 दिनाङ्कयोः अष्टादशविद्याः इत्यंशम् अधिकृत्य द्विदिवसीयराष्ट्रियसङ्गोष्ठी आयोजिता । अस्यां सङ्गोष्ठ्यां विभिन्नेभ्यः राज्येभ्यः 100 शतं  संख्याकाः पण्डिताः, परिशोधकाश्च  भागं संगृह्य परिशोधनपत्रेषु स्व स्व विचारधारां प्रकटीचक्रुः। उद्घाटनसमारोहे  आदौ डा .सन्तोषकुमारःजोषि  अतिथीनां स्वागतं व्याहृत्य तेषां परिचयम् अकरोत् । ततः संस्कृतपरिषदः प्रभारी निदेशकः  डा. वि. श्रीनिवासशर्मा संस्कृतपरिषदः उद्धेश्यत्रयं विवृत्य   सङ्गोष्ठ्याः उद्धेश्यं  एवं प्रयोजनं च  प्राकटयत् । अस्य कार्यक्रमस्य उद्घाटनं उस्मानियाविश्वविद्यालयस्य कुलपतिना आचार्य एस्  रामचन्द्रम् महोदयेन कृतम् ।  आचार्य के. नीलकंठम्  अध्यक्षः बि.ओ.एस् संस्कृतविभागः, उस्मानियाविश्वविद्यालयः अध्यक्षभाषणमकरोत् । ततः मुख्यातिथिः आचार्य. एस् रामचन्द्रम् महोदयः संस्कृतभाषामहत्वं,  संस्कृतभाषा-सङ्गणकयोः सम्बन्धः तस्मिन् विषये कर्तव्यानि कार्यानि इत्याद्यंशान् उद्धिश्य भाषितवान् ।  अनन्तरम्   आचार्य श्रीनिवास वरखेडि सङ्कायाध्याक्षः, शास्त्रविभागः, कर्णाटकसंस्कृतविश्वविद्यालयः, बेंगलूर् दिशानिर्देशभाषणमकरोत्।  अनन्तरं डा. पेन्ना मधुसूदनः सङ्कायाध्यक्षः, भारतीयदर्शनविभागः, कविकुलगुरुसंस्कृतविश्वविद्यालयः, रामटेकम्,  गौरवातिथिरूपेण भागमग्रहीत् । अस्मिन्नवसरे  संस्कृतपरिषदः वार्षिकशोधपत्रिकायाः (जे. एस्. ए.) एवं संस्कृतपरिषदः वार्तापत्रिकायाश्च लोकार्पणं कृतम् अतिथिभिः । एवं संस्कृतअकाडमी (वेब् सैट्) उद्घाटनमपि जातम् । अन्ते अतिथीनां सम्मानम् कृतम् । कार्यक्रमेऽस्मिन् वन्दनसमर्पणमाचरितम् डा. वि. सुब्रह्मण्येन ।


        फरवरी 27तमे दिनाङ्के  भोजनानन्तरं प्रथमसत्रस्य  डा. पेन्ना मधुसूदनः अध्यक्षस्थानमलङ्कृतवान् । अस्मिन् सत्रे  आचार्य ए.नटराज् विभागाध्यक्षः, सेन्ट्रलयूनिवर्सिटि असाम् , आचार्य नरेन्द्रकाप्रे  ऋग्वेदपण्डितः, अध्यक्षः संस्कृतभारती, तेलङ्गाणाराज्यम्,  आचार्य  जि. श्रीनिवासुलु  कुलसचिवः, श्रीचन्द्रशेखरेन्द्रसरस्वतीविश्वविद्यालयः,काञ्चीपुरम्,  आचार्य भीमसेनशर्मा संस्कृतविभागाधिपतिचराः उस्मानियाविश्वविद्यालयः, डा.के.वि.रामशास्त्री, निवृत्त परिशोधनाधिकारी जि .ओ .एम् .एल् आन्ध्रप्रदेशः, डा एस्. रमादेवी, प्रांशुपाला , श्रीरामचन्द्रडिग्री आण्ड् पिजि कलाशाला , इत्येते महान्तः विद्वांसः  स्वकीयपत्राणि विविधांशेषु समर्पितवन्तः।


