श्री गणपतिस्तोत्रम्

|| श्री गणेशाय नम: || नारद उवाच ||

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ||
भक्तावासं स्मरेन्नित्यमायु:कामार्थसिध्दये || १ ||

प्रथमं वक्रतुंडंच एकदंतं द्वितियकम् ||
त्रीतीय कृष्णपिंगाक्षं गजवक्रं चतुर्थकम् || २ ||

लंबोदरं पंचमंच षष्ठं विकतमेवच ||
सप्तमं विघ्नरजेन्द्रं धूम्रवर्णं तथाष्टमम् || ३ ||

नवमं भालचंद्रंच दशमं  तु गजाननम् || ४ ||

द्वादशैतानि नमानि त्रिसंध्यं य: पठेन्नर: ||
नच विघ्नभयं तस्य सर्वासिध्दिकरं प्रभो || ५ ||

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ||
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् || ६ ||

जपेद् गणपतिस्तोत्रम् षडिभर्मासै: फलं लभेत् ||
संवत्सरेण सिध्दिंच लभते नात्र संशय: || ७ ||

अष्टभ्यो ब्राम्हणेभ्यश्च लिखित्वा य: समर्पयेत ||
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: || ८ ||

इति श्रीनारदपुराणे संकटनाशनस्तोत्रम् संपूर्णम्