        द्वितीयसत्रे  महामहोपाध्याय नल्लगोण्डपुरुषोत्तमशर्मा  निवृत्त न्यायशास्रोपन्यासकः, श्रीराजराजेश्वरसंस्कृतकलाशाला वेमुलवाडा , एवं आचार्य श्रीपादसुब्रह्मण्यं विभागाधिपतचराः, तेलुगुविश्विविद्यालयः,आचार्य टि. केशवनारायण निवृत्तसंस्कृतविभागाधिपतिः, उस्मानियाविश्वविद्यालयः डा एल् नरसिंहम् वरिष्ठपरिशोधनाधिकारी, इन्डालजीविभागः पाण्डिचेरि,  एवं डा ए सच्चिदानन्दमूर्तिः सहायकाचार्यः, राष्ट्रियसंस्कृतविद्यापीठम्, श्री एम् .किशन्  सहायकाचार्यः, संस्कृतविभागः, दिल्लीविश्वविद्यालयः, दिल्ली इत्येते शोधपत्राणि समर्पितवन्तः।

        द्वितीयेऽहनि 28 अष्टाविंशतितमे दिनाङ्गे प्रातःकाले  प्रथमद्वितीयसत्रयोः आचार्य पि.वरप्रसादमूर्तिः, तेलुगु एवं ओरियण्टल् विभागः, आचार्यनागार्जुनविश्वविद्यालयः, आन्ध्रप्रदेशः, आचार्य बि.नरसिंहाचार्युलु निवृत्तसंस्कृतविभागाधिपतिः उस्मानियाविश्वविद्यालयः, श्री टि. श्रीहरिशर्मा, निवृत्तप्रांशुपालः, श्रीराजराजेश्वरसंस्कृतकलाशाला वेमुलवाडा, आचार्या पि. शशिरेखा,  निवृत्तसंस्कृतविभागाधिपतिः उस्मानियाविश्वविद्यालयः, डा.श्यामसुन्दर्, डा. उमापतिः, डा.के.सुधाकर् राव् , डा कुप्पाश्रीनिवासशास्त्री, डा.विद्यानन्दार्या डा. सागि.कमलाकरशर्मा. श्री चिलुकूरि भुवनेश्वर्  इत्येते विद्वांसः स्व स्व विचारधाराः स्वीयपत्रेषु प्राकटयन् ।

        एवं सप्तविंशतितमाष्टाविंशतितमदिनाङ्कयोः प्रथमेऽहनि वेदिकाद्वये सत्रद्वयम्, एवं द्वितीयऽहनि वेदिकाद्वये सत्रत्रयं आयोजितम् । एतेषु विभिन्नसत्रेषु अशीतिसंख्याकाः संस्कृतविद्वांसः, संस्कृतोपन्यासकाः, परिशोधकछात्राः स्व स्व परिशोधनपत्राणि समर्पितवन्तः।

अष्टाविंशतितमदिनाङ्के सायं सार्धचतुर्वादने समापनसामारोहकार्यक्रमः समभवत् । अस्मिन् कार्यक्रमे आदौ सङ्गोष्ठीसंयोजकः डा. सन्तोषकुमारः जोषी अतिथीनां स्वागतं व्याजहार । डा. एस् वि.रङ्गरामानुजाचार्यः निदेशकः, जीवा हैदराबाद्, विशिष्टातिथिः संस्कृतवाङ्मये बहुत्र बहुस्थलेषु विभिन्नविषयेषु शोधकार्यं प्रचलति परं सर्वेषां योजनमत्यन्तमावश्यकं तदानीमेव पूर्णफलं प्राप्यते इति अवदन् । अनन्तरं आचार्य एवि. नागसम्पिगे निदेशकः पूर्णप्रज्ञासंशोधनमन्दिरम् बेंगलूर् एते  अष्टादशविद्यानामध्ययनावश्यकता इत्यांद्यंशान् उध्दिश्य भाषितवन्तः। ततःआचार्य दिलीप् कुमार् राणा निदेशकः चिन्मया इन्टर्नेशनल् फैण्डेशन् एर्नाकुलम् केरल महोदयः  यथा दधिमथनेन नवनीतमागच्छति तथा आसु विद्यासु बहुवारं बहुभिः कृत चर्चाभिः नवनीतरूपसारांशः आगच्छति  इति वदन् एतादृश सङ्गोष्ठीनां निर्वहणमावश्यकता अत्यन्तमस्तीत्यवदत् ।

        अन्ते अस्याः सभायाः अध्यक्षः डा. वि. श्रीनिवासशर्मा सङ्गोष्ठ्याः द्विदिवसीयनिवेदिकां निवेदतवान् । ततः अतिथीनां सम्मानम् । भागग्रहीतारौ प्रभाकरशर्मा, गोपलाकृष्णौ सङ्गोष्ट्याः अनुभवम्  अवदताम् ।  डा सन्तोषकुमारेण सभायै कृतज्ञताञ्जलिः प्रकटितः । शान्तिमन्त्रेणेयं सङ्गोष्ठी समाप्तिं प्राप्ता । 


 

सर्वासां समस्यानां समाधानं गीता

त्रिदिवसीय: गीताशिक्षकप्रशिक्षणं समग्रचिन्तनञ्चेति आवासीय: वर्ग:

आयोजकं - संस्कृतभारत्या अवधप्रान्तान्तर्गतं लखनऊदक्षिणम्

20.02.2017 22.02.2017

वार्तासौजन्यम् डा. नवलता

 

        संस्कृतभारत्या अवधप्रान्तान्तर्गतं लखनऊदक्षिणम् इत्यस्य तत्त्वावधाने २०-२२ फरवरी २०१७पर्यन्तं नाबार्डपरिसरे त्रिदिवसीय: गीताशिक्षकप्रशिक्षणं समग्रचिन्तनञ्चेति आवासीय: वर्ग: आयोजित:। वर्गेऽस्मिन् प्रायेण ३५ प्रतिभागिन: प्रशिक्षणं प्राप्तवन्त: येषु वित्तकोषाधिकारिण: आयुक्तचरा: अभियन्तार: व्यवसायिन: शोधच्छात्रा: वाक्कीलाश्चेत्यादय आसन्।


        वर्गे गीतापारायणं व्याकरणस्वाध्याय: आकांक्षापद्धत्या गीतामन्त्राणां व्याख्या समत्वयोग: दैवीसम्पत् गीतारामचरितमानसयो: तुलनात्मकविमर्श: मोक्षमार्गश्चेति विषयेषु विशेषज्ञानामुद्बोधनानि च जातानि।


        उद्घाटनसत्रे सभाध्यक्ष: दयानन्द इण्टरकॉलेज इत्यस्य प्रधानाचार्य: श्री राम उजागरशुक्ल: मुख्यवक्ता च संस्कृतभारत्या: उत्तरप्रदेशोत्तराञ्चलयो: सङ्घटनमन्त्री डॉ. सञ्जीवराय आसीत्। अवधप्रान्तस्याध्यक्षस्य श्री शोभनलाल उकिलमहोदयस्य सान्निध्यम् आसीत्।


        समारोपसत्रे सभाध्यक्षपदं लखनऊविश्वविद्यालयस्य संस्कृतविभागाध्यक्षचर: डॉ. कृष्णकुमारमिश्र: मुख्यवक्तृपदं डॉ. कन्हैया लाल झा विशिष्टातिथिपदञ्च ज्योतिर्विज्ञान-विभागस्य सह- आचार्य: डॉ. विष्णुकान्तशुक्लोऽलञ्चक्रु: ।

     

वर्गस्य विविधसत्रेषु काशी, गोरक्षपुरं, कानपुरम् अवधश्चेति प्रान्तेभ्य: समागता अधिकारिण: डॉ. सञ्जीवराय: डॉ. कन्हैयालालझा श्रीशोभनलाल उकिल: श्रीप्रकाशझा च प्रशिक्षणार्थिन उद्बोधितवन्त: ।

        वर्गस्य संयोजनं श्रीशीतलप्रसादवर्मा सहसंयोजनञ्च श्री सहदेवसिंहकुशवाह: कृतवन्तौ ।


भारतीयविद्या : वैश्विकपरिप्रेक्ष्येइति विषये अन्ताराष्ट्रिया संगोष्ठी

आयोजिका – “वाईडर एसोसिएशन फॉर वैदिक स्टडीजइति संस्था, भारतम्

दिनाङ्कः – 23 फरवरी, 2017  

स्थानम् – भारतीयविद्याभवनम्, दिल्ली, भारतम्

वार्तासौजन्यम् - डॉ० अपर्णाधीरः , दिल्लीभारतम्


        वेव्ससंस्थया (वाईडर एसोसिएशन फॉर वैदिक स्टडीज) देहलीस्थभारतीयविद्याभवने 23 फरवरी 2017तमे दिनाङ्के एका संगोष्ठी आयोजिता आसीत् । सर्वप्रथमं डॉ० सुप्रियासंजूमहोदया सरस्वतीवन्दनां प्रस्तुतवती। संस्थासंस्थापकप्रो.भूदेवमहोदयस्य अध्यक्षतायां संगोष्ठ्या आरम्भः अभवत् । संगोष्ठ्यामस्यां त्रयः आमन्त्रिताः वक्तारः आसन् । बेलजीयमदेशात् तुलनात्मकधर्मस्य लेखकः डॉ० कोन्रार्डइल्स्टमहोदयः तथा च अमेरिकादेशात् समागतः अध्यापकः डॉ० मनोहरशिण्डेमहोदयः धर्म सभ्यता फाउंडेशन इति संस्थायाः च अध्यक्षः आस्ताम् । इतोऽपि देहलीविश्वविद्यालयस्य राष्ट्रियपाण्डुलिपिमिशनसंस्थायाः पूर्वाध्यक्षा प्रो०दीप्तित्रिपाठिवर्या आसीत् ।


        अवसरेऽस्मिन् भारतीयविद्याभवनस्य अध्यक्षः श्री अशोकवर्यः मुख्यातिथिरूपेण तथा च संस्कारम् इत्यस्य सम्पादकः श्री ईश्वरदयालकंसलवर्यः विशिष्टातिथिरूपेण आस्ताम् । वेव्जसंस्थायाः संयुक्तसचिवः डॉ० अपर्णाधीरवर्या कार्यक्रमस्य सञ्चालनं तथा च अतिथीनां स्वागतमकरोत् ।


        डॉ० कोन्रार्डइल्स्टमहोदयेन धर्म की परिभाषा एवं सीमाओं इति विषयमधिकृत्य स्वविचारान् प्रस्तूयोक्तं वेदेषु प्रतिपादितं ऋतमेव धर्मस्य संकल्पनायां परिवर्तितमस्तीति अपि च तत्त्वमिदं अद्यापि भारतीयचिन्तने प्रमुखं वर्ततेइति । एवमेव कर्मस्यावधारणापि भारतीयविद्यायाम् अद्वितीयास्तीत्युक्तमाचार्यैः ।

        डॉ० मनोहरशिण्डेवर्यः अमेरिकादेशे भारतीयाध्ययनस्य विषयान् प्रास्तौत् अपि च तेनोक्तं पश्चिमिविद्यालयेषु ते किम् पाठ्यते तद् ज्ञातव्यमिति । पश्चिमिदेशेषु भारतीयविचाराः यथार्थरूपेण नोपस्थाप्यन्ते इति महोदयस्य कथनमिदमासीत् ।


        चीनदेशे अतिथिप्राध्यापिकारूपेण कार्यं कृतवत्या प्रो० दीप्तित्रिपाठीमहोदयया चीनदेशे भारतीयाध्ययनस्य रूपरेखा इति विषयमधिकृत्य स्वविचाराः प्रस्तुताः । चीनदेशीयाः द्विसहस्राद् वर्षेभ्यः भारतीयविद्यायां रुचिं धारयन्ति तथा च चीनदेशे बौद्धधर्मस्य बहुकार्यमभवत् बहु ग्रन्थाः च अनुदिताः इति सा उक्तवती । श्री अशोकप्रधानवर्यः भारतीयविद्याभवनस्य देहलीस्थकेन्द्रे भारतीयविद्यायाः अनुसन्धानकेन्द्रस्य च संचालनस्य परिचयं दत्तवान् । युवानः भारतीयविद्यायाः अध्ययनाय जागरूका भवेयुरिति श्रीकंसलमहोदयेनोक्तम् । संस्थायाः संस्थापकेन प्रो० भूदेववर्येण अध्यक्षीयभाषणं कृतम् ।

        सभायाम् वहवः विद्वांसः श्रोतृरूपेणोपस्थिता आसन्, तेषु –डॉ.शशितिवारी, डॉ. सरोजचावला, डॉ. सती शंकर, डॉ.सरोगुलाटी, श्री वाई.के. वाधवा, डॉ. आर. एस. कौशलः, डॉ.धर्मा, डॉरञ्जितबेहरा, डॉ.ललिताजुनेजा, डॉ.नीना मिश्रा, डॉ.शकुन्तलापुंजानी, श्रीतिलक अरोढ़ा, डॉ.रजनीसरीन, डॉ. धनञ्जमणित्रिपाठी, डॉ.आशालतापाण्डेयः, इत्यादयः । वेव्जसंस्थायाः उपाध्यक्षेण प्रो०लल्लनप्रसादवर्येण संगोष्ठ्यां उपस्थितनां सर्वेषां अतिथीनां सभासदां च कृते धन्यवादः ज्ञापितः  । संगोष्ठ्याः समापनं श्रीप्रेमदेवलीवर्यया शान्तिमन्त्रेण कारितम्। 







  Editor in Chief

     Dr.Sugyan Kumar Mahanty

To send news / informations / poetries in Sanskrit / Research Papers to this site please type in Arial Unicode MS(Devanagari) & email to prachiprajnaenb@gmail.com


Published by

DR. SUGYAN KUMAR MAHANTY


RASHTRIYA SANSKRIT SANSTHAN, VEADVYAS CAMPUS, BALAHAR, DIST. KANGRA,TEHSIL-RAKKAR, H.P. INDIA,  PIN – 177108.

email - prachiprajnaenb@gmail.com


© The right of all the contents of this site is solely reserved to the Publisher.



Comments